arrow_back All Chapters

Chapter 638

Sarga 101

VERSE 638.1

श्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः । युधाजिद्गार्ग्यसहितं परां प्रीतिमुपागमत् ।। 7.101.1 ।।

READ MEANING arrow_forward
VERSE 638.2

स निर्ययौ जनौघेन महता केकयाधिपः । त्वरमाणो ऽभिचक्राम गन्धर्वान्कामरूपिणः ।। 7.101.2 ।।

READ MEANING arrow_forward
VERSE 638.3

भरतश्च युधाजिच्च समेतौ लघुविक्रमैः । गन्धर्वनगरं प्राप्तौ सबलौ सपदानुगौ ।। 7.101.3 ।।

READ MEANING arrow_forward
VERSE 638.4

श्रुत्वा तु भरतं प्राप्तं गन्धर्वास्ते समागताः । योद्धुकामा महावीर्या व्यनदन् वै समन्ततः ।। 7.101.4 ...

READ MEANING arrow_forward
VERSE 638.5

ततः समभवद्युद्धं तुमुलं रोमहर्षणम् । सप्तरात्रं महाभीमं न चान्यतरयोर्जयः ।। 7.101.5 ।।

READ MEANING arrow_forward
VERSE 638.6

खड्गशक्तिधनुर्ग्राहा नद्यः शोणितसंस्रवाः । नृकलेवरवाहिन्यः प्रवृत्ताः सर्वतोदिशम् ।। 7.101.6 ।।

READ MEANING arrow_forward
VERSE 638.7

ततो रामानुजः क्रुद्धः कालस्यास्त्रं सुदारुणम् । संवर्तं नाम भरतो गन्धर्वेष्वभ्यचोदयत् ।। 7.101.7 ।।

READ MEANING arrow_forward
VERSE 638.8

ते बद्धाः कालपाशेन संवर्तेन विदारिताः । क्षणेनाभिहतास्तेन तिस्रः कोट्यो महात्मनाम् ।। 7.101.8 ।।

READ MEANING arrow_forward
VERSE 638.9

तं घातं घोरसङ्काशं न स्मरन्ति दिवौकसः । निमेषान्तरमात्रेण तादृशानां महात्मनाम् ।। 7.101.9 ।।

READ MEANING arrow_forward
VERSE 638.10

हतेषु तेषु सर्वेषु भरतः केकयीसुतः । निवेशयामास तदा समृद्धे द्वे पुरोत्तमे ।। 7.101.10 ।।

READ MEANING arrow_forward
VERSE 638.11

तक्षं तक्षशिलायां तु पुष्कलं पुष्कलावते । गन्धर्वदेशे रुचिरे गान्धारविषये च सः ।। 7.101.11 ।।

READ MEANING arrow_forward
VERSE 638.12

धनरत्नौघसङ्कीर्णे काननैरुपशोभिते । अन्योन्यसङ्घर्षकृते स्पर्धया गुणविस्तरैः ।। 7.101.12 ।।

READ MEANING arrow_forward
VERSE 638.13

उभे सुरुचिरप्रख्ये व्यवहारैरकिल्बिषैः । उद्यानयानसम्पूर्णे सुविभक्तान्तरापणे ।। 7.101.13 ।।

READ MEANING arrow_forward
VERSE 638.14

उभे पुरवरे रम्ये विस्तरैरुपशोभिते । गृहमुख्यैः सुरुचिरैर्विमानसमवर्णिभिः ।। 7.101.14 ।।

READ MEANING arrow_forward
VERSE 638.15

शोभिते शोभनीयैश्च देवायतनविस्तरैः । तालैस्तमालैस्तिलकैर्वकुलैरुपशोभिते ।। 7.101.15 ।।

READ MEANING arrow_forward
VERSE 638.16

निवेश्य पञ्चभिर्वर्षैर्भरतो राघवानुजः । पुनरायान्महाबाहुरयोध्यां केकयीसुतः ।। 7.101.16 ।।

READ MEANING arrow_forward
VERSE 638.17

सो ऽभिवाद्य महात्मानं साक्षाद्धर्ममिवापरम् । राघवं भरतः श्रीमान्ब्रह्माणमिव वासवः ।। 7.101.17 ।।

READ MEANING arrow_forward
VERSE 638.18

शशंस च यथावृत्तं गन्धर्ववधमुत्तमम् । निवेशनं च देशस्य श्रुत्वा प्रीतो ऽस्य राघवः ।। 7.101.18 ।।

READ MEANING arrow_forward
VERSE 638.19

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोत्तरशततमः सर्गः ।। 101 ।।

READ MEANING arrow_forward
arrow_back Previous Chapter Next Chapter 639 arrow_forward