Chapter 645
Sarga 108
ते दूता रामवाक्येन चोदिता लघुविक्रमाः । प्रजग्मुर्मधुरां शीघ्रं चक्रुर्वासं न चाध्वनि ।। 7.108.1 ।।
ते तु त्रिभिरहोरात्रैः सम्प्राप्य मधुरामथ । शत्रुघ्नाय यथातत्त्वमाचख्युः सर्वमेव तत् ।। 7.108.2 ।।
लक्ष्मणस्य परित्यागं प्रतिज्ञां राघवस्य च । पुत्रयोरभिषेकं च पौरानुगमनं तथा ।। 7.108.3 ।।
कुशस्य नगरी रम्या विन्ध्यपर्वतरोधसि । कुशावतीति नाम्ना सा कृता रामेण धीमता । श्रावस्तीति पुरी रम्या ...
अयोध्यां विजनां कृत्वा राघवो भरतस्तथा । स्वर्गस्य गमनोद्योगं कृतवन्तौ महारथौ ।। 7.108.5 ।।
एवं सर्वं निवेद्याशु शत्रुघ्नाय महात्मने । विरेमुस्ते ततो दूतास्त्वर राजेति चाब्रुवन् ।। 7.108.6 ।।
तच्छ्रुत्वा घोरसङ्काशं कुलक्षयमुपस्थितम् । प्रकृतीस्तु समानीय काञ्चनं च पुरोधसम् ।। 7.108.7 ।।
तेषां सर्वं यथावृत्तमब्रवीद्रघनन्दनः । आत्मनश्च विपर्यासं भविष्यं भ्रातृभिः सह ।। 7.108.8 ।।
ततः पुत्रद्वयं वीरः सो ऽभ्यषिञ्चन्नराधिपः । सुबाहुर्मधुरां लेभे शत्रुघाती च वैदिशम् ।। 7.108.9 ।।
द्विधा कृत्वा तु तां सेनां माधुरीं पुत्रयोर्द्वयोः । धनं च युक्तं कृत्वा वै स्थापयामास पार्थिवः ।। 7...
सुबाहुं मधुरायां च वैदेशे शत्रुघातिनम् । ययौ स्थाप्य तदा ऽयोध्यां रथेनैकेन राघवः ।। 7.108.11 ।।
स ददर्श महात्मानं ज्वलन्तमिव पावकम् । सूक्ष्मक्षौमाम्बरधरं मुनिभिः सार्धमक्षयैः ।। 7.108.12 ।।
सो ऽभिवाद्य ततो रामं प्राञ्जलिः प्रयतेन्द्रियः । उवाच वाक्यं धर्मज्ञं धर्ममेवानुचिन्तयन् ।। 7.108.13...
कृत्वाभिषेकं सुतयोर्द्वयो राघवनन्दन । तवानुगमने राजन्विद्धि मां कृतनिश्चयम् ।। 7.108.14 ।।
न चान्यदपि वक्तव्यमतो वीर न शासनम् । विलोक्यमानमिच्छामि मद्विधेन विशेषतः ।। 7.108.15 ।।
तस्य तां बुद्धिमक्लीबां विज्ञाय रघुनन्दनः । बाढमित्येव शत्रुघ्नं रामो वाक्यमुवाच ह ।। 7.108.16 ।।
तस्य वाक्यस्य वाक्यान्ते वानराः कामरूपिणः । ऋक्षराक्षससङ्घाश्च समापेतुरनेकशः ।। 7.108.17 ।।
सुग्रीवं ते पुरस्कृत्य सर्व एव समागताः । तं रामं द्रष्टुमनसः स्वर्गायाभिमुखं स्थितम् ।। 7.108.18 ।।
देवपुत्रा ऋषिसुता गन्धर्वाणां सुतास्तथा । रामक्षयं विदित्वा ते सर्व एव समागताः ।। 7.108.19 ।।
ते राममभिवाद्योचुः सर्वे वानरराक्षसाः । तवानुगमने राजन्सम्प्राप्ताः कृतनिश्चयाः ।। 7.108.20 ।।
यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषोत्तम । यमदण्डमिवोद्यम्य त्वया स्म विनिपातिताः ।। 7.108.21 ।।
तैरेवमुक्तः काकुत्स्थो बाढमित्यब्रवीत् स्मयन् ।। 7.108.22 ।।
एतस्मिन्नन्तरे रामं सुग्रीवो ऽपि महाबलः । प्रणम्य विधिवद्वीरं विज्ञापयितुमुद्यतः ।। 7.108.23 ।।
अभिषिच्याङ्गदं वीरमागतो ऽस्मि नरेश्वर । तवानुगमने राजन्विद्धि मां कृतनिश्चयम् ।। 7.108.24 ।।
तस्य तद्वचनं श्रुत्वा रामो रमयतां वरः । वानरेन्द्रमथोवाचं मैत्रं तस्यानुचिन्तयन् ।। 7.108.25 ।।
सखे शृणुष्व सुग्रीव न त्वया ऽहं विनाकृतः । गच्छेयं देवलोकं वा परमं वा पदं महत् ।। 7.108.26 ।।
बिभीषणमथोवाच राक्षसेन्द्रं महायशाः । यावत्प्रजा धरिष्यन्ति तावत्त्वं वै बिभीषण । राक्षसेन्द्र महावीर...
यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी । यावच्च मत्कथा लोके तावद्राज्यं तवास्त्विह ।। 7.108.28 ...
शासितस्त्वं सखित्वेन कार्यं ते मम शासनम् । प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुमर्हसि ।। 7.108.29 ।।
किञ्चान्यद्वक्तुमिच्छामि राक्षसेन्द्र महामते ।। 7.108.30 ।।
आराधय जगन्नाथमिक्ष्वाकुकुलदैवतम् । आराधनीयमनिशं सर्वैर्दैवैः सवासवैः ।। 7.108.31 ।।
तथेति प्रतिजग्राह रामवाक्यं विभीषणः । राजा राक्षसमुख्यानां राघवाज्ञामनुस्मरन् ।। 7.108.32 ।।
तमेवमुक्त्वा काकुत्स्थो हनूमन्तमथाब्रवीत् । जीविते कृतबुद्धिस्त्वं मा प्रतिज्ञां विलोपय ।। 7.108.33 ...
मत्कथाः प्रचरिष्यन्ति यावल्लोके हरीश्वर । तावद्रमस्व सुप्रीतो मद्वाक्यमनुपालयन् ।। 7.108.34 ।।
एवमुक्तस्तु हनुमान्राघवेण महात्मना । वाक्यं विज्ञापयामास परं हर्षमवाप्य च ।। 7.108.35 ।।
यावत्तव कथा लोके विचरिष्यति पावनी । तावत्स्थास्यामि मेदिन्यां तवाज्ञामनुपालयन् ।। 7.108.36 ।।
जाम्बवन्तं तथोक्त्वा तु वृद्धं ब्रह्मसुतं तथा । मैन्दं च द्विविदं चैव पञ्च जाम्बवता सह ।
तानेवमुक्त्वा काकुत्स्थः सर्वांस्तानृक्षवानरान् । उवाच बाढं गच्छध्वं मया सार्धं यथेप्सितम् ।। 7.108....
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टोतरशततमः सर्गः ।। 108 ।।