Chapter 551
Sarga 14
ततस्तु सचिवैः सार्धं षड्भिर्नित्यं बलोद्धतैः । महोदरप्रहस्ताभ्यां मारीचशुकसारणैः ।। 7.14.1 ।।
धूम्राक्षेण च वीरेण नित्यं समरगृध्नुना । वृतः संप्रययौ श्रीमान्क्रोधाल्लोकान्दहन्निव ।। 7.14.2 ।।
पुराणि स नदीः शैलान्वनान्युपवनानि च । अतिक्रम्य मुहूर्तेन कैलासं गिरिमागमत् ।। 7.14.3 ।।
सन्निविष्टं गिरौ तस्मिन्राक्षसेन्द्रं निशम्य तु । युद्धे ऽत्यर्थकृतोत्साहं दुरात्मानं समन्त्रिणम् ।।...
यक्षा न शेकुः संस्थातुं प्रमुखे तस्य रक्षसः । राज्ञो भ्रातेति विज्ञाय गता यत्र धनेश्वरः ।। 7.14.5 ।।
ते गत्वा सर्वमाचख्युर्भ्रातुस्तस्य चिकीर्षितम् । अनुज्ञाता ययुर्हष्टा युद्धाय धनदेन ते ।। 7.14.6 ।।
ततो बलानां सङ्क्षोभो व्यवर्धत महोदधेः । तस्य नैर्ऋतराजस्य शैलं सञ्चालयन्निव ।। 7.14.7 ।।
ततो युद्धं समभवद्यक्षराक्षससङ्कुलम् । व्यथिताश्चाभवंस्तत्र सचिवा राक्षसस्य ते ।। 7.14.8 ।।
स दृष्ट्वा तादृशं सैन्यं दशग्रीवो निशाचरः । हर्षनादान्बहून्कृत्वा स क्रोधादभ्यधावत ।। 7.14.9 ।।
ये तु ते राक्षसेन्द्रस्य सचिवा घोरविक्रमाः । तेषां सहस्रमेकैकं यक्षाणां समयोधयन् ।। 7.14.10 ।।
ततो गदाभिर्मुसलैरसिभिः शक्तितोमरैः । हन्यमानो दशग्रीवस्तत्सैन्यं समगाहत ।। 7.14.11 ।।
स निरुच्छ्वासवत्तत्र वध्यमानो दशाननः । वर्षद्भिरिव जीमूतैर्धाराभिरवरुध्यत ।। 7.14.12 ।।
न चकार व्यथां चैव यक्षशस्त्रैः समाहतः । महीधर इवाम्भोदैर्धाराशतसमुक्षितः ।। 7.14.13 ।।
स दुरात्मा समुद्यम्य कालदण्डोपमां गदाम् । प्रविवेश ततः सैन्यं नयन्यक्षान्यमक्षयम् ।। 7.14.14 ।।
स कक्षमिव विस्तीर्णं शुष्केन्धनमिवाकुलम् । वातेनाग्निरिवायत्तो यक्षसैन्यं ददाह तत् ।। 7.14.15 ।।
तैस्तु तत्र महामात्यैर्महोदरशुकादिभिः । अल्पावशेषास्ते यक्षाः कृता वातैरिवाम्बुदाः ।। 7.14.16 ।।
केचित्समाहता भग्नाः पतिताः समरक्षितौ । ओष्ठांश्च दशनैस्तीक्ष्णैरदशन्कुपिता रणे ।। 7.14.17 ।।
श्रान्ताश्चान्योन्यमालिङ्ग्य भ्रष्टशस्त्रा रणाजिरे । सीदन्ति च तदा यक्षाः कूला इव जलेन ह ।। 7.14.18 ...
हतानां गच्छतां स्वर्गं युध्यतां पृथिवीतले । प्रेक्षतामृषिसङ्घानां न बभूवान्तरं दिवि ।। 7.14.19 ।।
भग्नांस्तु तान्समालक्ष्य यक्षेन्द्रांस्तु महाबलान् । धनाध्यक्षो महाबाहुः प्रेषयामास यक्षकान् ।। 7.14...
एतस्मिन्नन्तरे राम विस्तीर्णबलवाहनः । प्रेषितो न्यपतद्यक्षो नाम्ना संयोधकण्टकः ।। 7.14.21 ।।
तेन चक्रेण मारीचो विष्णुनेव रणे हतः । पतितो भूतले शैलात्क्षीणपुण्य इव ग्रहः ।। 7.14.22 ।।
ससञ्ज्ञस्तु मुहूर्तेन स विश्रम्य निशाचरः । तं यक्षं योधयामास स च भग्नः प्रदुद्रुवे ।। 7.14.23 ।।
ततः काञ्चनचित्राङ्गं वैडूर्यरजसोक्षितम् । मर्यादां प्रतिहाराणां तोरणान्तरमाविशत् ।। 7.14.24 ।।
तं तु राजन्दशग्रीवं प्रविशन्तं निशाचरम् । सूर्यभानुरिति ख्यातो द्वारपालो न्यवारयत् ।। 7.14.25 ।।
स वार्यमाणो यक्षेण प्रविवेश निशाचरः । यदा तु वारितो राम न व्यतिष्ठत्स राक्षसः ।। 7.14.26 ।।
ततस्तोरणमुत्पाट्य तेन यक्षेण ताडितः । रुधिरं प्रस्रवन्भाति शैलो धातुस्रवैरिव ।। 7.14.27 ।।
स शैलशिखराभेण तोरणेन समाहतः । जगाम न क्षतिं वीरो वरदानात्स्वयम्भुवः ।। 7.14.28 ।।
तेनैव तोरणेनाथ यक्षस्तेनाभिताडितः । नादृश्यत तदा यक्षो भस्मीकृततनुस्तदा ।। 7.14.29 ।।
ततः प्रदुद्रुवुः सर्वे दृष्ट्वा रक्षःपराक्रमम् । ततो नदीर्गुहाश्चैव विविशुर्भयपीडिताः । त्यक्तप्रहरण...
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुर्दशः सर्गः ।। 14 ।।