Chapter 555
Sarga 18
प्रविष्टायां हुताशं तु वेदवत्यां स रावणः । पुष्पकं तु समारुह्य परिचक्राम मेदिनीम् ।। 7.18.1 ।।
ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः । उशीरबीजमासाद्य ददर्श स तु रावणः ।। 7.18.2 ।।
संवर्तो नाम ब्रह्मर्षिः साक्षाद्भ्राता बृहस्पतेः । याजयामास धर्मज्ञः सर्वैर्देवगणैर्वृतः ।। 7.18.3 ।...
दृष्ट्वा देवास्तु तद्रक्षो वरदानेन दुर्जयम् । तिर्यग्योनिं समाविष्टास्तस्य दर्शनभीरवः ।। 7.18.4 ।।
इन्द्रो मयूरः संवृत्तो धर्मराजस्तु वायसः । कृकलासो धनाध्यक्षो हंसश्च वरुणो ऽभवत् ।। 7.18.5 ।।
अन्येष्वपि गतेष्वेवं देवेष्वरिनिषूदन । रावणः प्राविशद्यज्ञं सारमेय इवाशुचिः ।। 7.18.6 ।।
तं च राजानमासाद्य रावणो राक्षसाधिपः । प्राह युद्धं प्रयच्छेति निर्जितो ऽस्मीति वा वद ।। 7.18.7 ।।
ततो मरुत्तो नृपतिः को भवानित्युवाच तम् । अपहासं ततो मुक्त्वा रावणो वाक्यमब्रवीत् ।। 7.18.8 ।।
अकुतूहलभावेन प्रीतो ऽस्मि तव पार्थिव । धनदस्यानुजं यो मां नावगच्छसि रावणम् ।। 7.18.9 ।।
त्रिषु लोकेषु को ऽन्यो ऽस्ति यो न जानाति मे बलम् । भ्रातरं येन निर्जित्य विमानमिदमाहृतम् । ततो मरुत्...
धन्यः खलु भवान्येन ज्येष्ठो भ्राता रणे जितः । न त्वया सदृशः श्लाध्यस्त्रिषु लोकेषु विद्यते ।। 7.18.1...
नाधर्मसहितं श्लाध्यं तल्लोकं प्रतिसंहितम् । कर्म दौरात्म्यकं कृत्वा श्लाघ्यसे भ्रातृनिर्जयात् ।। 7.1...
क त्वं प्राक्केवलं धर्मं चरित्वा लब्धवान्वरम् । श्रूतपूर्वं हि न मया भाषसे यादृशं स्वयम् ।। 7.18.13 ...
तिष्ठेदानीं न मे जीवन्प्रतियास्यसि दुर्मते । अद्य त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम् ।। 7.18.14 ...
ततः शरासनं गृह्य सायकांश्च नराधिपः । रणाय निर्ययौ क्रुद्धः संवर्तो मार्गमावृणोत् ।। 7.18.15 ।।
सो ऽब्रवीत्स्नेहसंयुक्तं मरुत्तं तं महानृषिः । श्रोतव्यं यदि मद्वाक्यं सम्प्रहारो न ते क्षमः ।। 7.18...
माहेश्वरमिदं सत्रमसमाप्तं कुलं दहेत् ।। 7.18.17 ।।
दीक्षितस्य कुतो युद्धं क्रोधित्वं दीक्षिते कुतः । संशयश्च जये नित्यं राक्षसश्च सुदुर्जयः ।। 7.18.18 ...
स निवृत्तो गुरोर्वाक्यान्मरुत्तः पृथिवीपतिः । विसृज्य सशरं चापं स्वस्थो मखमुखो ऽभवत् ।। 7.18.19 ।।
ततस्तं निर्जितं मत्वा घोषयामास वै शुकः । रावणो जयतीत्युच्चैर्हर्षान्नादं विमुक्तवान् ।। 7.18.20 ।।
तान्भक्षयित्वा तत्रस्थान्महर्षीन्यज्ञमागतान् । वितृप्तो रुधिरैस्तेषां पुनः सम्प्रययौ महीम् ।। 7.18.2...
रावणे तु गते देवाः सेन्द्राश्चैव दिवौकसः । ततः स्वां योनिमासाद्य तानि सत्त्वानि चाब्रुवन् ।। 7.18.22...
हर्षात्तदाब्रवीदिन्द्रो मयूरं नीलबर्हिणम् । प्रीतो ऽस्मि तव धर्मज्ञ भुजङ्गाद्धि न ते भयम् ।। 7.18.23...
इदं नेत्रसहस्रं तु यत्त्वद्बर्हे भविष्यति । वर्षमाणे मयि मुदं प्राप्स्यसे प्रीतिलक्षणाम् । एवमिन्द्र...
नीलाः किल पुरा बर्हा मयूराणां नराधिप । सुराधिपाद्वरं प्राप्य गताः सर्वे ऽपि बर्हिणः ।। 7.18.25 ।।
धर्मराजो ऽब्रवीद्राम प्राग्वंशे वायसं स्थितम् । पक्षिंस्तवास्मि सुप्रीतः प्रीतस्य वचनं शृणु ।। 7.18....
यथान्ये विविधै रोगै; पीड्यन्ते प्राणिनो मया । ते न ते प्रभविष्यन्ति मयि प्रीते न संशयः ।। 7.18.27 ।।
मृत्युतस्ते भयं नास्ति वरान्मम विहङ्गम । यावत्त्वां न वधिष्यन्ति नरास्तावद्भविष्यसि ।। 7.18.28 ।।
एते मद्विषयस्था वै मानवाः क्षुद्भयार्दिताः । त्वयि भुक्ते तु तृप्तास्ते भविष्यन्ति सबान्धवाः ।। 7.18...
वरुणस्त्वब्रवीद्धंसं गङ्गातोयविहारिणम् । श्रूयतां प्रीतिसंयुक्तं वचः पत्ररथेश्वर ।। 7.18.30 ।।
वर्णो मनोहरः सौम्यश्चन्द्रमण्डलसन्निभः । भविष्यति तवोदग्रः शुद्धफेनसमप्रभः ।। 7.18.31 ।।
मच्छरीरं समासाद्य कान्तो नित्यं भविष्यसि । प्राप्स्यसे चातुलां प्रीतिमेतन्मे प्रीतिलक्षणम् ।। 7.18.3...
हंसानां हि पुरा राम नीलवर्णः सपाण्डुरः । पक्षा नीलाग्रसंवीताः क्रोडाः शष्पाग्रनिर्मलाः ।। 7.18.33 ।।
अथाब्रवीद्वैश्रवणः कृकलासं गिरौ स्थितम् । हैरण्यं सम्प्रयच्छामि वर्णं प्रीतस्तवाप्यहम् ।। 7.18.34 ।।
सद्रव्यं च शिरो नित्यं भविष्यति तवाक्षयम् । एष काञ्चनको वर्णो मत्प्रीत्या ते भविष्यति ।। 7.18.35 ।।
एवं दत्त्वा वरांस्तेभ्यस्तस्मिन्यज्ञोत्सवे सुराः । निवृत्ताः सह राज्ञा ते पुनः स्वभवनं गताः ।। 7.18....
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टादशः सर्गः ।। 18 ।।