arrow_back All Chapters

Chapter 560

Sarga 23

VERSE 560.1

ततो जित्वा दशग्रीवो यमं त्रिदशपुङ्गवम् । रावणस्तु रणश्लाघी स्वसहायान्ददर्श ह ।। 7.23.1 ।।

READ MEANING arrow_forward
VERSE 560.2

ततो रुधिरसिक्ताङ्गं प्रहारैर्जर्जरीकृतम् । रावणं राक्षसा दृष्ट्वा ह्यष्टवत् समुपागमन् ।। 7.23.2 ।।

READ MEANING arrow_forward
VERSE 560.3

जयेन वर्धयित्वा च मारीचप्रमुखास्ततः । पुष्पकं भेजिरे सर्वे सान्त्विता रावणेन तु ।। 7.23.3 ।।

READ MEANING arrow_forward
VERSE 560.4

ततो रसातलं गच्छन् प्रविष्टः पयसां निधिम् । दैत्योरगगणाध्युष्टं वरुणेन सुरक्षितम् ।। 7.23.4 ।।

READ MEANING arrow_forward
VERSE 560.5

स तु भोगवतीं गत्वा पुरीं वासुकिपालिताम् । कृत्वा नागान्वशे हृष्टो ययौ मणिमयीं पुरीम् ।। 7.23.5 ।।

READ MEANING arrow_forward
VERSE 560.6

निवातकवचास्तत्र दैत्या लब्धवरा वसन् । राक्षसान्तान्समागम्य युद्धाय समुपाह्वयत् ।। 7.23.6 ।।

READ MEANING arrow_forward
VERSE 560.7

ते तु सर्वे सुविक्रान्ता दैतेया बलशालिनः । नानाप्रहरणास्तत्र प्रहृष्टा युद्धदुर्मदाः ।। 7.23.7 ।।

READ MEANING arrow_forward
VERSE 560.8

शूलैस्त्रिशूलैः कुलिशैः पट्टिशासिपरश्वधैः । अन्योन्यं बिभिदुः क्रुद्धा राक्षसा दानवास्तथा ।। 7.23.8 ...

READ MEANING arrow_forward
VERSE 560.9

तेषां तु युध्यमानानां साग्रः संवत्सरो गतः । न चान्यतरयोस्तत्र विजयो वा क्षयो ऽपि वा ।। 7.23.9 ।।

READ MEANING arrow_forward
VERSE 560.10

ततः पितामहस्तत्र त्रैलोक्यगतिरव्ययः । आजगाम द्रुतं देवो विमानवरमास्थितः ।। 7.23.10 ।।

READ MEANING arrow_forward
VERSE 560.11

निवातकवचानां तु निवार्य रणकर्म तत् । वृद्धः पितामहो वाक्यमुवाच विदितार्थवत् ।। 7.23.11 ।।

READ MEANING arrow_forward
VERSE 560.12

नह्ययं रावणो युद्धे शक्यो जेतुं सुरासुरैः । न भवन्तः क्षयं नेतुमपि सामरदानवैः ।। 7.23.12 ।।

READ MEANING arrow_forward
VERSE 560.13

राक्षसस्य सखित्वं च भवद्भिः सह रोचते । अविभक्ताश्च सर्वार्थाः सुहृदां नात्र संशयः ।। 7.23.13 ।।

READ MEANING arrow_forward
VERSE 560.14

ततो ऽग्निसाक्षिकं सख्यं कृतवांस्तत्र रावणः । निवातकवचैः सार्धं प्रीतिमानभवत्तदा ।। 7.23.14 ।।

READ MEANING arrow_forward
VERSE 560.15

अर्थतस्तैर्यथान्यायं संवत्सरमथोषितः । स्वपुरान्निर्विशेषं च प्रियं प्राप्तो दशाननः ।। 7.23.15 ।।

READ MEANING arrow_forward
VERSE 560.16

ततोपधार्य मायानां शतमेकं समाप्तवान् । सलिलेन्द्रपुरान्वेषी भ्रमति स्म रसातलम् ।। 7.23.16 ।।

READ MEANING arrow_forward
VERSE 560.17

ततो ऽश्मनगरं नाम कालकेयैरधिष्ठितम् । गत्वा तु कालकेयांश्च हत्वा तत्र बलोत्कटान् ।। 7.23.17 ।।

READ MEANING arrow_forward
VERSE 560.18

शूर्पणख्याश्च भर्तारमसिना प्राच्छिनत्तदा । श्यालं च बलवन्तं च विद्युज्जिह्वं बलोत्कटम् । जिह्वया संल...

READ MEANING arrow_forward
VERSE 560.19

तं विजित्य मुहूर्तेन जघ्ने दैत्यांश्चतुःशतम् ।। 7.23.19 ।।

READ MEANING arrow_forward
VERSE 560.20

ततः पाण्डुरमेघाभं कैलासमिव भास्वरम् । वरुणस्यालयं दिव्यमपश्यद्राक्षसाधिपः ।। 7.23.20 ।।

READ MEANING arrow_forward
VERSE 560.21

क्षरन्तीं च पयस्तत्र सुरभिं गामवस्थिताम् । यस्याः पयोभिनिष्यन्दात्क्षीरोदो नाम सागरः ।। 7.23.21 ।।

READ MEANING arrow_forward
VERSE 560.22

ददर्श रावणस्तत्र गोवृषेन्द्रवरारणिम् । यस्माच्चन्द्रः प्रभवति शीतरश्मिर्निशाकरः ।। 7.23.22 ।।

READ MEANING arrow_forward
VERSE 560.23

यं समाश्रित्य जीवन्ति फेनपाः परमर्षयः । अमृतं यत्र चोत्पन्नं स्वधा च स्वधभोजिनाम् ।। 7.23.23 ।।

READ MEANING arrow_forward
VERSE 560.24

यां ब्रुवन्ति नरा लोके सुरभिं नाम नामतः । प्रदक्षिणं तु तां कृत्वा रावणः परमाद्भुताम् ।। 7.23.24 ।।

READ MEANING arrow_forward
VERSE 560.25

प्रविवेश महाघोरं गुप्तं बहुविधैर्बलैः । ततो धाराशताकीर्णं शारदाभ्रनिभं तदा । नित्यप्रहृष्टं ददृशे वर...

READ MEANING arrow_forward
VERSE 560.26

ततो हत्वा बलाध्यक्षान्समरे तैश्च ताडितः । अब्रवीच्च ततो योधान्राजा शीघ्रं निवेद्यताम् ।। 7.23.26 ।।

READ MEANING arrow_forward
VERSE 560.27

युद्धार्थी रावणः प्राप्तस्तस्य युद्धं प्रदीयताम् । वद वा न भयं ते ऽस्ति निर्जितो ऽस्मीति साञ्जलिः ।।...

READ MEANING arrow_forward
VERSE 560.28

एतस्मिन्नन्तरे क्रुद्धा वरुणस्य महात्मनः । पुत्राः पौत्राश्च निष्क्रामन्गौश्च पुष्कर एव च ।। 7.23.28...

READ MEANING arrow_forward
VERSE 560.29

ते तु वीर्यगुणोपेता बलैः परिवृताः स्वकैः । युङ्क्त्वा रथान्कामगमानुद्यद्भास्वरवर्चसः ।। 7.23.29 ।।

READ MEANING arrow_forward
VERSE 560.30

ततो युद्धं समभवद्दारुणं रोमहर्षणम् । सलिलेन्द्रस्य पुत्राणां रावणस्य च धीमतः ।। 7.23.30 ।।

READ MEANING arrow_forward
VERSE 560.31

अमात्यैश्च महावीर्यैर्दशग्रीवस्य रक्षसः । वारुणं तद्बलं कृत्स्नं क्षणेन विनिपातितम् ।। 7.23.31 ।।

READ MEANING arrow_forward
VERSE 560.32

समीक्ष्य स्वबलं सङ्ख्ये वरुणस्य सुतास्तदा । अर्दिताः शरजालेन निवृत्ता रणकर्मणः ।। 7.23.32 ।।

READ MEANING arrow_forward
VERSE 560.33

महीतलगतास्ते तु रावणं दृश्य पुष्पके । आकाशमाशु विविशुः स्यन्दनैः शीघ्रगामिभिः ।। 7.23.33 ।।

READ MEANING arrow_forward
VERSE 560.34

महादासीत्ततस्तेषां तुल्यं स्थानमवाप्य तत् । आकाशयुद्धं तुमुलं देवदानवयोरिव ।। 7.23.34 ।।

READ MEANING arrow_forward
VERSE 560.35

ततस्ते रावणं युद्धे शरैः पावकसन्निभैः । विमुखीकृत्य सन्तुष्टा विनेदुर्विविधान्रवान् ।। 7.23.35 ।।

READ MEANING arrow_forward
VERSE 560.36

ततो महोदरः क्रुद्धो राजानं दृश्य धर्षितम् । त्यक्त्वा मृत्युभयं वीरो युद्धकाङ्क्षी व्यलोकयत् ।। 7.23...

READ MEANING arrow_forward
VERSE 560.37

तेन ते दारुणा युद्धे कामगाः पवनोपमाः । महोदरेण गदया हता वै प्रययुः क्षितिम् ।। 7.23.37 ।।

READ MEANING arrow_forward
VERSE 560.38

तेषां वरुणपुत्राणां हत्वा योधान्हयाञ्छतान् । मुमोचाशु महानादं विरथान्प्रेक्ष्य तान्स्थितान् ।। 7.23....

READ MEANING arrow_forward
VERSE 560.39

ते तु तेषां रथाः साश्वाः सह सारथिभिर्हतैः । महोदरेण निहताः पतिताः पृथिवीतले ।। 7.23.39 ।।

READ MEANING arrow_forward
VERSE 560.40

ते तु त्यक्त्वा रथान्पुत्रा वरुणस्य महात्मनः । आकाशे विष्ठिताः शूराः स्वप्रभावान्न विव्यथुः ।। 7.23....

READ MEANING arrow_forward
VERSE 560.41

धनूंषि कृत्वा सज्जानि विनिर्भिद्य महोदरम् । रावणं समरे क्रुद्धाः सहिताः समभिद्रवन् ।। 7.23.41 ।।

READ MEANING arrow_forward
VERSE 560.42

सायकैश्चापविभ्रष्टैर्वज्रकल्पैः सुदारुणैः । दारयन्ति स्म सङ्क्रुद्धा मेघा इव महागिरिम् ।। 7.23.42 ।।

READ MEANING arrow_forward
VERSE 560.43

ततः क्रुद्धो दशग्रीवः कालाग्निरिव निर्गतः । शरवर्षैर्महाघोरैस्तेषां मर्मस्वताडयत् ।। 7.23.43 ।।

READ MEANING arrow_forward
VERSE 560.44

ततस्तेनैव सहसा सीदन्ति स्म पदातयः । मुसलानि विचित्राणि ततो भल्लशतानि च ।। 7.23.44 ।।

READ MEANING arrow_forward
VERSE 560.45

पट्टिशांश्चैव शक्तीश्च शतघ्नीस्तोमरांस्तथा । पातयामास दुर्धर्षस्तेषामुपरि विष्ठितः ।। 7.23.45 ।।

READ MEANING arrow_forward
VERSE 560.46

अपविद्धास्तु ते वीरा विनिष्पेतुः पदातयः । महापङ्कमिवासाद्य कुञ्जराष्षष्टिहायनाः ।। 7.23.46 ।।

READ MEANING arrow_forward
VERSE 560.47

सीदमानान्सुतान्दृष्ट्वा विह्वलान्सुमहौजसः । ननाद रावणो हर्षान्महानम्बुधरो यथा ।। 7.23.47 ।।

READ MEANING arrow_forward
VERSE 560.48

ततो रक्षो महानादान्मुक्त्वा हन्ति स्म वारुणान् । नानाप्रहरणोपेतैर्धारापातैरिवाम्बुदः ।। 7.23.48 ।।

READ MEANING arrow_forward
VERSE 560.49

ततस्ते विमुखाः सर्वे पतिता धरणीतले । रणात्स्वपुरुषैः शीघ्रं गृहाण्येव प्रवेशिताः ।। 7.23.49 ।।

READ MEANING arrow_forward
VERSE 560.50

तानब्रवीत्ततो रक्षो वरुणाय निवेद्यताम् ।। 7.23.50 ।।

READ MEANING arrow_forward
VERSE 560.51

रावणं त्वब्रवीन्मन्त्री प्रहस्तो (प्रहसो) नाम वारुणः । गतः खलु महाराजो ब्रह्मलोकं जलेश्वरः ।। 7.23.5...

READ MEANING arrow_forward
VERSE 560.52

गान्धर्वं वरुणः श्रोतुं यं त्वमाह्वयसे युधि । तत्किं तव वृथा वीर परिश्रम्य गते नृपे । ये तु सन्निहित...

READ MEANING arrow_forward
VERSE 560.53

राक्षसेन्द्रस्तु तच्छ्रुत्वा नाम विश्राव्य चात्मनः । हर्षान्नादं विमुञ्चन्वै निष्क्रान्तो वरुणालयात्...

READ MEANING arrow_forward
VERSE 560.54

आगतस्तु पथा येन तेनैव विनिवृत्य सः । लङ्कामभिमुखो रक्षो नभस्तलगतो ययौ ।। 7.23.54 ।।

READ MEANING arrow_forward
VERSE 560.55

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रयोविंशः सर्गः ।। 23 ।।

READ MEANING arrow_forward
arrow_back Previous Chapter Next Chapter 561 arrow_forward