arrow_back All Chapters

Chapter 562

Sarga 25

VERSE 562.1

स तु दत्त्वा दशग्रीवो वनं घोरं स्वरस्य तत् । भगिनीं च समाश्वास्य हृष्टः स्वस्थतरो ऽभवत् ।। 7.25.1 ।।

READ MEANING arrow_forward
VERSE 562.2

ततो निकुम्भिला नाम लङ्कोपवनमुत्तमम् । तद्राक्षसेन्द्रो बलवान्प्रविवेश सहानुगः ।। 7.25.2 ।।

READ MEANING arrow_forward
VERSE 562.3

ततो यूपशताकीर्णं सौम्यचैत्योपशोभितम् । ददर्श विष्ठितं यज्ञं श्रिया सम्प्रज्वलन्निव ।। 7.25.3 ।।

READ MEANING arrow_forward
VERSE 562.4

ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम् । ददर्श स्वसुतं तत्र मेघनादं भयावहम् ।। 7.25.4 ।।

READ MEANING arrow_forward
VERSE 562.5

तं समासाद्य लङ्केशः परिष्वज्वाथ बाहुभिः । अब्रवीत्किमिदं वत्स वर्तसे ब्रूहि तत्त्वतः ।। 7.25.5 ।।

READ MEANING arrow_forward
VERSE 562.6

उशना त्वब्रवीत्तत्र यज्ञसम्पत्समृद्धये । रावणं राक्षसश्रेष्ठं द्विजश्रेष्ठो महातपाः ।। 7.25.6 ।।

READ MEANING arrow_forward
VERSE 562.7

अहमाख्यामि ते राजञ्छ्रूयतां सर्वमेव तत् । यज्ञास्ते सप्त पुत्रेण प्राप्तास्सुबहुविस्तराः ।। 7.25.7 ।...

READ MEANING arrow_forward
VERSE 562.8

अग्निष्टोमो ऽश्वमेधश्च यज्ञो बहुसुवर्णकः । राजसूयस्तथा यज्ञो गोमेधो वैष्ववस्तथा ।। 7.25.8 ।।

READ MEANING arrow_forward
VERSE 562.9

माहेश्वरे प्रवृत्ते तु यज्ञे पुम्भिः सुदुर्लभे । वरांस्ते लब्धवान्पुत्रः साक्षात्पशुपतेरिह ।। 7.25.9...

READ MEANING arrow_forward
VERSE 562.10

कामगं स्यन्दनं दिव्यमन्तरिक्षचरं ध्रुवम् । मायां च तामसीं नाम यया सम्पद्यते तमः ।। 7.25.10 ।।

READ MEANING arrow_forward
VERSE 562.11

एतया किल सङ्ग्रामे मायया राक्षसेश्वर । प्रयुक्तया गतिः शक्या नहि ज्ञातुं सुरासुरैः ।। 7.25.11 ।।

READ MEANING arrow_forward
VERSE 562.12

अक्षयाविषुधी बाणैश्चापं चापि सुदुर्जयम् । अस्त्रं च बलवद्राजञ्छत्रुविध्वंसनं रणे ।। 7.25.12 ।।

READ MEANING arrow_forward
VERSE 562.13

एतान्सर्वान्वरांल्लब्ध्वा पुत्रस्ते ऽयं दशानन । अद्य यज्ञसमाप्तौ च त्वां दिदृक्षुस्स्थितो ह्यहम् ।। ...

READ MEANING arrow_forward
VERSE 562.14

ततो ऽब्रवीदृशग्रीवो न शोभनमिदं कृतम् । पूजिताः शत्रवो यस्माद्द्रव्यैरिन्द्रपुरोगमाः ।। 7.25.14 ।।

READ MEANING arrow_forward
VERSE 562.15

एहीदानीं कृतं विद्धि सुकृतं तन्न संशयः । आगच्छ सौम्य गच्छामः स्वमेव भवनं प्रति ।। 7.25.15 ।।

READ MEANING arrow_forward
VERSE 562.16

ततो गत्वा दशग्रीवः सपुत्रः सविभीषणः । स्त्रियो ऽवतारयामास सर्वास्ता बाष्पगद्गदाः ।। 7.25.16 ।।

READ MEANING arrow_forward
VERSE 562.17

लक्षिण्यो रत्नभूताश्च देवदानवरक्षसाम् । तस्य तासु मतिं ज्ञात्वा धर्मत्मा वाक्यमब्रवीत् ।। 7.25.17 ।।

READ MEANING arrow_forward
VERSE 562.18

ईदृशैस्त्वं समाचारैर्यशोर्थकुलनाशनैः । धर्षणं ज्ञातिनां ज्ञात्वा स्वमतेन विचेष्टसे ।। 7.25.18 ।।

READ MEANING arrow_forward
VERSE 562.19

ज्ञातींस्तान्धर्षयित्वेमास्त्वया ऽ ऽनीता वराङ्गनाः । त्वामतिक्रम्य मधुना राजन्कुम्भीनसी हृता ।। 7.25...

READ MEANING arrow_forward
VERSE 562.20

रावणस्त्वब्रवीद्वाक्यं नावगच्छामि किं त्विदम् । को ऽयं यस्तु त्वया ऽ ऽख्यातो मधुरित्येव नामतः ।। 7.2...

READ MEANING arrow_forward
VERSE 562.21

विभीषणस्तु सङ्क्रुद्धो भ्रातरं वाक्यमब्रवीत् । श्रूयतामस्य पापस्य कर्मणः फलमागतम् ।। 7.25.21 ।।

READ MEANING arrow_forward
VERSE 562.22

मातामहस्य यो भ्राता ज्येष्ठो भ्राता सुमालिनः । माल्यवानिति विख्यातो वृद्धः प्राज्ञो निशाचरः ।। 7.25....

READ MEANING arrow_forward
VERSE 562.23

पिता ज्येष्ठो जनन्या नो ह्यस्माकं चार्यको ऽभवत् । तस्य कुम्भीनसी नाम दुहितुर्दुहिता ऽभवत् ।। 7.25.23...

READ MEANING arrow_forward
VERSE 562.24

मातृष्वसुरथास्माकं सा च कन्या ऽनलोद्भवा । भवत्यस्माकमेवैषा भ्रातृणां धर्मतः स्वसा ।। 7.25.24 ।।

READ MEANING arrow_forward
VERSE 562.25

सा हृता, मधुना राजन्राक्षसेन बलीयसा । यज्ञप्रवृत्ते पुत्रे तु मयि चान्तर्जलोषिते ।। 7.25.25 ।।

READ MEANING arrow_forward
VERSE 562.26

कुम्भकर्णे महाराज निद्रामनुभवत्यथ । निहत्य राक्षसश्रेष्ठानमात्यानिह सम्मतान् ।। 7.25.26 ।।

READ MEANING arrow_forward
VERSE 562.27

धर्षयित्वा हृता सा तु सुप्ताप्यन्तःपुरे तव । श्रुत्वा ऽपि तन्महाराज क्षान्तमेव हतो न सः ।। 7.25.27 ।...

READ MEANING arrow_forward
VERSE 562.28

यस्मादवश्यं दातव्या कन्या भर्त्रे हि भ्रातृभिः । तदेतत्कर्मणो ह्यस्य फलं पापस्य दुर्मते ।। 7.25.28 ।...

READ MEANING arrow_forward
VERSE 562.29

अस्मिन्नेवाभिसम्प्राप्तं लोके विदितमस्तु ते । विभीषणवचः श्रुत्वा राक्षसेन्द्रः स रावणः । दौरात्म्येन...

READ MEANING arrow_forward
VERSE 562.30

ततो ऽब्रवीदृशग्रीवः क्रुद्धः संरक्तलोचनः । कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु नः ।। 7.25.30 ।...

READ MEANING arrow_forward
VERSE 562.31

भ्राता मे कुम्भकर्णश्च ये च मुख्या निशाचराः । वाहनान्यधिरोहन्तु नानाप्रहरणायुधाः ।। 7.25.31 ।।

READ MEANING arrow_forward
VERSE 562.32

अद्य तं समरे हत्वा मधुं रावणनिर्भयम् । सुरलोकं गमिष्यामि युद्धकाङ्क्षी सुहृद्वृतः ।। 7.25.32 ।।

READ MEANING arrow_forward
VERSE 562.33

अक्षौहिणीसहस्राणि चत्वार्यग्र्याणि रक्षसाम् । नानाप्रहरणान्याशु निर्ययुर्युद्धकाङ्क्षिणाम् ।। 7.25.3...

READ MEANING arrow_forward
VERSE 562.34

इन्द्रजित्त्वग्रतः (अग्रतः) सैन्यात्सैनिकान्परिगृह्य च । जगाम रावणो मध्ये कुम्भकर्णश्च पृष्ठतः ।। 7....

READ MEANING arrow_forward
VERSE 562.35

विभीषणश्च धर्मात्मा लङ्कायां धर्मामाचरत् । शोषाः सर्वे महाभागा ययुर्मधुपुरं प्रति ।। 7.25.35 ।।

READ MEANING arrow_forward
VERSE 562.36

खरैरुष्ट्रैर्हयैर्दीप्तैः शिंशुमारैर्महोरगैः । राक्षसाः प्रययुः सर्वे कृत्वा ऽ ऽकाशं निरन्तरम् ।। 7....

READ MEANING arrow_forward
VERSE 562.37

दैत्याश्च शतशस्तत्र कृतवैराश्च दैवतैः । रावणं प्रेक्ष्य गच्छन्तमन्वगच्छन्हि पृष्ठतः ।। 7.25.37 ।।

READ MEANING arrow_forward
VERSE 562.38

स तु गत्वा मधुपुरं प्रविश्य च दशाननः । न ददर्श मधुं तत्र भगिनीं तत्र दृष्टवान् ।। 7.25.38 ।।

READ MEANING arrow_forward
VERSE 562.39

सा च प्रह्वाञ्जलिर्भूत्वा शिरसा चरणौ गता ।। 7.25.39 ।।

READ MEANING arrow_forward
VERSE 562.40

तस्य राक्षसराजस्य त्रस्ता कुम्भीनसी तदा । तां समुत्थापयामास न भेतव्यमिति ब्रुवन् ।। 7.25.40 ।।

READ MEANING arrow_forward
VERSE 562.41

रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते । साब्रवीद्यदि मे राजन्प्रसन्नस्त्वं महाभुज । भर्तारं न ममेह...

READ MEANING arrow_forward
VERSE 562.42

न हीदृशं भयं किञ्चित्कुलस्त्रीणामिहोच्यते । भयानामपि सर्वेषां वैधव्यं व्यसनं महत् ।। 7.25.42 ।।

READ MEANING arrow_forward
VERSE 562.43

सत्यवाग्भव राजेन्द्र मामवेक्षस्व याचतीम् । त्वयाप्युक्तं महाराज न भेतव्यमिति स्वयम् ।। 7.25.43 ।।

READ MEANING arrow_forward
VERSE 562.44

रावणस्त्वब्रवीद्धृष्टः स्वसारं तत्र संस्थिताम् । क्व चासौ तव भर्ता वै मम शीघ्रं निवेद्यताम् ।। 7.25....

READ MEANING arrow_forward
VERSE 562.45

सह तेन गमिष्यामि सुरलोकं जयावहे । तव कारुण्यसौहार्दान्निवृत्तो ऽस्मि मधोर्वधात् ।। 7.25.45 ।।

READ MEANING arrow_forward
VERSE 562.46

इत्युक्ता सा समुत्थाप्य प्रसुप्तं तं निशाचरम् । अब्रवीत्सम्प्रहृष्टेव राक्षसी सा पतिं वचः ।। 7.25.46...

READ MEANING arrow_forward
VERSE 562.47

एष प्राप्तो दशग्रीवो मम भ्राता महाबलः । सुरलोकजयाकाङ्क्षी साहाय्ये त्वां वृणोति च ।। 7.25.47 ।।

READ MEANING arrow_forward
VERSE 562.48

तदस्य त्वं सहायार्थं सबन्धुर्गच्छ राक्षस । स्निग्धस्य भजमानस्य युक्तमर्थाय कल्पितुम् ।। 7.25.48 ।।

READ MEANING arrow_forward
VERSE 562.49

तस्यास्तद्वचनं श्रुत्वा तथेत्याह मधुर्वचः ।। 7.25.49 ।।

READ MEANING arrow_forward
VERSE 562.50

ददर्श राक्षसश्रेष्ठं यथान्यायमुपेत्य सः । पूजयमास धर्मेण रावणं राक्षसाधिपम् ।। 7.25.50 ।।

READ MEANING arrow_forward
VERSE 562.51

प्राप्य पूजां दशग्रीवो मधुवेश्मानि वीर्यवान् । तत्र चैकां निशामुष्य गमनायोपचक्रमे ।। 7.25.51 ।।

READ MEANING arrow_forward
VERSE 562.52

ततः कैलासमासाद्य शैलं वैश्रवणालयम् । राक्षसेन्द्रो महेन्द्राभः सेनामुपनिवेशयत् ।। 7.25.52 ।।

READ MEANING arrow_forward
arrow_back Previous Chapter Next Chapter 563 arrow_forward