Chapter 540
Sarga 3
अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुङ्गवः । अचिरेणैव कालेन पितेव तपसि स्थितः ।। 7.3.1 ।।
सत्यवाञ्छीलवाञ्छान्तः स्वाध्यायनिरतः शुचिः । सर्वभोगेष्वसंसक्तो नित्यं धर्मपरायणः ।। 7.3.2 ।।
ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महामुनिः । ददौ विश्रवसे भार्यां स्वसुतां देववर्णिनीम् ।। 7.3.3 ।...
प्रतिगृह्य तु धर्मेण भरद्वाजसुतां तदा । प्रजान्वेक्षिकया बुद्ध्या श्रेयो ह्यस्य विचिन्तयन् ।। 7.3.4 ...
मुदा परमया युक्तो विश्रवा मुनिपुङ्गवः । स तस्यां वीर्यसम्पन्नमपत्यं परमाद्भुतम् ।। 7.3.5 ।।
जनयामास धर्मज्ञः सर्वैर्ब्रह्मगुणैर्युतम् । तस्मिञ्जाते तु संहृष्टः सम्बभूव पितामहः ।। 7.3.6 ।।
दृष्ट्वा श्रेयस्करीं बुद्धिं धनाध्यक्षो भविष्यति । नाम तस्याकरोत्प्रीतः सार्धं देवर्षिभिस्तदा ।। 7.3...
यस्माद्विश्रवसो ऽपत्यं सादृश्याद्विश्रवा इव । तस्माद्वैश्रवणो नाम भविष्यत्वेष विश्रुतः ।। 7.3.8 ।।
स तु वैश्रवणस्तत्र तपोवनगतस्तदा । अवर्धताहुतिहुतो महातेजा यथानलः ।। 7.3.9 ।।
तस्याश्रमपदस्थस्य बुद्धिर्जज्ञे महात्मनः । चरिष्ये परमं धर्मं धर्मो हि परमा गतिः ।। 7.3.10 ।।
स तु वर्षसहस्राणि तपस्तप्त्वा महावने । यन्त्रितो नियमैरुग्रैश्चकार सुमहत्तपः ।। 7.3.11 ।।
पूर्णे वर्षसहस्रान्ते तं तं विधिमकल्पयत् । जलाशी मारुताहारो निराहारस्तथैव च ।। 7.3.12 ।।
एवं वर्षसहस्राणि जग्मुस्तान्येकवर्षवत् । अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैः सह ।। 7.3.13 ।।
गत्वा तस्याश्रमपदं ब्रह्मेदं वाक्यमब्रवीत् । परितुष्टो ऽस्मि ते वत्स कर्मणानेन सुव्रत । वरं वृणीष्व ...
अथाब्रवीद्वैश्रवणः पितामहमुपस्थितम् । भगवँल्लोकपालत्वमिच्छेयं वित्तरक्षणम् ।। 7.3.15 ।।
अथाब्रवीद्वैश्रवणं परितुष्टेन चेतसा । ब्रह्मा सुरगणैः सार्धं बाढमित्येव हृष्टवत् ।। 7.3.16 ।।
अहं वै लोकपालानां चतुर्थं स्रष्टुमुद्यतः ।। 7.3.17 ।।
यमेन्द्रवरुणानां च पदं यत्तव चेप्सितम् । तद्गच्छ त्वं हि धर्मज्ञ निधीशत्वमवाप्नुहि । शक्राम्बुपयमाना...
एतच्च पुष्पकं नाम विमानं सूर्यसन्निभम् । प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज ।। 7.3.19 ।।
स्वस्ति ते ऽस्तु गमिष्यामः सर्व एव यथागतम् । कृतकृत्या वयं तात दत्त्वा तव वरद्वयम् ।। 7.3.20 ।।
इत्युक्त्वा स गतो ब्रह्मा स्वस्थानं त्रिदशैः सह ।। 7.3.21 ।।
गतेषु ब्रह्मपूर्वेषु देवेष्वथ नभस्थलम् । वने स पितरं प्राह प्राञ्जलिः प्रयतात्मवान् । निवासनं न मे द...
भगवँल्लब्धवानस्मि वरमिष्टं पितामहात् । तं पश्य भगवन्कञ्चिन्निवासं साधु मे प्रभो ।। 7.3.23 ।।
न च पीडा भवेद्यत्र प्राणिनो यस्य कस्यचित् । एवमुक्तस्तु पुत्रेण विश्रवा मुनिपुङ्गवः ।। 7.3.24 ।।
वचनं प्राह धर्मज्ञः श्रूयतामिति सत्तमः । दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः ।। 7.3.25 ।।
तस्याग्रे तु विशाला सा महेन्द्रस्य पुरी यथा । लङ्का नाम पुरी रम्या निर्मिता विश्वकर्मणा ।। 7.3.26 ।।
राक्षसानां निवासार्थं यथेन्द्रस्यामरावती । तत्र त्वं वस भद्रं ते लङ्कायां नात्र संशयः ।। 7.3.27 ।।
हेमप्राकारपरिघा यन्त्रशस्त्रसमावृता । रमणीया पुरी सा हि रुक्मवैडूर्यतोरणा ।। 7.3.28 ।।
राक्षसैः सा परित्यक्ता पुरा विष्णुभयार्दितैः । शून्या रक्षोगणैः सर्वै रसातलतलं गतैः ।। 7.3.29 ।।
शून्या सम्प्रति लङ्का सा प्रभुस्तस्या न विद्यते । स त्वं तत्र निवासाय गच्छ पुत्र यथासुखम् ।। 7.3.30 ...
निर्दोषस्तत्र ते वासो न बाधास्तत्र कस्यचित् । एतच्छुत्वा स धर्मात्मा धर्मिष्ठं वचनं पितुः ।। 7.3.31 ...
निवासयामास तदा लङ्कां पर्वतमूर्धनि । नैर्ऋतानां सहस्रैस्तु हृष्टैः प्रमुदुतैः सह ।। 7.3.32 ।।
अचिरेणैव कालेन सम्पूर्णा तस्य शासनात् ।। 7.3.33 ।।
स तु तत्रावसत्प्रीतो धर्मात्मा नैर्ऋतर्षभः । समुद्रपरिघायां तु लङ्कायां विश्रवात्मजः ।। 7.3.34 ।।
काले काले तु धर्मात्मा पुष्पकेण धनेश्वरः । अभ्यागच्छद्विनीतात्मा पितरं मातरं च हि ।। 7.3.35 ।।
स देवगन्धर्वगणैरभिष्टुतस्तथाप्सरोनृत्यविभूषितालयः । गभस्तिभिः सूर्य इवावभासयन्पितुः समीपं प्रययौ स व...
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे तृतीयः सर्गः ।। 3 ।।