Chapter 570
Sarga 33
रावणग्रहणं तत्तु वायुग्रहणसन्निभम् । ततः पुलस्त्यः शुश्राव कथितं दिवि दैवतैः ।। 7.33.1 ।।
ततः पुत्रकृतस्नेहात्कम्प्यमानो महाधृतिः । माहिष्मतीपतिं द्रष्टुमाजगाम महानृषिः ।। 7.33.2 ।।
स वायुमार्गमास्थाय वायुतुल्यगतिर्द्विजः । पुरीं माहिष्मतीं प्राप्तो मनःसम्पातविक्रमः ।। 7.33.3 ।।
सो ऽमरावतिसङ्काशां हृष्टपुष्टजनाकुलाम् । प्रविवेश पुरीं ब्रह्मा इन्द्रस्येवामरावतीम् ।। 7.33.4 ।।
पादचारमिवादित्यं निष्पतन्तं सुदुर्दशम् । ततस्ते प्रत्यभिज्ञाय अर्जुनाय निवेदयन् ।। 7.33.5 ।।
पुलस्त्य इति विज्ञाय वचनाद्धैहयाधिपः । शिरस्यञ्जलिमाधाय प्रत्युद्गच्छत्तपस्विनम् ।। 7.33.6 ।।
पुरोहितो ऽस्य गृह्यार्घ्यं मधुपर्कं तथैव च । पुरस्तात्प्रययौ राज्ञः शक्रस्येव बृहस्पतिः ।। 7.33.7 ।।
ततस्तमृषिमायान्तमुद्यन्तमिव भास्करम् । अर्जुनो दृश्य सम्भ्रान्तो ववन्देन्द्र इवेश्वरम् ।। 7.33.8 ।।
स तस्य मधुपर्कं गां पाद्यमर्घ्यं निवेद्य च । पुलस्त्यमाह राजेन्द्रो हर्षगद्गदया गिरा ।। 7.33.9 ।।
अद्यैवममरावत्या तुल्या माहिष्मती कृता । अद्याहं तु द्विजेन्द्र त्वां यस्मात्पश्यामि दुर्दशम् ।। 7.33...
अद्य मे कुशलं देव अद्य मे कुशलं व्रतम् । अद्य मे सफलं जन्म अद्य मे सफलं तपः । यस्माद्देवगणैर्वन्द्यौ...
इदं राज्यमिमे पुत्रा इमे दारा इमे वयम् । ब्रह्मन्किं कुर्मि किं कार्यमाज्ञापयतु नो भवान् ।। 7.33.12 ...
तं धर्मे ऽग्निषु पुत्रेषु शिवं पृष्ट्वा च पार्थिवम् । पुलस्त्योवाच राजानं हैहयानां तथा ऽर्जुनम् ।। 7...
नरेन्द्राम्बुजपत्राक्ष पूर्णचन्द्रनिभानन । अतुलं ते बलं येन दशग्रीवस्त्वया जितः ।। 7.33.14 ।।
भयाद्यस्योपतिष्ठेतां निष्पन्दौ सागरानिलौ । सो ऽयं मृधे त्वया बद्धः पौत्रो मे रणदुर्जयः ।। 7.33.15 ।।
पुत्रकस्य यशः पीतं नाम विश्रावितं त्वया । मद्वाक्याद्याच्यमानो ऽद्य मुञ्च वत्सं दशाननम् ।। 7.33.16 ।...
पुलस्त्याज्ञां प्रगृह्योचे न किञ्चन वचो ऽर्जुनः । मुमोच वै पार्थिवेन्द्रो राक्षसेन्द्रं प्रहृष्टवत् ...
स तं प्रमुच्य त्रिदशारिमर्जुनः प्रपूज्य दिव्याभरणस्रगम्बरैः । अहिंसकं सख्यमुपेत्य साग्निकं प्रणम्य त...
पुलस्त्येनापि सन्त्यक्तो राक्षसेन्द्रः प्रतापवान् । परिष्वक्तः कृतातिथ्यो लज्जमानो विनिर्जितः ।। 7.3...
पितामहसुतश्चापि पुलस्त्यो मुनिपुङ्गवः । मोचयित्वा दशग्रीवं ब्रह्मलोकं जगाम ह ।। 7.33.20 ।।
एवं स रावणः प्राप्तः कार्तवीर्यात्प्रधर्षणम् । पुलस्त्यवचनाच्चापि पुनर्मुक्तो महाबलः ।। 7.33.21 ।।
एवं बलिभ्यो बलिनः सन्ति राघवनन्दन । नावज्ञा हि परे कार्या य इच्छेत् प्रियमात्मनः ।। 7.33.22 ।।
ततः स राजा पिशिताशनानां सहस्रबाहोरुपलभ्य मैत्रीम् । पुनर्नृपाणां कदनं चकार चचार सर्वां पृथिवीं च दर्...
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रयस्त्रिंशः सर्गः ।। 33 ।।