arrow_back All Chapters

Chapter 576

Sarga 39

VERSE 576.1

ते प्रयाता महात्मानः पार्थिवास्ते प्रहृष्टवत् । गजवाजिसहस्रौघैः कम्पयन्तो वसुन्धराम् ।। 7.39.1 ।।

READ MEANING arrow_forward
VERSE 576.2

अक्षौहिण्यो हि तत्रासन्राघवार्थे समुद्यताः । भरतस्याज्ञया ऽनेकाः प्रहृष्टा बलवाहनाः ।। 7.39.2 ।।

READ MEANING arrow_forward
VERSE 576.3

ऊचुस्ते च महीपाला बलदर्पसमन्विताः । न रामरावणं युद्धे पश्यामः पुरतः स्थितम् ।। 7.39.3 ।।

READ MEANING arrow_forward
VERSE 576.4

भरतेन वयं पश्चात्समानीता निरर्थकम् । हता हि राक्षसाः क्षिप्रं पार्थिवैः स्युर्न संशयः ।। 7.39.4 ।।

READ MEANING arrow_forward
VERSE 576.5

रामस्य बाहुवीर्येण रक्षिता लक्ष्मणस्य च । सुखं पारेसमुद्रस्य युध्येम विगतज्वराः ।। 7.39.5 ।।

READ MEANING arrow_forward
VERSE 576.6

एताश्चान्याश्च राजानः कथास्तत्र सहस्रशः । कथयन्तः स्वराज्यानि जग्मुर्हर्षसमन्विताः ।। 7.39.6 ।।

READ MEANING arrow_forward
VERSE 576.7

स्वानि राज्यानि मुख्यानि ऋद्धानि मुदितानि च । समृद्धधनधान्यानि पूर्णानि वसुमन्ति च ।। 7.39.7 ।।

READ MEANING arrow_forward
VERSE 576.8

यथापुराणि ते गत्वा रत्नानि विविधान्यथ । रामस्य प्रियकामार्थमुपहारान् नृपा ददुः ।। 7.39.8 ।।

READ MEANING arrow_forward
VERSE 576.9

अश्वान्यानानि रत्नानि हस्तिनश्च मदोत्कटान् । चन्दनानि च मुख्यानि दिव्यान्याभरणानि च ।। 7.39.9 ।।

READ MEANING arrow_forward
VERSE 576.10

मणिमुक्ताप्रवालांस्तु दास्यो रूपसमन्विताः । अजाविकांश्च विविधान् रथांस्तु विविधान्ददुः ।। 7.39.10 ।।

READ MEANING arrow_forward
VERSE 576.11

भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलाः । आदाय तानि रत्नानि स्वां पुरीं पुनरागताः ।। 7.39.11 ।।

READ MEANING arrow_forward
VERSE 576.12

आगम्य च पुरीं रम्यामयोध्यां पुरुषर्षभाः । तानि रत्नानि चित्राणि रामाय समुपाहरन् ।। 7.39.12 ।।

READ MEANING arrow_forward
VERSE 576.13

प्रतिगृह्य च तत्सर्वं रामः प्रीतिसमन्वितः । सुग्रीवाय ददौ राज्ञे महात्मा कृतकर्मणे ।। 7.39.13 ।।

READ MEANING arrow_forward
VERSE 576.14

बिभीषणाय च ददौ तथान्येभ्यो ऽपि राघवः । राक्षसेभ्यः कपिभ्यश्च यैर्वृतो जयमाप्तवान् ।। 7.39.14 ।।

READ MEANING arrow_forward
VERSE 576.15

ते सर्वे रामदत्तानि रत्नानि कपिराक्षसाः । शिरोभिर्धारयामासुर्बाहुभिश्च महाबलाः ।। 7.39.15 ।।

READ MEANING arrow_forward
VERSE 576.16

हनूमन्तं च नृपतिरिक्ष्वाकूणां महारथः । अङ्गदं च महाबाहुमङ्कमारोप्य वीर्यवान् ।। 7.39.16 ।।

READ MEANING arrow_forward
VERSE 576.17

रामः कमलपत्राक्षः सुग्रीवमिदमब्रवीत् । अङ्गदस्ते सुपुत्रो ऽयं मन्त्री चाप्यनिलात्मजः ।। 7.39.17 ।।

READ MEANING arrow_forward
VERSE 576.18

सुग्रीवमन्त्रिते युक्तौ मम चापि हिते रतौ । अर्हतो विविधां पूजां त्वत्कृते वै हरीश्वर ।। 7.39.18 ।।

READ MEANING arrow_forward
VERSE 576.19

इत्युक्त्वा व्यवमुच्याङ्गाद्भूषणानि महायशाः । स बबन्ध महार्हाणि तदाङ्गदहनूमतोः ।। 7.39.19 ।।

READ MEANING arrow_forward
VERSE 576.20

आभाष्य च महावीर्यान्राघवो यूथपर्षभान् । नीलं नलं केसरिणं कुमुदं गन्धमादनम् ।। 7.39.20 ।।

READ MEANING arrow_forward
VERSE 576.21

सुषेणं पनसं वीरं मैन्दं द्विविदमेव च । जाम्बवन्तं गवाक्षं च विनतं धूम्रमेव च ।। 7.39.21 ।।

READ MEANING arrow_forward
VERSE 576.22

वलीमुखं प्रजङ्घं च सन्नादं च महाबलम् । दरीमुखं दधिमुखमिन्द्रजानुं च यूथपम् ।। 7.39.22 ।।

READ MEANING arrow_forward
VERSE 576.23

मधुरं श्लक्ष्णया वाचा नेत्राभ्यामापिबन्निव । सुहृदो मे भवन्तश्च शरीरं भ्रातरस्तथा ।। 7.39.23 ।।

READ MEANING arrow_forward
VERSE 576.24

युष्माभिरुद्धृतश्चाहं व्यसनात्काननौकसः । धन्यो राजा च सुग्रीवो भवद्भिः सुहृदां वरैः ।। 7.39.24 ।।

READ MEANING arrow_forward
VERSE 576.25

एवमुक्त्वा ददौ तेभ्यो भूषणानि यथार्हतः । वज्राणि च महार्हाणि सस्वजे च नरर्षभः ।। 7.39.25 ।।

READ MEANING arrow_forward
VERSE 576.26

ते पिबन्तः सुगन्धीनि मधूनि मधुपिङ्गलाः । मांसानि च सुमृष्टानि मूलानि च फलानि च ।। 7.39.26 ।।

READ MEANING arrow_forward
VERSE 576.27

एवं तेषां निवसतां मासः साग्रो ययौ तदा । मुहूर्तमिव ते सर्वे रामभक्त्या च मेनिरे ।। 7.39.27 ।।

READ MEANING arrow_forward
VERSE 576.28

रामो ऽपि रेमे तैः सार्धं वानरैः कामरूपिभिः । राक्षसैश्च महावीर्यैर्ऋक्षैश्चैव महाबलैः ।। 7.39.28 ।।

READ MEANING arrow_forward
VERSE 576.29

एवं तेषां ययौ मासो द्वितीयः शिशिरः सुखम् । वानराणां प्रहृष्टानां राक्षसानां च सर्वशः ।। 7.39.29 ।।

READ MEANING arrow_forward
VERSE 576.30

इक्ष्वाकुनगरे रम्ये परां प्रीतिमुपासताम् । रामस्य प्रीतिकरणैः कालस्तेषां सुखं ययौ ।। 7.39.30 ।।

READ MEANING arrow_forward
VERSE 576.31

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनचत्वारिंशः सर्गः ।। 39 ।।

READ MEANING arrow_forward
arrow_back Previous Chapter Next Chapter 577 arrow_forward