Chapter 583
Sarga 46
ततो रजन्यां व्युष्टायां लक्ष्मणो दीनचेतनः । सुमन्त्रमब्रवीद्वाक्यं मुखेन परिशुष्यता ।। 7.46.1 ।।
सारथे तुरगाञ्छीघ्रं योजयस्व रथोत्तमे । स्वास्तीर्णं राजभवनात्सीतायाश्चासनं कुरु ।। 7.46.2 ।।
सीता हि राजवचनादाश्रमं पुण्यकर्मणाम् । मया नेया महर्षीणां श्रीघ्रमानीयतां रथः ।। 7.46.3 ।।
सुमन्त्रस्तु तथेत्युक्त्वा युक्तं परमवाजिभिः । रथं सुरुचिरप्रख्यं स्वास्तीर्णं सुखशय्यया ।। 7.46.4 ।...
आनीयोवाच सौमित्रिं मित्राणां मानवर्धनम् । रथो ऽयं समनुप्राप्तो यत्कार्यं क्रियतां प्रभो ।। 7.46.5 ।।
एवमुक्तः सुमन्त्रेण राजवेश्मनि लक्ष्मणः । प्रविश्य सीतामासाद्य व्याजहार नरर्षभः ।। 7.46.6 ।।
त्वया किलैष नृपतिर्वरं वै याचितः प्रभुः । नृपेण च प्रतिज्ञातमाज्ञप्तश्चाश्रमं प्रति ।। 7.46.7 ।।
गङ्गीतीरे मया देवि ऋषीणामाश्रमाञ्छुभान् । शीघ्रं गत्वा तु वैदेहि शासनात्पार्थिवस्य नः । अरण्ये मुनिभ...
एवमुक्ता तु वैदेही लक्ष्मणेन महात्मना । प्रहर्षमतुलं लेभे गमनं चाप्यरोचयत् ।। 7.46.9 ।।
वासांसि च महार्हाणि रत्नानि विविधानि च । गृहीत्वा तानि वैदेही गमनायोपचक्रमे ।। 7.46.10 ।।
इमानि मुनिपत्नीनां दास्याम्याभरणान्हम् । वस्त्राणि च महार्हाणि धनानि विविधानि च ।। 7.46.11 ।।
सौमित्रिस्तु तथेत्युक्त्वा रथमारोप्य मैथिलीम् । प्रययौ शीघ्रतुरगै रामस्याज्ञामनुस्मरन् ।। 7.46.12 ।।
अब्रवीच्च तदा सीता लक्ष्मणं लक्ष्मिवर्धनम् । अशुभानि बहून्येव पश्यामि रघुनन्दन ।। 7.46.13 ।।
नयनं मे स्फुरत्यद्य गात्रोत्कम्पश्च जायते । हृदयं चैव सौमित्रे अस्वस्थमिव लक्षये ।। 7.46.14 ।।
औत्सुक्यं परमं चापि अधृतिश्च परा मम । शून्यामेव च पश्यामि पृथिवीं पृथुलोचन ।। 7.46.15 ।।
अपि स्वस्ति भवेत्तस्य भ्रातुस्ते भ्रातृवत्सल । श्वश्रूणां चैव मे वीर सर्वासामविशेषतः ।। 7.46.16 ।।
पुरे जनपदे चैव कुशलं प्राणिनामपि । इत्यञ्जलिकृता सीता देवता अभ्ययाचत ।। 7.46.17 ।।
लक्ष्मणो ऽर्थं ततः श्रुत्वा शिरसा वन्द्य मैथिलीम् । शिवमित्यब्रवीद्धृष्टो हृदयेन विशुष्यता ।। 7.46.1...
ततो वासमुपागम्य गोमतीतीर आश्रमे । प्रभाते पुनरुत्थाय सौमित्रिः सूतमब्रवीत् ।। 7.46.19 ।।
योजयस्व रथं शीघ्रमद्य भागीरथीजलम् । शिरसा धारयिष्यामि त्र्यम्बकः पर्वते यथा ।। 7.46.20 ।।
सो ऽश्वान् रज्वाथ चतुरो रथे युङ्क्त्वा मनोजवान् । आरोहस्वेति वैदेहीं सूतः प्राञ्जलिरब्रवीत् ।। 7.46....
सा तु सूतस्य वचनादारुरोह रथोत्तमम् । सीता सौमित्रिणा सार्धं सुमन्त्रेण च धीमता ।। 7.46.22 ।।
आससाद विशालाक्षी गङ्गां पापविनाशिनीम् । अथार्धदिवसं गत्वा भागीरथ्या जलाशयम् ।। 7.46.23 ।।
निरीक्ष्य लक्ष्मणो दीनः प्ररुरोद महास्वनः ।। 7.46.24 ।।
सीता तु परमायत्ता दृष्ट्वा लक्ष्मणमातुरम् । उवाच वाक्यं धर्मज्ञा किमिदं रुद्यते त्वया ।। 7.46.25 ।।
जाह्नवीतीरमासाद्य चिराभिलषितं मम । हर्षकाले किमर्थं मां विषादयसि लक्ष्मण ।। 7.46.26 ।।
नित्यं त्वं रामपार्श्वेषु वर्तसे पुरुषर्षभ । कच्चिद्विनाकृतस्तेन द्विरात्रं शोकमागतः ।। 7.46.27 ।।
ममापि दयितो रामो जीवितादपि लक्ष्मण । न चाहमेवं शोचामि मैवं त्वं बालिशो भव ।। 7.46.28 ।।
तारयस्व च मां गङ्गां दर्शयस्व च तापसान् । ततो मुनिभ्यो दास्यामि वांसास्याभरणानि च ।। 7.46.29 ।।
ततः कृत्वा महर्षीणां यथार्हमभिवादनम् । तत्र चैकां निशामुष्य यास्यामस्तां पुरीं पुनः ।। 7.46.30 ।।
ममापि पद्मपत्राक्षं सिंहोरस्कं कृशोदरम् । त्वरते हि मनो द्रष्टुं रामं रमयतां वरम् ।। 7.46.31 ।।
तस्यास्तद्वचनं श्रुत्वा प्रमृज्य नयने शुभे । नाविकानाह्वयामास लक्ष्मणः परवीरहा ।। 7.46.32 ।।
इयं च सज्जा नौश्चेति दाशाः प्राञ्जलयो ऽब्रुवन् ।। 7.46.33 ।।
तितीर्षुर्लक्ष्मणो गङ्गां शुभां नावमुपारुहत् । गङ्गां सन्तारयामास लक्ष्मणस्तां समाहितः ।। 7.46.34 ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षट्चत्वारिंशः सर्गः ।। 46 ।।