Chapter 543
Sarga 6
तैर्वध्यमाना देवाश्च ऋषयश्च तपोधनाः । भयार्ताः शरणं जग्मुर्देवदेवं महेश्वरम् ।। 7.6.1 ।।
जगत्सृष्ट्यन्तकर्तारमजमव्यक्तरूपिणम् । आधारं सर्वलोकानामाराध्यं परमं गुरुम् ।। 7.6.2 ।।
ते समेत्य तु कामारिं त्रिपुरारिं त्रिलोचनम् । ऊचुः प्राञ्जलयो देवा भयगद्गदभाषिणः ।। 7.6.3 ।।
सुकेशपुत्रैर्भगवन्पितामहवरोद्धतैः । प्रजाध्यक्ष प्रजाः सर्वा बाध्यन्ते रिपुबाधनैः ।। 7.6.4 ।।
शरण्यान्यशरण्यानि ह्याश्रमाणि कृतानि नः । स्वर्गाच्च देवान्प्रच्याव्य स्वर्गे क्रीडन्ति देववत् ।। 7....
अहं विष्णुरहं रुद्रो ब्रह्माहं देवराडहम् । अहं यमश्च वरुणश्चन्द्रो ऽहं रविरप्यहम् ।। 7.6.6 ।।
इति माली सुमाली च माल्यवांश्चैव राक्षसाः । बाधन्ते समरोद्धर्षा ये च तेषां पुरःसराः । तन्नो देव भयार्...
अशिवं वपुरास्थाय जहि वै देवकण्टकान् ।। 7.6.8 ।।
धन्ते समरोद्धर्षा ये च तेषां पुरःसराः । इत्युक्तस्तु सुरैः सर्वैः कपर्दी नीललोहितः । सुकेशं प्रति सा...
अहं तान्न हनिष्यामि मयावध्या हि ते सुराः । किं तु मन्त्रं प्रदास्यामि यो वै तान्निहनिष्यति ।। 7.6.10...
एतमेव समुद्योगं पुरस्कृत्य महर्षयः । गच्छध्वं शरणं विष्णुं हनिष्यति स तान्प्रभुः ।। 7.6.11 ।।
ततस्तु जयशब्देन प्रतिनन्द्य महेश्वरम् । विष्णोः समीपमाजग्मुर्निशाचरभयार्दिताः ।। 7.6.12 ।।
शङ्खचक्रधरं देवं प्रणम्य बहुमान्य च । ऊचुः सम्भ्रान्तवद्वाक्यं सुकेशतनयान्प्रति ।। 7.6.13 ।।
सुकेशतनयैर्देव त्रिभिस्त्रेताग्निसन्निभैः । आक्रम्य वरदानेन स्थानान्यपहृतानि नः ।। 7.6.14 ।।
लङ्का नाम पुरी दुर्गा त्रिकूटशिखरे स्थिता । तत्र स्थिताः प्रबाधन्ते सर्वान्नः क्षणदाचराः ।। 7.6.15 ।...
स त्वमस्मद्धितार्थाय जहि तान्मधुसूदन । शरणं त्वां वयं प्राप्ता गतिर्भव सुरेश्वर ।। 7.6.16 ।।
चक्रकृत्तास्यकमलान्निवेदय यमाय वै । भयेष्वभयदो ऽस्माकं नान्यो ऽस्ति भवता विना ।। 7.6.17 ।।
राक्षसान्समरे दुष्टान्सानुबन्धान्मदोद्धतान् । नुदं त्वं नो भयं देव नीहारमिव भास्करः ।। 7.6.18 ।।
इत्येवं दैवतैरुक्तो देवदेवो जनार्दनः । अभयं भयदो ऽरीणां दत्त्वा देवानुवाच ह ।। 7.6.19 ।।
सुकेशं राक्षसं जाने ईशानवरदर्पितम् । तांश्चास्य तनयाञ्जाने येषां ज्येष्ठः स माल्यवान् ।। 7.6.20 ।।
तानहं समतिक्रान्तमर्यादान्राक्षसाधमान् । निहनिष्यामि सङ्क्रुद्धः सुरा भवत विज्वराः ।। 7.6.21 ।।
इत्युक्तास्ते सुराः सर्वे विष्णुना प्रभविष्णुना । यथावासं ययुर्हृष्टाः प्रशंसन्तो जनार्दनम् ।। 7.6.2...
विबुधानां समुद्योगं माल्यवांस्तु निशाचरः । श्रुत्वा तौ भ्रातरौ वीराविदं वचनमब्रवीत् ।। 7.6.23 ।।
अमरा ऋषयश्चैव सङ्गम्य किल शकरम् । अस्मद्वधं परीप्सन्त इदं वचनमब्रुवन् ।। 7.6.24 ।।
सुकेशतनया देव वरदानबलोद्धताः । बाधन्ते ऽस्मान्समुद्दृप्ता घोररूपाः पदे पदे ।। 7.6.25 ।।
राक्षसैरभिभूताः स्म न शक्ताः स्म प्रजापते । स्वेषु सद्मसु संस्थातुं भयात्तेषां दुरात्मनाम् ।। 7.6.26...
तदस्माकं हितार्थाय जहि तांश्च त्रिलोचन । राक्षसान्हुङ्कृतेनैव दह प्रदहतां वर ।। 7.6.27 ।।
इत्येवं त्रिदशैरुक्तो निशम्यान्धकसूदनः । शिरः करं च धुन्वान इदं वचनमब्रवीत् ।। 7.6.28 ।।
अवध्या मम ते देवाः सुकेशतनया रणे । मन्त्रं तु वः प्रदास्यामि यस्तान्वै निहनिष्यति ।। 7.6.29 ।।
यो ऽसौ चक्रगदापाणिः पीतवासा जनार्दनः । हरिर्नारायणः श्रीमान् शरणं तं प्रपद्यथ ।। 7.6.30 ।।
हरादवाप्य ते मन्त्रं कामारिमभिवाद्य च । नारायणालयं प्राप्य तस्मै सर्वं न्यवेदयन् ।। 7.6.31 ।।
ततो नारायणेनोक्ता देवा इन्द्रपुरोगमाः । सुरारींस्तान्हनिष्यामि सुरा भवत विज्वराः ।। 7.6.32 ।।
देवानां भयभीतानां हरिणा राक्षसर्षभौ । प्रतिज्ञातो वधो ऽस्माकं चिन्त्यतां यदिह क्षमम् ।। 7.6.33 ।।
हिरण्यकशिपोर्मृत्युरन्येषां च सुरद्विषाम् । नमुचिः कालनेमिश्च संह्रादो वीरसत्तमः ।। 7.6.34 ।।
राधेयो बहुमायी च लोकपालो ऽथ धार्मिकः । यमलार्जुनौ च हार्दिक्यः शुम्भश्चैव निशुम्भकः ।। 7.6.35 ।।
असुरा दानवाश्चैव सत्त्ववन्तो महाबलाः । सर्वे समरमासाद्य न श्रूयन्ते ऽपराजिताः ।। 7.6.36 ।।
सर्वैः क्रतुशतैरिष्टं सर्वे मायाविदस्तथा । सर्वे सर्वास्त्रकुशलाः सर्वे शत्रुभयङ्कराः ।। 7.6.37 ।।
नारायणेन निहताः शतशो ऽथ सहस्रशः । एतज्ज्ञात्वा तु सर्वेषां क्षमं कर्तुमिहार्हथ ।। 7.6.38 ।।
ततः सुमाली माली च श्रुत्वा माल्यवतो वचः । ऊचतुर्भ्रातरं ज्येष्ठं भगांशाविव वासवम् ।। 7.6.39 ।।
स्वधीतं दत्तमिष्टं चाप्यैश्वर्यं परिपालितम् । आयुर्निरामयं प्राप्तं सुधर्मः प्रापितः पथि ।। 7.6.40 ।...
देवसागरमक्षोभ्यं शस्त्रैः समवगाह्य च । जिता द्विषो ह्यप्रतिमास्तन्नो मृत्युकृतं भयम् ।। 7.6.41 ।।
नारायणश्च रुद्रश्च शक्रश्चापि यमस्तथा । अस्माकं प्रमुखे स्थातुं सर्वे बिभ्यति सर्वदा ।। 7.6.42 ।।
विष्णोर्देवस्य नास्त्येव कारणं राक्षसेश्वर । देवानामेव दोषेण विष्णोः प्रचलितं मनः ।। 7.6.43 ।।
तस्मादद्य समुद्युक्ताः सर्वसैन्यसमावृताः । देवानेव जिघांसाम एभ्यो दोषः समुत्थितः ।। 7.6.44 ।।
एवं सम्मन्त्र्य बलिनः सर्वे सैन्यसमावृताः । उद्योगं घोषयित्वा तु सर्वे नैर्ऋतपुङ्गवाः ।। युद्धाय निर...
इति ते राम सम्मन्त्र्य सर्वोद्योगेन राक्षसाः । युद्धाय निर्ययुः सर्वे महाकाया महाबलाः ।। 7.6.46 ।।
स्यन्दनैर्वारणैश्चैव हयैश्च गिरिसन्निभैः । खरैर्गोभी रथोष्ट्रैश्च शिंशुमारैर्भुजङ्गमैः ।। 7.6.47 ।।
मकरैः कच्छपैर्मीनैर्विहङ्गैर्गरुडोपमैः । सिंहैर्व्याघ्रैर्वराहैश्च सृमरैश्चमरैरपि ।। 7.6.48 ।।
त्यक्त्वा लङ्कां गताः सर्वे राक्षसा बलगर्विताः । प्रयाता देवलोकाय योद्धुं दैवतशत्रवः ।। 7.6.49 ।।
लङ्काविपर्ययं दृष्ट्वा यानि लङ्कालयान्यथ । भूतानि भयदर्शीनि विमनस्कानि सर्वशः ।। 7.6.50 ।।
रथोत्तमैरुह्यमानाः शतशो ऽथ सहस्रशः ।। 7.6.51 ।।
प्रयाता राक्षसास्तूर्णं देवलोकं प्रयत्नतः । रक्षसामेव मार्गेण दैवतान्यपचक्रमुः ।। 7.6.52 ।।
भौमाश्चैवान्तरिक्षाश्च कालाज्ञप्ता भयावहाः । उत्पाता राक्षसेन्द्राणामभावाय समुत्थिताः ।। 7.6.53 ।।
अस्थीनि मेघा ववृषुरुष्णं शोणितमेव च । वेलां समुद्राश्चोत्क्रान्ताश्चेलुश्चाप्यथ भूधराः ।। 7.6.54 ।।
अट्टहासान्विमुञ्चन्तो घननादसमस्वनाः । वाश्यन्त्यश्च शिवास्तत्र दारुणं घोरदर्शनाः ।। 7.6.55 ।।
सम्पतन्त्यथ भूतानि दृश्यन्ते च यथाक्रमम् । गृध्रचक्रं महच्चात्र ज्वलनोद्गारिभिर्मुखैः ।। 7.6.56 ।।
राक्षसानामुपरि खे भ्रमते ऽलातचक्रवत् । कपोता रक्तपादाश्च शारिका विद्रुता ययुः ।। काका वाश्यन्ति तत्र...
उत्पातांस्ताननादृत्य राक्षसा बलगर्विताः । यान्त्येव न निवर्त्तन्ते मृत्युपाशावपाशिताः ।। 7.6.58 ।।
माल्यवांश्च सुमाली च माली च सुमहाबलाः । आसन्पुरःसरास्तेषां क्रतूनामिव पावकाः ।। 7.6.59 ।।
माल्यवन्तं च ते सर्वे माल्यवन्तमिवाचलम् । निशाचरा ह्याश्रयन्ति धातारमिव देवताः ।। 7.6.60 ।।
तद्बलं राक्षसेन्द्राणां महाभ्रघननादितम् । जयेप्सया देवलोकं ययौ मालिवशे स्थितम् ।। 7.6.61 ।।
राक्षसानां समुद्योगं तं तु नारायणः प्रभुः । देवदूतादुपश्रुत्य चक्रे युद्धे तदा मनः ।। 7.6.62 ।।
स सज्जायुधतूणीरो वैनतेयोपरि स्थितः । आसज्ज्य कवचं दिव्यं सहस्रार्कसमद्युति ।। 7.6.63 ।।
आबध्य शरसम्पूर्णे इषुधी विमले तदा । श्रोणिसूत्रं च खड्गं च विमलं कमलेक्षणः ।। शङ्खचक्रगदाशार्ङ्गखड्ग...
सुपर्णं गिरिसङ्काशं वैनतेयमथास्थितः । राक्षसानामभावाय ययौ तूर्णतरं प्रभुः ।। 7.6.65 ।।
सुपर्णपृष्ठे स बभौ श्यामः पीताम्बरो हरिः । काञ्चनस्य गिरेः शृङ्गे सतडित्तोयदो यथा ।। 7.6.66 ।।
स सिद्धदेवर्षिमहोरगैश्च गन्धर्वयक्षैरुपगीयमानः । समाससादासुरसैन्यशत्रूंश्चक्रासिशार्ङ्गायुधशङ्खपाणिः...
सुपर्णपक्षानिलनुन्नपक्षं भ्रमत्पताकं प्रविकीर्णशस्त्रम् । चचाल तद्राक्षसराजसैन्यं चलोपलं नील इवाचलेन...
ततः शरैः शोणितमांसरूषितैर्युगान्तवैश्वानरतुल्यविग्रहैः । निशाचराः सम्परिवार्य माधवं वरायुधैर्निर्बिभ...
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षष्ठः सर्गः ।। 6 ।।