Chapter 601
Sarga 64
एवमुक्त्वा च काकुत्स्थं प्रशस्य च पुनः पुनः । पुनरेवापरं वाक्यमुवाच रघुनन्दनः ।। 7.64.1 ।।
इमान्यश्वसहस्राणि चत्वारि पुरुषर्षभ । रथानां द्वे सहस्रे च गजानां शतमुत्तमम् ।। 7.64.2 ।।
अन्तरा पणवीथ्यश्च नानापण्योपशोभिताः । अनुगच्छन्तु काकुत्स्थं तथैव नटनर्तकाः ।। 7.64.3 ।।
हिरण्यस्य सुवर्णस्य नियुतं पुरुषर्षभ । आदाय गच्छ शत्रुघ्न पर्याप्तधनवाहनः ।। 7.64.4 ।।
बलं च सुभृतं वीर हृष्टपुष्टमनुद्धतम् । सम्भाषासम्प्रदानेन रञ्जयस्व नगेत्तम ।। 7.64.5 ।।
न ह्यर्थास्तत्र तिष्ठन्ति न दारा न च बान्धवाः । सुप्रीतो भृत्यवर्गश्च यत्र तिष्ठसि राघव ।। 7.64.6 ।।
ततो हृष्टजनाकीर्णां प्रस्थाप्य महतीं चमूम् । एक एव धनुष्पाणिर्गच्छ त्वं मधुनो वनम् ।। 7.64.7 ।।
यथा त्वां न प्रजानाति गच्छन्तं युद्धकाङ्क्षिणम् । लवणस्तु मधोः पुत्रस्तथा गच्छेरशङ्कितम् ।। 7.64.8 ।...
न तस्य मूत्युरन्यो ऽस्ति कश्चिद्धि पुरुषर्षभ । दर्शनं यो ऽभिगच्छेत स वध्यो लवणेन हि ।। 7.64.9 ।।
स हि ग्रीष्मो ऽपयाते तु वर्षारात्र उपागते । हन्यास्त्वं लवणं सौम्य सहि कालो ऽस्य दुर्मतेः ।। 7.64.10...
महर्षींस्तु पुरत्कृत्य प्रयान्तु तव सौनिकाः । यथा ग्रीष्मावशेषेण तरेयुर्जाह्नवीजलम् ।। 7.64.11 ।।
तत्र स्थाप्य बलं सर्वं नदीतीरे समाहितः । अग्रतो धनुषा सार्धं गच्छ त्वं लघुविक्रमः ।। 7.64.12 ।।
एवमुक्तस्तु रामेण शत्रुघ्नस्तान्महाबलान् । सेनामुख्यान्समानीय ततो वाक्यमुवाच ह ।। 7.64.13 ।।
एते वो गणिता वासा यत्र तत्र निवत्स्यथ । स्थातव्यं चाविरोधेन यथा बाधा न कस्यचित् ।। 7.64.14 ।।
तथा तांस्तु समाज्ञाप्य प्रस्थाप्य च महद्बलम् । कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत् ।। 7.64.15...
रामं प्रदक्षिणीकृत्य शिरसा ऽभिप्रणम्य च । रामेण चाभ्यनुज्ञातः शत्रुघ्नः शत्रुतापनः ।। 7.64.16 ।।
लक्ष्मणं भरतं चैव प्रणिपत्य कृताञ्जलिः । पुरोहितं वसिष्ठं च शत्रुघ्नः प्रयतात्मवान् । प्रदक्षिणमथो क...
प्रस्थाप्य सेनामथ सो ऽग्रतस्तदा गजेन्द्रवाजिप्रवरौघसङ्कुलाम् । उपास मासं तु नरेन्द्रपार्श्वतस्त्वथ प...
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुष्षष्टितमः सर्गः ।। 64 ।।