Chapter 605
Sarga 68
कथां कथयतां तेषां जयं चाकाङ्क्षतां शुभम् । व्यतीता रजनी शीघ्रं शत्रुघ्नस्य महात्मनः ।। 7.68.1 ।।
ततः प्रभाते विमले तस्मिन्काले स राक्षसः । निर्गतस्तु पुराद्धीरो भक्ष्याहारप्रचोदितः ।। 7.68.2 ।।
एतस्मिन्नन्तरे वीरः शत्रुघ्नो यमुनां नदीम् । तीर्त्वा मधुपुरद्वारि धनुष्पाणिरतिष्ठत ।। 7.68.3 ।।
ततो ऽर्धदिवसे प्राप्ते क्रूरकर्मा स राक्षसः । आगच्छद्बहुसाहस्रं प्राणिनां भारमुद्वहन् ।। 7.68.4 ।।
ततो ददर्श शत्रुघ्नं स्थितं द्वारि धृतायुधम् । तमुवाच ततो रक्षः किमनेन करिष्यसि ।। 7.68.5 ।।
ईदृशानां सहस्राणि सायुधानां नराधम । भक्षितानि मया रोषात्कालमाकाङ्क्षसे नु किम् ।। 7.68.6 ।।
आहारश्चास्य सम्पूर्णो ममायं पुरुषाधम । स्वयं प्रविष्टो ऽद्य मुखं कथमासाद्य दुर्मते ।। 7.68.7 ।।
तस्यैवं भाषमाणस्य हसतश्च मुहुर्मुहुः । शत्रुघ्नो वीर्यसम्पन्नो रोषादश्रूण्यवासृजत् ।। 7.68.8 ।।
तस्य रोषाभिभूतस्य शत्रुघ्नस्य महात्मनः । तेजोमया मरीच्यस्तु सर्वगात्रैर्विनिष्पतन् ।। 7.68.9 ।।
उवाच च सुसङ्क्रुद्धः शत्रुघ्नस्तं निशाचरम् । योद्धुमिच्छामि दुर्बुद्धे द्वन्द्वयुद्धं त्वया सह ।। 7....
पुत्रो दशरथस्याहं भ्राता रामस्य धीमतः । शत्रुघ्नो नित्यशत्रुघ्नो वधाकाङ्क्षी तवागतः ।। 7.68.11 ।।
तस्य मे युद्धकामस्य द्वन्द्वयुद्धं प्रदीयताम् । शत्रुस्त्वं सर्वभूतानां न मे जीवन्गमिष्यसि ।। 7.68.1...
तस्मिंस्तथा ब्रुवाणे तु राक्षसः प्रहसन्निव । प्रत्युवाच नरश्रेष्ठं दिष्ट्या प्राप्तो ऽसि दुर्मते ।। ...
मम मातृष्वसुर्भ्राता रावणो राक्षसाधिपः । हतो रामेण दुर्बुद्धे स्त्रीहेतोः पुरुषाधम ।। 7.68.14 ।।
तच्च सर्वं मया क्षान्तं रावणस्य कुलक्षयम् । अवज्ञां पुरतः कृत्वा मया यूयं विशेषतः ।। 7.68.15 ।।
निहताश्च हि मे सर्वे परिभूतास्तृणं यथा । भूताश्चैव भविष्याश्च यूयं च पुरुषाधमाः ।। 7.68.16 ।।
तस्य ते युद्धकामस्य युद्धं दास्यामि दुर्मते । तिष्ठं त्वं च मुहूर्तं तु यावदायुधमानये । ईप्सितं यादृ...
तमुवाचाशु शत्रुघ्नः क्व मे जीवन्गमिष्यसि । शत्रुर्यदृच्छया दृष्टो न मोक्तव्यः कृतात्मना ।। 7.68.18 ।...
यो हि विक्लवया बुद्ध्या प्रसरं शत्रवे ददौ । स हतो मन्दबुद्धित्वाद्यथा कापुरुषस्तथा ।। 7.68.19 ।।
तस्मात्सुदृष्टं कुरु जीवलोकं शरैः शितैस्त्वां विविधैर्नयामि । यमस्य गेहाभिमुखं हि पापं रिपुं त्रिलोक...
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टषष्टितमः सर्गः ।। 68 ।।