arrow_back All Chapters

Chapter 607

Sarga 70

VERSE 607.1

हते तु लवणे देवाः सेन्द्राः साग्निपुरोगमाः । ऊचुः सुमधुरां वाणीं शत्रुघ्नं शत्रुतापनम् ।। 7.70.1 ।।

READ MEANING arrow_forward
VERSE 607.2

दिष्ट्या ते विजयो वत्स दिष्ट्या लवणराक्षसः । हतः पुरुषशार्दूल वरं वरय सुव्रत ।। 7.70.2 ।।

READ MEANING arrow_forward
VERSE 607.3

वरदास्तु महाबाहो सर्व एव समागताः । विजयाकाङ्क्षिणस्तुभ्यममोघं दर्शनं हि नः ।। 7.70.3 ।।

READ MEANING arrow_forward
VERSE 607.4

देवानां भाषितं श्रुत्वा शूरो मूर्ध्नि कृताञ्जलिः । प्रत्युवाच महाबाहुः शत्रुघ्नः प्रयतात्मवान् ।। 7....

READ MEANING arrow_forward
VERSE 607.5

इयं मधुपुरी रस्या मधुरा देवनिर्मिता । निवेशं प्राप्नुयाच्छीघ्रमेष मे ऽस्तु वरः परः ।। 7.70.5 ।।

READ MEANING arrow_forward
VERSE 607.6

तं देवाः प्रीतमनसो बाढमित्येव राघवम् । भविष्यति पुरी रम्या शूरसेना न संशयः ।। 7.70.6 ।।

READ MEANING arrow_forward
VERSE 607.7

ते तथोक्त्वा महात्मानो दिवमारुरुहुस्तदा । शत्रुघ्नो ऽपि महातेजास्तां सेनां समुपानयत् ।। 7.70.7 ।।

READ MEANING arrow_forward
VERSE 607.8

सा सेना शीघ्रमागच्छच्छ्रुत्वा शत्रुघ्नशासनम् । निवेशनं च शत्रुघ्नः श्रावणेन समारभत् ।। 7.70.8 ।।

READ MEANING arrow_forward
VERSE 607.9

सा पुरा दिव्यसङ्काशा वर्षे द्वादशमे शुभे । निविष्टा शूरसेनानां विषयश्चाकुतोभयः ।। 7.70.9 ।।

READ MEANING arrow_forward
VERSE 607.10

क्षेत्राणि सस्ययुक्तानि काले वर्षति वासवः । अरोगवीरपुरुषा शत्रुघ्नभुजपालिता ।। 7.70.10 ।।

READ MEANING arrow_forward
VERSE 607.11

अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता । शोभिता गृहमुख्यैश्च चत्वरापणवीथिकैः । चातुर्वर्ण्यसमायुक्ता नान...

READ MEANING arrow_forward
VERSE 607.12

यच्च तेन पुरा शुभ्रं लवणेन कृतं महत् । तच्छोभयति शत्रुघ्नो नानावर्णोपशोभिताम् ।। 7.70.12 ।।

READ MEANING arrow_forward
VERSE 607.13

आरामैश्च विहारैश्च शोभमानं समन्ततः । शोभितां शोभनीयैश्च तथा ऽन्यैर्दैवमानुषैः ।। 7.70.13 ।।

READ MEANING arrow_forward
VERSE 607.14

तां पुरीं दिव्यसङ्काशां नानापण्योपशोभिताम् । नानादेशागतैश्चापि वणिग्भिरुपशोभिताम् ।। 7.70.14 ।।

READ MEANING arrow_forward
VERSE 607.15

तां समृद्धां समृद्धार्थः शत्रुघ्नो भरतानुजः । निरीक्ष्य परमप्रीतः परं हर्षमुपागमत् ।। 7.70.15 ।।

READ MEANING arrow_forward
VERSE 607.16

तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम् । रामपादौ निरीक्षे ऽहं वर्षे द्वादश आगते ।। 7.70.16 ।।

READ MEANING arrow_forward
VERSE 607.17

ततः स ताममरपुरोपमां पुरीं निवेश्य वै विविधजनाभिसंवृताम् । नराधिपो रघुपतिपाददर्शने दधे मतिं रघुकुलवंश...

READ MEANING arrow_forward
VERSE 607.18

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्ततितमः सर्गः ।। 70 ।।

READ MEANING arrow_forward
arrow_back Previous Chapter Next Chapter 608 arrow_forward