Chapter 609
Sarga 72
तं शयानं नरव्याघ्रं निद्रा नाभ्यागमत्तदा । चिन्तयन्तमनेकार्थं रामगीतमनुत्तमम् ।। 7.72.1 ।।
तस्य शब्दं सुमधुरं तन्त्रीलयसमन्वितम् । श्रुत्वा रात्रिर्जगामाशु शत्रुघ्नस्य महात्मनः ।। 7.72.2 ।।
तस्यां निशायां व्युष्टायां कृत्वा पौर्वाह्णिकं क्रमम् । उवाच प्राञ्जलिर्वाक्यं शत्रुघ्नो मुनिपुङ्गवम...
भगवन्द्रष्टुमिच्छामि राघवं रघुनन्दनम् । त्वया ऽनुज्ञातुमिच्छामि सहैभिः संशितव्रतैः ।। 7.72.4 ।।
इत्येवंवादिनं तं तु शत्रुघ्नं शत्रुतापनम् । वाल्मीकिः सम्परिष्वज्य विससर्ज च राघवम् ।। 7.72.5 ।।
सो ऽभिवाद्य मुनिश्रेष्ठं रथमारुह्य सुप्रभम् । अयोध्यामगमत्तूर्णं राघवोत्सुकदर्शनः ।। 7.72.6 ।।
स प्रविष्टः पुरीं रम्यां श्रीमानिक्ष्वाकुनन्दनः । प्रविवेश महाबाहुर्यत्र रामो महाद्युतिः ।। 7.72.7 ।...
स रामं मन्त्रिमध्यस्थं पूर्णचन्द्रनिभाननम् । पश्यन्नमरमध्यस्थं सहस्रनयनं यथा ।। 7.72.8 ।।
सो ऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा । उवाच प्राञ्जलिर्वाक्यं रामं सत्यपराक्रमम् ।। 7.72.9 ।।
यदाज्ञप्तं महाराज सर्वं तत्कृतवानहम् । हतः स लवणः पापः पुरी चास्य निवेशिता ।। 7.72.10 ।।
द्वादशैते गता वर्षास्त्वां विना रघुनन्दन । नोत्सहेयमहं वस्तुं त्वया विरहितो नृप ।। 7.72.11 ।।
स मे प्रसादं काकुत्स्थ कुरुष्वामितविक्रम । मातृहीनो यथा वत्सो न चिरं प्रवसाम्यहम् ।। 7.72.12 ।।
एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदमब्रवीत् । मा विषादं कृथाः शूर नैतत्क्षत्रियचेष्टितम् ।। 7.72.13 ।...
नावसीदन्ति राजानो विप्रवासेषु राघव । प्रजा नः परिपाल्या हि क्षत्रधर्मेण राघव ।। 7.72.14 ।।
काले काले तु मां वीर अयोध्यामवलोकितुम् । आगच्छ त्वं नरश्रेष्ठ गन्तासि च पुरं तव ।। 7.72.15 ।।
ममापि त्वं सुदयितः प्राणैरपि न संशयः । अवश्यं करणीयं च राज्यस्य परिपालनम् ।। 7.72.16 ।।
तस्मात्त्वं वस काकुत्स्थ सप्तरात्रमिहावस । ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः ।। 7.72.17 ।।
रामस्यैतद्वचः श्रुत्वा धर्मयुक्तं मनोगतम् । शत्रुघ्नो दीनया वाचा बाढमित्येव चाब्रवीत् ।। 7.72.18 ।।
सप्तरात्रं च काकुत्स्थो राघवस्य यथाज्ञया । उष्य तत्र महेष्वासो गमनायोपचक्रमे ।। 7.72.19 ।।
आमन्त्र्य तु महात्मानं रामं सत्यपराक्रमम् । भरतं लक्ष्मणं चैव महारथमुपारुहत् ।। 7.72.20 ।।
दूरमाभ्यामनुगतो लक्ष्मणेन महात्मना । भरतेन च शत्रुघ्नो जगामाशु पुरं ततः ।। 7.72.21 ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्विसप्ततितमः सर्गः ।। 72 ।।