Chapter 611
Sarga 74
तथा तु करुणं तस्य द्विजस्य परिदेवनम् । शुश्राव राघवः सर्वं दुःखशोकसमन्वितम् ।। 7.74.1 ।।
स दुःखेन च सन्तप्तो मन्त्रिणस्तानुपाह्वयत् । वसिष्ठं वामदेवं च भ्रातरौ सह नैगमान् ।। 7.74.2 ।।
ततो द्विजा वसिष्ठेन सार्धमष्टौ प्रवेशिताः । राजानं देवसङ्काशं वर्धस्वेति ततो ऽब्रुवन् ।। 7.74.3 ।।
मार्कण्डेयो ऽथ मौद्गल्यो वामदेवश्च काश्यपः । कात्यायनो ऽथ जाबालिर्गौतमो नारदस्तथा । एते द्विजर्षभाः ...
महर्षीन्समनुप्राप्तानभिवाद्य कृताञ्जलिः । मन्त्रिणो नैगमांश्चैव यथार्हमनुकूलतः ।। 7.74.5 ।।
तेषां समुपविष्टानां सर्वेषां दीप्ततेजसाम् । राघवः सर्वमाचष्टे द्विजो ऽयमुपरोधते ।। 7.74.6 ।।
तस्य तद्वचनं श्रुत्वा राज्ञो दीनस्य नारदः । प्रत्युवाच शुभं वाक्यमृषीणां सन्निधौ नृपम् ।। 7.74.7 ।।
शृणु राजन्यथाकाले प्राप्तो बालस्य सङ्क्षयः । श्रुत्वा कर्तव्यतां राजन्कुरुष्वरघुनन्दन ।। 7.74.8 ।।
पुरा कृतयुगे राजन्ब्राह्मणा वै तपस्विनः । अब्राह्मणस्तदा राजन्न तपस्वी कथञ्चन ।। 7.74.9 ।।
तस्मिन्युगे प्रज्वलिते ब्रह्मभूते त्वनावृते । अमृत्यवस्तदा सर्वे जज्ञिरे दीर्घदर्शिनः ।। 7.74.10 ।।
ततस्त्रेतायुगं नाम मानवानां वपुष्मताम् । क्षत्रियास्तत्र जायन्ते पूर्णेन तपसा ऽन्विताः ।। 7.74.11 ।।
वीर्येण तपसा चैव ते ऽधिकाः पूर्वजन्मनि । मानवा ये महात्मानस्त्वत्र त्रेतायुगे युगे ।। 7.74.12 ।।
ब्रह्मक्षत्रं च तत्सर्वं यत्पूर्वमपरं च यत् । युगयोरुभयोरासीत्समवीर्यसमन्वितम् ।। 7.74.13 ।।
अपश्यंस्तु न ते सर्वे विशेषमधिकं ततः । स्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य सम्मतम् ।। 7.74.14 ।।
तस्मिन्युगे प्रज्वलिते धर्मभूते ह्यनावृते । अधर्मः पादमेकं तु पातयत्पृथिवीतले ।। 7.74.15 ।।
अधर्मेण हि संयुक्तस्तेजो मन्दं भविष्यति ।। 7.74.16 ।।
आमिषं यच्च पूर्वेषां राजसं च मलं भृशम् । अनृतं नाम तद्भूतं पादेन पृथिवीतले ।। 7.74.17 ।।
अनृतं पातयित्वा तु पादमेकमधर्मतः । ततः प्रादुष्कृतं पूर्वमायुषः परिनिष्ठितम् ।। 7.74.18 ।।
पतिते त्वनृते तस्मिन्नधर्मे च महीतले । शुभान्येवाचरँल्लोकः सत्यधर्मपरायणः ।। 7.74.19 ।।
त्रेतायुगे च वर्तन्ते ब्राह्मणाः क्षत्रियाश्च ये । तपो ऽतप्यन्त ते सर्वे शुश्रूषामपरे जनाः ।। 7.74.2...
स धर्मः परमस्तेषां वैश्यशूद्रं समागमत् । पूजां च सर्ववर्णानां शूद्राश्चक्रुर्विशेषतः ।। 7.74.21 ।।
एतस्मिन्नन्तरे तेषामधर्मे चानृते च ह । ततः पूर्वे भृशं ह्रासमगमन्नृपसत्तम ।। 7.74.22 ।।
ततः पादमधर्मस्स द्वितीयमवतारयत् । ततो द्वापरसञ्ज्ञा ऽस्य युगस्य समजायत ।। 7.74.23 ।।
तस्मिन्द्वापरसञ्ज्ञे तु वर्तमाने युगक्षये । अधर्मश्चानृतं चैव ववृधे पुरुषर्षभ ।। 7.74.24 ।।
तस्मिन्द्वापरसङ्ख्याते तपो वैश्यान्समाविशत् । त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्क्रमाद्वै तप आविशत् ।। ...
त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्धर्मश्च परिनिष्ठितः । न शुद्धो लभते धर्मं युगतस्तु नरर्षभ । हीनवर्णो ...
भविष्यच्छूद्रयोन्यां वै तपश्चर्या कलौ युगे । अधर्मः परमो राजन्द्वापरे शूद्रजन्मनः ।। 7.74.27 ।।
स वै विषयपर्यन्ते तव राजन्महातपाः । अद्य तप्यति दुर्बुद्धिस्तेन बालवधो ह्ययम् ।। 7.74.28 ।।
यो ह्यधर्ममकार्यं वा विषये पार्थिवस्य तु । करोति चाश्रीमूलं तत्पुरे वा दुर्मतिर्नरः । क्षिप्रं च नरक...
अधीतस्य च तप्तस्य कर्मणः सुकृतस्य च । षष्ठं भजति भागं तु प्रजा धर्मेण पालयन् ।। 7.74.30 ।।
षङ्भागस्य न भोक्ता ऽसौ रक्षते न प्रजाः कथम् ।। 7.74.31 ।।
स त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम् । दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर ।। 7.74.32 ।।
एवं चेद्धर्मवृद्धिश्च नृणां चायुर्विवर्धनम् । भविष्यति नरश्रेष्ठ बालस्यास्य च जीवितम् ।। 7.74.33 ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुःसप्ततितमः सर्गः ।। 74 ।।