Chapter 613
Sarga 76
तस्य तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः । अवाक्छिरास्तथाभूत्वा वाक्यमेतदुवाच ह ।। 7.76.1 ।।
शूद्रयोन्यां प्रसूतो ऽस्मि शम्बूको नाम नामतः । देवत्वं पार्थये राम सशरीरो महायशः ।। 7.76.2 ।।
न मिथ्या ऽहं वदे राम देवलोकजिगीषया । शूद्रं मां विद्धि काकुत्स्थ तप उग्रं समास्थितम् ।। 7.76.3 ।।
भाषतस्तस्य शूद्रस्य खड्गं सुरुचिरप्रभम् । निष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः ।। 7.76.4 ।।
तस्मिञ्छूद्रे हते देवाः सेन्द्राः साग्निपुरोगमाः । साधु साध्विति काकुत्स्थं प्रशशंसुर्मुहुर्मुहुः ।।...
पुष्पवृष्टिर्महत्यासीद्दिव्यानां सुसुगन्धिनाम् । पुष्पाणां वायुमुक्तानां सर्वतः प्रपपात ह ।। 7.76.6 ...
सुप्रीताश्चाब्रुवन्रामं देवाः सत्यपराक्रमम् । सुरकार्यमिदं सौम्य सुकृतं ते महामते ।। 7.76.7 ।।
गृहाण च वरं सौम्य यत्त्वमिच्छस्यरिन्दम । स्वर्गभाङ्नहि शूद्रो ऽयं त्वत्कृते रघुनन्दन ।। 7.76.8 ।।
देवानां भाषितं श्रुत्वा राघवः सुसमाहितः । उवाच प्राञ्जलिर्वाक्यं सहस्राक्षं पुरन्दरम् ।। 7.76.9 ।।
यदि देवाः प्रसन्ना मे द्विजपुत्रः स जीवतु । दिशन्तु वरमेतं मे इप्सितं परमं मम ।। 7.76.10 ।।
ममापचाराद्यातो ऽसौ ब्राह्मणस्यैकपुत्रकः । अप्राप्तकालः कालेन नीतो वैवस्वतक्षयम् ।। 7.76.11 ।।
तं जीवयथ भद्रं वो नानृतं कर्तुमर्हथ । द्विजस्य संश्रुतो ऽर्थो मे जीवयिष्यामि ते सुतम् ।। 7.76.12 ।।
राघवस्य तु तद्वाक्यं श्रुत्वा विबुधसत्तमाः । प्रत्युचू राघवं प्रीता देवाः प्रीतिसमन्वितम् ।। 7.76.13...
निर्वृतो भव काकुत्स्थ सो ऽस्मिन्नहनि बालकः । जीवितं प्राप्तवान्भूयः समेतश्चापि बन्धुभिः ।। 7.76.14 ।...
यस्मिन्मुहूर्ते काकुत्स्थ शूद्रो ऽयं विनिपातितः । तस्मिन्मुहूर्ते बालो ऽसौ जीवेन समयुज्यत ।। 7.76.15...
स्वस्ति प्राप्नुहि भद्रं ते साधु याम नरर्षभ । अगस्त्यस्याश्रमपदं द्रष्टुमिच्छाम राघव ।। 7.76.16 ।।
तस्य दीक्षा समाप्ता हि ब्रह्मर्षेः सुमहाद्युतेः । द्वादशं हि गतं वर्षं जलशय्यां समासतः ।। 7.76.17 ।।
काकुत्स्थ तद्गमिष्यामो मुनिं समभिनन्दितुम् । त्वं चाप्यागच्छ भद्रं ते द्रष्टुं तमृषिसत्तमम् ।। 7.76....
स तथेति प्रतिज्ञाय देवानां रघुनन्दनः । आरुरोह विमानं तं पुष्पकं हेमभूषितम् ।। 7.76.19 ।।
ततो देवाः प्रयातास्ते विमानैर्बहुविस्तरैः । रामो ऽप्यनुजगामाशु कुम्भयोनेस्तपोवनम् ।। 7.76.20 ।।
दृष्ट्वा तु देवान्सम्प्राप्तानगस्त्यस्तपसां निधिः । अर्चयामास धर्मात्मा सर्वांस्तानविशेषतः ।। 7.76.2...
प्रतिगृह्य ततः पूजां सम्पूज्य च महामुनिम् । जग्मुस्ते त्रिदशा हृष्टा नाकपृष्ठं सहानुगैः ।। 7.76.22 ।...
गतेषु तेषु काकुत्स्थः पुष्पकादवरुह्य च । ततो ऽभिवादयामास ह्यगस्त्यमृषिसत्तमम् ।। 7.76.23 ।।
सो ऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा । आतिथ्यं परमं प्राप्य निषसाद नराधिपः ।। 7.76.24 ।।
तमुवाच महातेजाः कुम्भयोनिर्महातपाः । स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तो ऽसि राघव ।। 7.76.25 ।।
त्वं मे बहुमतो राम गुणैर्बहुभिरुत्तमैः । अतिथिः पूजनीयश्च मम नित्यं हृदि स्थितः ।। 7.76.26 ।।
सुरा हि कथयन्ति त्वामागतं शूद्रघातिनम् । ब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः ।। 7.76.27 ।।
उष्यतां चेह रजनी सकाशे मम राघव । प्रभाते पुष्पकेण त्वं गन्ता ऽसि पुरमेव हि ।। 7.76.28 ।।
त्वं हि नारायणः श्रीमांस्त्वयि सर्वं प्रतिष्ठितम् । त्वं प्रभुः सर्वदेवानां पुरुषस्त्वं सनातनः ।। 7....
इदं चाभरणं सौम्य निर्मितं विश्वकर्मणा । दिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा । प्रतिगृह्णीष्व काक...
दत्तस्य हि पुनर्दाने सुमहत्फलमुच्यते । भरणे हि भवान् शक्तः सेन्द्राणां मरुतामपि ।। 7.76.31 ।।
त्वं हि शक्तस्तारयितुं सेन्द्रानपि दिवौकसः । तस्मात्प्रदास्ये विधिवत्तत्प्रतीच्छ नराधिप ।। 7.76.32 ।...
दिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करम् ।। 7.76.33 ।।
अथोवाच महात्मानमिक्ष्वाकूणां महारथः । रामो मतिमतां श्रेष्ठः क्षत्रधर्ममनुस्मरन् ।। 7.76.34 ।।
प्रतिग्रहो ऽयं भगवन्ब्राह्मणस्याविगर्हितः । गृह्णीयां क्षत्रियो ऽहं वै कथं ब्राह्मणपुङ्गव ।। 7.76.35...
ब्राह्मणेन विशेषेण दत्तं तद्वक्तुमर्हसि । एवमुक्तस्तु रामेण प्रत्युवाच महानृषिः ।। 7.76.36 ।।
आसन्कृतयुगे राम ब्रह्मभूते पुरायुगे । अपार्थिवाः प्रजाः सर्वाः सुराणां तु शतक्रतुः ।। 7.76.37 ।।
ताः प्रजा देवदेवेशं राजार्थं समुपाद्रवन् । सुराणां स्थापितो राजा त्वया देव शतक्रतुः ।। 7.76.38 ।।
प्रयच्छ नो हि लोकेश पार्थिवं नरपुङ्गवम् । यस्मै पूजां प्रयुञ्जाना धूतपापाश्चरेमहि । न वसामो विना राज...
प्रजानां वचनं श्रुत्वा निश्चयित्वा ऽर्थमुत्तमम् ।। 7.76.40 ।।
ततो ब्रह्मा सुरश्रेष्ठो लोकपालान्सवासवान् । समाहूयाब्रवीत्सर्वांस्तेजोभागान्प्रयच्छत ।। 7.76.41 ।।
ततो ददुर्लोकपालाः सर्वे भागान्स्वतेजसः । अक्षुपच्च ततो ब्रह्मा यतो जातः क्षुपो नृपः ।। 7.76.42 ।।
तं ब्रह्मा लोकपालानां सहांशैः समयोजयत् । ततो ददौ नृपं तासां प्रजानामीश्वरं क्षुपम् ।। 7.76.43 ।।
तत्रैन्द्रेण च भागेन महीमाज्ञापयन्नृपः । वारुणेन तु भागेन वपुः पुष्यति पार्थिवः ।। 7.76.44 ।।
कौबेरेण तु भागेन वित्तमासां ददौ तदा । यस्तु याम्यो ऽभवद्भागस्तेन शास्ति स्म स प्रजाः ।। 7.76.45 ।।
तत्रैन्द्रेण नरश्रेष्ठ भागेन रघुनन्दन । प्रतिगृह्णीष्व भद्रं ते तारणार्थं मम प्रभो ।। 7.76.46 ।।
तस्य तद्वचनं श्रुत्वा ऋषेः परमधार्मिकम् । तद्रामः प्रतिजग्राह मुनेराभरणं वरम् ।। 7.76.47 ।।
प्रतिगृह्य ततो रामस्तदाभरणमुत्तमम् । आगमं तस्य दीप्तस्य प्रष्टुमेवोपचक्रमे ।। 7.76.48 ।।
अत्यद्भुतमिदं दिव्यं वपुषा युक्तमुत्तमम् । कथं वा भगवता प्राप्तं कुतो वा केन वा हृतम् ।। 7.76.49 ।।
कुतूहलितया ब्रह्मन्पृच्छामि त्वां महायशः । आश्चर्याणां बहूनां हि निधिः परमको भवान् ।। 7.76.50 ।।
एवं ब्रुवति काकुत्स्थे मुनिर्वाक्यमथाब्रवीत् । शृणु राम यथावृत्तं पुरा त्रेतायुगे युगे ।। 7.76.51 ।।
रमणीयप्रदेशे ऽस्मिन् वने यद्दृष्टवानहम् । आश्चर्यं मे महाबाहो दानमाश्रित्य केवलम् ।। 7.76.52 ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षट्सप्ततितमः सर्गः ।। 76 ।।