Chapter 545
Sarga 8
हन्यमाने बले तस्मिन्पद्मनाभेन पृष्ठतः । माल्वान्सन्निवृत्तो ऽथ वेलामेत्य इवार्णवः ।। 7.8.1 ।।
संरक्तनयनः कोपाच्चलन्मौलिर्निशाचरः । पद्मनाभमिदं प्राह वचनं पुरुषोत्तमम् ।। 7.8.2 ।।
नारायण न जानीषे क्षात्रधर्मं पुरातनम् । अयुद्धमनसो भीतानस्मान्हंसि यथेतरः ।। 7.8.3 ।।
पराङ्मुखवधं पापं यः करोत्यसुरेतरः । स हन्ता न गतः स्वर्गं लभते पुण्यकर्मणाम् ।। 7.8.4 ।।
युद्धश्रद्धा ऽथवा ते ऽस्ति शङ्खचक्रगदाधर । 4अहं स्थितो ऽस्मि पश्यामि बलं दर्शय यत्तव ।। 7.8.5 ।।
माल्यवन्तं स्थितं दृष्ट्वा माल्यवन्तमिवाचलम् । उवाच राक्षसेन्द्रं तं देवराजानुजो बली ।। 7.8.6 ।।
युष्मत्तो भयभीतानां देवानां वै मया ऽभयम् । राक्षसोत्सादनं दत्तं तदेतदनुपाल्यते ।। 7.8.7 ।।
प्राणैरपि प्रियं कार्यं देवानां हि सदा मया । सो ऽहं वो निहनिष्यामि रसातलगतानपि ।। 7.8.8 ।।
देवदेवं ब्रुवाणं तं रक्ताम्बुरुहलोचनम् । शक्त्या बिभेद सङ्क्रुद्धो राक्षसेन्द्रो भुजान्तरे ।। 7.8.9 ...
माल्यवद्भुजनिर्मुक्ता शक्तिर्घण्टाकृतस्वना । हरेरुरसि बभ्राज मेघस्थेव शतह्रदा ।। 7.8.10 ।।
ततस्तामेव चोत्कृष्य शक्तिं शक्तिधरप्रियः । माल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः ।। 7.8.11 ।।
स्कन्दोत्सृष्टेव सा शक्तिर्गोविन्दकरनिस्सृता । काङ्क्षन्ती राक्षसं प्रायान्माहेन्द्रीवाञ्जनाचलम् ।। ...
सा तस्योरसि विस्तीर्णे हारभारा ऽवभासिते । अपतद्राक्षसेन्द्रस्य गिरिकूट इवाशनिः ।। 7.8.13 ।।
तया भिन्नतनुत्राणः प्राविशद्विपुलं तमः । माल्यवान्पुनराश्वस्तस्तस्थौ गिरिरिवाचलः ।। 7.8.14 ।।
ततः कार्ष्णायसं शूलं कण्टकैर्बहुभिर्वतम् । प्रगृह्याभ्यहनद्देवं स्तनयोरन्तरे दृढम् ।। 7.8.15 ।।
तथैव रणरक्तस्तु मुष्टिना वासवानुजम् । ताडयित्वा धनुर्मात्रमपक्रान्तो निशाचरः ।। 7.8.16 ।।
ततो ऽम्बरे महाञ्छब्दः साधुसाध्विति चोदितः । आहत्य राक्षसो विष्णुं गरुडं चाप्यताडयत् ।। 7.8.17 ।।
वैनतेयस्ततः क्रुद्धः पक्षवातेन राक्षसम् । व्यपोहद्बलवान्वायुः शुष्कपर्णचयं यथा ।। 7.8.18 ।।
द्विजेन्द्रपक्षवातेन द्रावितं दृश्य पूर्वजम् । सुमाली स्वबलैः सार्धं लङ्कामभिमुखो ययौ ।। 7.8.19 ।।
पक्षवातबलोद्धूतो माल्यवानपि राक्षसः । स्वबलेन समागम्य ययौ लङ्कां ह्रिया वृतः ।। 7.8.20 ।।
एवं ते राक्षसा तेन हरिणा कमलेक्षण । बहुशः संयुगे भग्ना हतप्रवरनायकाः ।। 7.8.21 ।।
अशक्नुवन्तस्ते विष्णुं प्रतियोद्धुं भयार्दिताः । त्यक्त्वा लङ्कां गता वस्तुं पातालं सहपत्नयः ।। 7.8....
सुमालिनं समासाद्य राक्षसं रघुसत्तम । स्थिताः प्रख्यातवीर्यास्ते वंशे सालकटङ्कटे ।। 7.8.23 ।।
ये त्वया निहतास्ते तु पौलस्त्या नाम राक्षसाः । सुमाली माल्यवान्माली ये च तेषां पुरःसराः ।।
सर्वे तेभ्यो महाभागा रावणाद्बलवत्तराः ।। 7.8.24 ।।
न चान्यो राक्षसान्हन्ता सुरारीन्देवकण्टकान् । ऋते नारायणं देवं शङ्खचक्रगदाधरम् ।। 7.8.25 ।।
भवान्नारायणो देवश्चतुर्बाहुः सनातनः । राक्षसान्हन्तुमुत्पन्नो ह्यजेयः प्रभुरव्ययः ।। 7.8.26 ।।
नष्टधर्मव्यवस्थाता काले काले प्रजाकरः । उत्पद्यते दस्युवधे शरणागतवत्सलः ।। 7.8.27 ।।
एषा मया तव नराधिप राक्षसानामुत्पत्तिरद्य कथिता सकला यथावत् । भूयो निबोध रघुसत्तम रावणस्य जन्मप्रभावम...
चिरात्सुमाली व्यचरद्रसातलं स राक्षसो विष्णुभयार्दितस्तदा । पुत्रैश्च पौत्रैश्च समन्वितो बली ततस्तु ल...
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टमः सर्गः ।। 8 ।।