Chapter 621
Sarga 84
तथोक्तवति रामे तु भरते च महात्मनि । लक्ष्मणो ऽथ शुभं वाक्यमुवाच रघुनन्दनम् ।। 7.84.1 ।।
अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम् । पावनस्तव दुर्धर्षो रोचतां रघुनन्दन ।। 7.84.2 ।।
श्रूयते हि पुरावृत्तं वासवे सुमहात्मनि । ब्रह्महत्यावृतः शक्रो हयमेधेन पावितः ।। 7.84.3 ।।
पुरा किल महाबाहो देवासुरसमागमे । वृत्रो नाम महानासीद्दैतेयो लोकसम्मतः ।। 7.84.4 ।।
विस्तीर्णो योजनशतमुच्छ्रितस्त्रिगुणं ततः । अनुरागेण लोकांस्त्रीन्स्नेहात्पश्यति सर्वतः ।। 7.84.5 ।।
धर्मज्ञश्च कृतज्ञश्च बुद्ध्या च परिनिष्ठितः । शशास पृथिवीं स्फीतां धर्मेण सुसमाहितः ।। 7.84.6 ।।
तस्मिन्प्रशासति तदा सर्वकामदुघा मही । रसवन्ति प्रभूनानि मूलानि च फलानि च ।। 7.84.7 ।।
अकृष्टपच्या पृथिवी सुसम्पन्ना महात्मनः । स राज्यं तादृशं भुङ्क्ते स्फीतमद्भुतदर्शनम् ।। 7.84.8 ।।
तस्य बुद्धिः समुप्तन्ना तपः कुर्यामनुत्तमम् । तपो हि परमं श्रेयः सम्मोहमितरत्सुखम् ।। 7.84.9 ।।
स निक्षिप्य सुतं ज्येष्ठं पौरेषु मधुरेश्वरम् । तप उग्रं समातिष्ठत्तापयन्सर्वदेवताः ।। 7.84.10 ।।
तपस्तप्यति वृत्रे तु वासवः परमार्तवत् । विष्णुं समुपसङ्क्रम्य वाक्यमेतदुवाच ह ।। 7.84.11 ।।
तपस्यता महाबाहो लोकाः वृत्रेण निर्जिताः । बलवान्स हि धर्मात्मा नैनं शक्ष्यामि शासितुम् ।। 7.84.12 ।।
यद्यसौ तप आतिष्ठेद्भूय एवासुरेश्वर । यावल्लोका धरिष्यन्ति तावदस्य वशानुगाः ।। 7.84.13 ।।
तं चैनं परमोदारमुपेक्षसि महाबलम् । क्षणं हि न भवेद्वृत्रः क्रुद्धे त्वयि सुरेश्वर ।। 7.84.14 ।।
यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः । तदाप्रभृति लोकानां नाथत्वमुपलब्धवान् ।। 7.84.15 ।।
स त्वं प्रसादं लोकानां कुरुष्व सुसमाहितः । त्वत्कृतेन हि सर्वं स्याप्रशान्तमरुजं जगत् ।। 7.84.16 ।।
इमे हि सर्वे विष्णो त्वां निरीक्षन्ते दिवौकसः । वृत्रघातेन महता तेषां साह्यं कुरुष्व ह ।। 7.84.17 ।।
त्वया हि नित्यशः साह्यं कृतमेषां महात्मनाम् । असह्यमिदमन्येषामगतीनां गतिर्भवान् ।। 7.84.18 ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुरशीतितमः सर्गः ।। 84 ।।