Chapter 625
Sarga 88
तां कथामिलसम्बद्धां रामेण समुदीरिताम् । लक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ ।। 7.88.1 ।।
तौ रामं प्राञ्जली भूत्वा तस्य राज्ञो महात्मनः । विस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः ।। 7.88.2 ।।
कथं स राजा स्त्रीभूतो वर्तयामास दुर्गतिः । पुरुषः स यदा भूतः कां वृत्तिं वर्तयत्यसौ ।। 7.88.3 ।।
तयोस्तद्भाषितं श्रुत्वा कौतूहलसमन्वितम् । कथयामास काकुत्स्थस्तस्य राज्ञो यथागतम् ।। 7.88.4 ।।
तमेव प्रथमं मासं स्त्रीभूता लोकसुन्दरी । ताभिः परिवृता स्त्रीभिर्ये च पूर्वपदानुगाः ।। 7.88.5 ।।
तत्काननं विगाह्वाशु विजह्रे लोकसुन्दरी । द्रुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा ।। 7.88.6 ।।
वाहनानि च सर्वाणि सा त्यक्त्वा वै समन्ततः । पर्वताभोगविवरे तस्मिन्रेमे इला तदा ।। 7.88.7 ।।
अथ तस्मिन्वनोद्देशे पर्वतस्याविदूरतः । सरः सुरुचिरप्रख्यं नानापक्षिगणैर्युतम् ।। 7.88.8 ।।
ददर्श सा त्विला तस्मिन्बुधं सोमसुतं तदा । ज्वलन्तं स्वेन वपुषा पूर्णसोममिवोदितम् ।। 7.88.9 ।।
तपन्तं च तपस्तीव्रमम्भोमध्ये दुरासदम् । यशस्करं कामकरं कारुण्ये पर्यवस्थितम् ।। 7.88.10 ।।
सा तं जलाशयं सर्वं क्षोभयामास विस्मिता । सहगैः पूर्वपुरुषैः स्त्रीभूतै रघुनन्दन ।। 7.88.11 ।।
बुधस्तु तां समीक्ष्यैव कामबाणवशं गतः । नोपलेभे तदा ऽ ऽत्मानं सञ्चचाल तदा ऽ ऽम्भसि ।। 7.88.12 ।।
इलां निरीक्षमाणस्तु त्रैलोक्याभ्यधिकां शुभाम् । चिन्तां समभ्यतिक्रामत् का न्वियं देवताधिका ।। 7.88.1...
न देवीषु न नागीषु नासुरीष्वप्सरःसु च । दृष्टपूर्वा मया काचिद्रूपेणानेन शोभिता ।। 7.88.14 ।।
सदृशीयं मम भवेद्यदि नान्यपरिग्रहः । इति बुद्धिं समास्थाय जलात्कूलमुपागमत् ।। 7.88.15 ।।
आश्रमं समुपागम्य ततस्ताः प्रमदोत्तमाः । शब्दापयत धर्मात्मा ताश्चैनं च ववन्दिरे ।। 7.88.16 ।।
स ताः पप्रच्छ धर्मात्मा कस्यैषा लोकसुन्दरी । किमर्थमागता चैव सर्वमाख्यात मा चिरम् ।। 7.88.17 ।।
शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम् । श्रुत्वा स्त्रियश्च ताः सर्वा ऊचुर्मधुरया गिरा ।। 7.88.18...
अस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदा । अपतिः काननान्तेषु सहास्माभिश्चरत्यसौ ।। 7.88.19 ।।
तद्वाक्यमव्यक्तपदं तासां स्त्रीणां निशम्य च । विद्यामावर्तनीं पुण्यामावर्तयत स द्विजः ।। 7.88.20 ।।
सो ऽर्थं विदित्वा सकलं तस्य राज्ञो यथागतम् । सर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुङ्गवः ।। 7.88.21 ।।
अत्र किम्पुरुषीर्भूत्वा शैलरोधसि वत्स्यथ । आवासस्तु गिरावस्मिञ्छीघ्रमेव विधीयताम् ।। 7.88.22 ।।
मूलपत्रफलैः सर्वा वर्तयिष्यथ नित्यदा । स्त्रियः किम्पुरुषान्नाम भर्तऽन्समुपलप्स्यथ ।। 7.88.23 ।।
ताः श्रुत्वा सोमपुत्रस्य वाचं किम्पुरुषीकृताः । उपासाञ्चक्रिरे शैलं वध्वस्ता बहुलास्तदा ।। 7.88.24 ।...
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टाशीतितमः सर्गः ।। 88 ।।