Chapter 627
Sarga 90
तथोक्तवति रामे तु तस्य जन्म तदद्भुतम् । उवाच लक्ष्मणो भूयो भरतश्च महायशाः ।। 7.90.1 ।।
इला सा सोमपुत्रस्य संवत्सरमथोषिता । अकरोत्किं नरश्रेष्ठ तत्त्वं शंसितुमर्हसि ।। 7.90.2 ।।
तयोस्तद्वाक्यमाधुर्यं निशम्य परिपृच्छतोः । रामः पुनरुवाचेमां प्रजापतिसुते कथाम् ।। 7.90.3 ।।
पुरुषत्वं गते शूरे बुधः परमबुद्धिमान् । संवर्तं परमोदारमाजुहाव महायशाः ।। 7.90.4 ।।
च्यवनं भृगुपुत्रं च मुनिं चारिष्टनेमिनम् । प्रमोदनं मोदकरं ततो दुर्वाससं मुनिम् ।। 7.90.5 ।।
एतान्सर्वान्समानीय वाक्यज्ञस्तत्त्वदर्शनः । उवाच सर्वान्सुहृदो धैर्येण सुसमाहितान् ।। 7.90.6 ।।
अयं राजा महाबाहुः कर्दमस्य इलः सुतः । जानीतैनं यथाभूतं श्रेयो ह्यत्र विधीयताम् ।। 7.90.7 ।।
तेषां संवदतामेव तमाश्रममुपागमत् । कर्दमस्तु महातेजा द्विजैः सह महात्मभिः ।। 7.90.8 ।।
पुलस्त्यश्च क्रतुश्चैव वषट्कारस्तथैव च । ओङ्कारश्च महातेजास्तमाश्रममुपागमत् ।। 7.90.9 ।।
ते सर्वे हृष्टमनसः परस्परसमागमे । हितैषिणो बाल्हिपतेः पृथग्वाक्यान्यथाब्रुवन् ।। 7.90.10 ।।
कर्दमस्त्वब्रवीद्वाक्यं सुतार्थं परमं हितम् । द्विजाः शृणुत मद्वाक्यं यच्छ्रेयः पार्थिवस्य हि ।। 7.9...
नान्यं पश्यामि भैषज्यमन्तरा वृषभध्वजम् । नाश्वमेधात्परो यज्ञः प्रियश्चैव महात्मनः । तस्माद्यजामहे सर...
कर्दमेनैवमुक्तास्तु सर्व एव द्विजर्षभाः । रोचयन्ति स्म तं यज्ञं रुद्रस्याराधनं प्रति ।। 7.90.13 ।।
संवर्तस्य तु राजर्षेः शिष्यः पुरपुरञ्जयः । मरुत्त इति विख्यातस्तं यज्ञं समुपाहरत् ।। 7.90.14 ।।
ततो यज्ञो महानासीद्बुधाश्रमसमीपतः । रुद्रश्च परमं तोषमाजगाम महायशाः ।। 7.90.15 ।।
अथ यज्ञे समाप्ते तु प्रीतः परमया मुदा । उमापतिर्द्विजान्सर्वानुवाच इलसन्निधौ ।। 7.90.16 ।।
प्रीतो ऽस्मि हयमेधेन भक्त्या च द्विजसत्तमाः । अस्य बाह्लिपतेश्चैव किं करोमि प्रियं शुभम् ।। 7.90.17 ...
तथा वदति देवेशे द्विजास्ते सुसमाहिताः । प्रसादयन्ति देवेशं यथा स्यात्पुरुषस्त्विला ।। 7.90.18 ।।
ततः प्रीतो महादेवः पुरुषत्वं ददौ पुनः । इलायै सुमहातेजा दत्त्वा चान्तरधीयत ।। 7.90.19 ।।
निवृत्ते हयमेधे च गतश्चादर्शनं हरः । यथागतं द्विजाः सर्वे ह्यगच्छन्दीर्घदर्शिनः ।। 7.90.20 ।।
राजा तु बाह्लिमुत्सृज्य मध्यदेशे ह्यनुत्तमम् । निवेशयामास पुरं प्रतिष्ठानं यशस्करम् ।। 7.90.21 ।।
शशबिन्दुश्च राजर्षिर्बाह्लिं पुरपुरञ्जयः । प्रतिष्ठाने इलो राजा प्रजापतिसुतो बली ।। 7.90.22 ।।
स काले प्राप्तवाँल्लोकमिलो ब्राह्ममनुत्तमम् । ऐलः पुरूरवा राजा प्रतिष्ठानमवाप्तवान् ।। 7.90.23 ।।
ईदृशो ह्यश्वमेधस्य प्रभावः पुरुषर्षभौ । स्त्रीभूतः पौरुषं लेभे यच्चान्यदपि दुर्लभम् ।। 7.90.24 ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे नवतितमः सर्गः ।। 90 ।।