Chapter 630
Sarga 93
वर्तमाने तथाभूते यज्ञे च परमाद्भुते । सशिष्य आजगामाशु वाल्मीकिर्मुनिपुङ्गवः ।। 7.93.1 ।।
स दृष्ट्वा दिव्यसङ्काशं यज्ञमद्भुतदर्शनम् । एकान्ते ऋषिवाटानां चकार उटजाञ्छुभान् ।। 7.93.2 ।।
शकटांश्च बहून्पूर्णान्फलमूलैश्च शोभनान् । वाल्मीकिवाटे रुचिरे स्थापयन्नविदूरतः ।। 7.93.3 ।।
आसीत्सुपूजितो राज्ञा मुनिभिश्च महात्मभिः । वाल्मीकिः सुमहातेजा न्यवसत्परमात्मवान् ।। 7.93.4 ।।
स शिष्यावब्रवीद्धृष्टौ युवां गत्वा समाहितौ । कृत्स्नं रामायणं काव्यं गायेथां परया मुदा ।। 7.93.5 ।।
ऋषिवाटेषु पुण्येषु ब्राह्मणावसथेषु च । रथ्यासु राजमार्गेषु पार्थिवानां गृहेषु च ।। 7.93.6 ।।
रामस्य भवनद्वारि यत्र कर्म च कुर्वते । ऋत्विजामग्रतश्चैव तत्र गेयं विशेषतः ।। 7.93.7 ।।
इमानि च फलान्यत्र स्वादूनि विविधानि च । जातानि पर्वताग्रेषु चास्वाद्यास्वाद्य गायताम् ।। 7.93.8 ।।
न यास्यथः श्रमं वत्सौ भक्षयित्वा फलानि वै । मूलानि च सुमृष्टानि नगराद्बहिरास्यथः ।। 7.93.9 ।।
यदि शब्दापयेद्रामः श्रवणाय महीपतिः । ऋषीणामुपविष्टानां ततो गेयं प्रवर्तताम् ।। 7.93.10 ।।
दिवसे विंशतिः सर्गा गेया मधुरया गिरा । प्रमाणैर्बहुभिस्तत्र यथोद्दिष्टा मया पुरा ।। 7.93.11 ।।
लोभश्चापि न कर्तव्यः स्वल्पो ऽपि धनकाङ्क्षया । किं धनेनाश्रमस्थानां फलमूलोपजीविना ।। 7.93.12 ।।
यदि पृच्छेत्स काकुत्स्थो युवां कस्येति दारकौ । आवां वाल्मीकिशिष्यौ स्वो ब्रूतमेवं नराधिपम् ।। 7.93.1...
इमास्तन्त्रीः सुमधुराः स्थानं वा ऽपूर्वदर्शनम् । मूर्च्छयित्वा सुमधुरं गायतां विगतज्वरौ ।। 7.93.14 ।...
आदिप्रभृति गेयं स्यान्न चावज्ञाय पार्थिवम् । पिता हि सर्वभूतानां राजा भविति धर्मतः ।। 7.93.15 ।।
तद्युवां हृष्टमनसौ श्वः प्रभाते समास्थितौ । गायेथां मधुरं गेयं तन्त्रीलयसमन्वितम् ।। 7.93.16 ।।
इति सन्दिश्य बहुशो मुनिः प्राचेतसस्तदा । वाल्मीकिः परमोदारस्तूष्णीमासीन्महायशाः ।। 7.93.17 ।।
सन्दिष्टौ मुनिना तेन तावुभौ मैथिलीसुतौ । तथैव करवावेति निर्जग्मतुररिन्दमौ ।। 7.93.18 ।।
तामद्भुतां तौ हृदये कुमारौ निवेश्य वाणीमृषिभाषितां तदा । समुत्सुकौ तौ सममूषतुर्निशां यथा ऽश्विनौ भार...
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रिनवतितमः सर्गः ।। 93 ।।