arrow_back All Chapters

Chapter 632

Sarga 95

VERSE 632.1

रामो बहून्यहान्येवं तद्गीतं परमं शुभम् । शुश्राव मुनिभिः सार्धं पार्थिवैः सह वानरैः ।। 7.95.1 ।।

READ MEANING arrow_forward
VERSE 632.2

तस्मिन्गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ । तस्याः परिषदो मध्ये रामो वचनमब्रवीत् । दूताञ्छुद्धसमाचार...

READ MEANING arrow_forward
VERSE 632.3

मद्वचो ब्रूत गच्छध्वमितो भगवतो ऽन्तिकम् ।। 7.95.3 ।।

READ MEANING arrow_forward
VERSE 632.4

परिषदो मध्ये रामो वचनमब्रवीत् । यदि शुद्धसमाचारा यदि वा वीतकल्मषा । करोत्विहात्मनः शुद्धिमनुमान्य मह...

READ MEANING arrow_forward
VERSE 632.5

छन्दं मुनेश्च विज्ञाय सीतायाश्च मनोगतम् । प्रत्ययं दातुकामायास्ततः शंसत मे लघु ।। 7.95.5 ।।

READ MEANING arrow_forward
VERSE 632.6

श्वः प्रभाते तु शपथं मैथिली जनकात्मजा । करोतु परिषन्मध्ये शोधनार्थं ममैव च ।। 7.95.6 ।।

READ MEANING arrow_forward
VERSE 632.7

श्रुत्वा तु ऱागवस्यैतद्वचः परममद्भुतम् । दूताः सम्प्रययुर्बाटं यत्रास्ते मुनिपुङ्गवः ।। 7.95.7 ।।

READ MEANING arrow_forward
VERSE 632.8

ते प्रणम्य महात्मानं ज्वलन्तममितप्रभम् । ऊचुस्ते रामवाक्यानि मृदूनि मधुराणि च ।। 7.95.8 ।।

READ MEANING arrow_forward
VERSE 632.9

तेषां तद्व्याहृतं श्रुत्वा रामस्य च मनोगतम् । विज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत् ।। 7.95.9 ।।

READ MEANING arrow_forward
VERSE 632.10

एवं भवतु भद्रं वो यथा वदति राघवः । तथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः ।। 7.95.10 ।।

READ MEANING arrow_forward
VERSE 632.11

तथोक्ता मुनिना सर्वे राजदूता महौजसम् । प्रत्येत्य राघवं क्षिप्रं मुनिवाक्यं बभाषिरे ।। 7.95.11 ।।

READ MEANING arrow_forward
VERSE 632.12

ततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः । ऋषींस्तत्र समेतांश्च राज्ञश्चैवाभ्यभाषत ।। 7.95....

READ MEANING arrow_forward
VERSE 632.13

भगवन्तः सशिष्या वै सानुगाश्च नराधिपाः । पश्यन्तु सीताशपथं यश्चैवान्यो ऽपि काङ्क्षते ।। 7.95.13 ।।

READ MEANING arrow_forward
VERSE 632.14

तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः । सर्वेषामृषिमुख्यानां साधुवादो महानभूत् ।। 7.95.14 ।।

READ MEANING arrow_forward
VERSE 632.15

राजानश्च महात्मानः प्रशंसन्ति स्म राघवम् । उपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः ।। 7.95.15 ।।

READ MEANING arrow_forward
VERSE 632.16

एवं विनिश्चयं कृत्वा श्वोभूत इति राघवः । विसर्जयामास तदा सर्वांस्ताञ्छत्रुसूदनः ।। 7.95.16 ।।

READ MEANING arrow_forward
VERSE 632.17

इति सम्प्रविचार्य राजसिंहः श्वोभूते शपथस्य निश्चयं वै । विससर्ज मुनीन्नृपांश्च सर्वान्स महात्मा महतो...

READ MEANING arrow_forward
VERSE 632.18

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चनवतितमः सर्ग ।। 95 ।।

READ MEANING arrow_forward
arrow_back Previous Chapter Next Chapter 633 arrow_forward