arrow_back All Chapters

Chapter 538

Sarga 1

VERSE 538.1

प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते । आजग्मुर्ऋषयः सर्वे राघवं प्रतिनन्दितुम् ।। 7.1.1 ।।

READ MEANING arrow_forward
VERSE 538.2

कौशिको ऽथ यवक्रीतो गार्ग्यो गालव एव च । कण्वो मेधातिथेः पुत्रः पूर्वस्यां दिशि ये श्रिताः ।। 7.1.2 ।...

READ MEANING arrow_forward
VERSE 538.3

स्वस्त्यात्रेयो ऽथ भगवान्नमुचिः प्रमुचिस्तथा । आजग्मुस्ते सहागस्त्या ये श्रिता दक्षिणां दिशम् ।। 7.1...

READ MEANING arrow_forward
VERSE 538.4

नृषद्गुः कवषो धौम्यो रौद्रेयश्च महानृषिः । ते ऽप्याजग्मुः सशिष्या वै ये श्रिताः पश्चिमां दिशम् ।। 7....

READ MEANING arrow_forward
VERSE 538.5

वसिष्ठः कश्यपो ऽथात्रिर्विश्वामित्रः सगौतमः । जमदग्निर्भरद्वाजस्ते ऽपि सप्तर्षयस्तथा ।। 7.1.5 ।।

READ MEANING arrow_forward
VERSE 538.6

उदीच्यां दिशि सप्तैते नित्यमेव निवासिनः ।। 7.1.6 ।।

READ MEANING arrow_forward
VERSE 538.7

सम्प्राप्य ते महात्मानो राघवस्य निवेशनम् । विष्टिताः प्रतिहारार्थं हुताशनसमप्रभाः । वेदवेदाङ्गविदुषो...

READ MEANING arrow_forward
VERSE 538.8

द्वाःस्थं प्रोवाच धर्मात्मा अगस्त्यो मुनिसत्तमः । निवेद्यतां दाशरथेर्ऋषीनस्मान्समागतान् ।। 7.1.8 ।।

READ MEANING arrow_forward
VERSE 538.9

प्रतीहारस्ततस्तूर्णमगस्त्यवचनाद्द्रुतम् । समीपं राघवस्याशु प्रविवेश महात्मनः ।। 7.1.9 ।।

READ MEANING arrow_forward
VERSE 538.10

नयेङ्गितज्ञः सद्वृत्तो दक्षो धैर्यसमन्वितः । स रामं दृश्य सहसा पूर्णचन्द्रसमप्रभम् ।। 7.1.10 ।।

READ MEANING arrow_forward
VERSE 538.11

अगस्त्यं कथयामास सम्प्राप्तमृषिभिः सह ।। 7.1.11 ।।

READ MEANING arrow_forward
VERSE 538.12

श्रुत्वा प्राप्तान्मुनींस्तांस्तु बालसूर्यसमप्रभान् । प्रत्युवाच ततो द्वास्स्थं प्रवेशय यथासुखम् ।। ...

READ MEANING arrow_forward
VERSE 538.13

तान् सम्प्राप्तान् मुनीन् दृष्ट्वा प्रत्युत्थाय कृताञ्जलिः । पाद्यार्घ्यादिभिरानर्च गां निवेद्य च सा...

READ MEANING arrow_forward
VERSE 538.14

रामो ऽभिवाद्य प्रयत आसनान्यादिदेश ह । तेषु काञ्चनचित्रेषु महत्सु च वरेषु च ।। 7.1.14 ।।

READ MEANING arrow_forward
VERSE 538.15

कुशान्तर्धानदत्तेषु मृगचर्मयुतेषु च । यथार्हमुपविष्टास्ते आसनेष्वृषिपुङ्गवाः ।। 7.1.15 ।।

READ MEANING arrow_forward
VERSE 538.16

रामेण कुशलं पृष्टाः सशिष्याः सपुरोगमाः । महर्षयो वेदविदो रामं वचनमब्रुवन् ।। 7.1.16 ।।

READ MEANING arrow_forward
VERSE 538.17

कुशलं नो महाबाहो सर्वत्र रघुनन्दन । त्वां तु दिष्ट्या कुशलिनं पश्यामो हतशात्रवम् ।। 7.1.17 ।।

READ MEANING arrow_forward
VERSE 538.18

दिष्ट्या त्वया हतो राजन्रावणो लोकरावणः । न हि भारः स ते राम रावणः पुत्रपौत्रवान् ।। 7.1.18 ।।

READ MEANING arrow_forward
VERSE 538.19

सधनुस्त्वं हि लोकांस्त्रीन्विजयेथा न संशयः । दिष्ट्या त्वया हतो राम रावणो राक्षसेश्वरः ।। 7.1.19 ।।

READ MEANING arrow_forward
VERSE 538.20

दिष्ट्या विजयिनं त्वाद्य पश्यामः सह सीतया । लक्ष्मणेन च धर्मात्मन्भ्रात्रा त्वद्धितकारिणा ।। 7.1.20 ...

READ MEANING arrow_forward
VERSE 538.21

मातृभिर्भ्रातृसहितं पश्यामो ऽद्य वयं नृप । दिष्ट्या प्रहस्तो विकटो विरूपाक्षो महोदरः । अकम्पनश्च दुर...

READ MEANING arrow_forward
VERSE 538.22

यस्य प्रमाणाद्विपुलं प्रमाणं नेह विद्यते । दिष्ट्या ते समरे राम कुम्भकर्णो निपातितः ।। 7.1.22 ।।

READ MEANING arrow_forward
VERSE 538.23

त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ । दिष्ट्या ते निहता राम महावीर्या निशाचराः ।। 7.1.23 ।।

READ MEANING arrow_forward
VERSE 538.24

कुम्भश्चैव निकुम्भश्च राक्षसौ भीमदर्शनौ । दिष्ट्या तौ निहतौ राम कुम्भकर्णसुतौ मृधे ।। 7.1.24 ।।

READ MEANING arrow_forward
VERSE 538.25

युद्धोन्मत्तश्च मत्तश्च कालान्तकयमोपमौ । यज्ञकोपश्च बलवान्धूम्राक्षो नाम राक्षसः ।। 7.1.25 ।।

READ MEANING arrow_forward
VERSE 538.26

कुर्वन्तः कदनं घोरमेते शस्त्रास्त्रपारगाः । अन्तकप्रतिमैर्बाणैर्दिष्ट्या विनिहतास्त्वया ।। 7.1.26 ।।

READ MEANING arrow_forward
VERSE 538.27

दिष्ट्या त्वं राक्षसेन्द्रेण द्वन्द्वयुद्धमुपागतः । देवतानामवध्येन विजयं प्राप्तवानसि ।। 7.1.27 ।।

READ MEANING arrow_forward
VERSE 538.28

सङ्ख्ये तस्य न किञ्चित्तु रावणस्य पराभवः । द्वन्द्वयुद्धमनुप्राप्तो दिष्ट्या ते रावणिर्हतः ।। 7.1.28...

READ MEANING arrow_forward
VERSE 538.29

दिष्ट्या तस्य महाबाहो कालस्येवाभिधावतः । मुक्तः सुररिपोर्वीर प्राप्तश्च विजयस्त्वया ।। 7.1.29 ।।

READ MEANING arrow_forward
VERSE 538.30

अभिनन्दाम ते सर्वे संश्रुत्येन्द्रजितो वधम् । सो ऽवध्यः सर्वभूतानां महामायाधरो युधि ।। 7.1.30 ।।

READ MEANING arrow_forward
VERSE 538.31

विस्मयस्त्वेष चास्माकं तच्छ्रुत्वेन्द्रजितं हतम् ।। 7.1.31 ।।

READ MEANING arrow_forward
VERSE 538.32

एते चान्ये च बहवो राक्षसाः कामरूपिणः । दिष्ट्या त्वया हता वीरा रघूणां कुलवर्द्धन ।। 7.1.32 ।।

READ MEANING arrow_forward
VERSE 538.33

दत्त्वा पुण्यामिमां वीर सौम्यामभयदक्षिणाम् ।। दिष्ट्या वर्धसि काकुत्स्थ जयेनामित्रकर्शन ।। 7.1.33 ।।

READ MEANING arrow_forward
VERSE 538.34

श्रुत्वा तु तेषां वचनमृषीणां भावितात्मनाम् । विस्मयं परमं गत्वा रामः प्राञ्जलिरब्रवीत् ।। 7.1.34 ।।

READ MEANING arrow_forward
VERSE 538.35

भगवन्तः कुम्भकर्णं रावणं च निशाचरम् । अतिक्रम्य महावीर्यौ किं प्रशंसथ रावणिम् ।। 7.1.35 ।।

READ MEANING arrow_forward
VERSE 538.36

महोदरं प्रहस्तं च विरूपाक्षं च राक्षसम् । मत्तोन्मत्तौ च दुर्धर्षौ देवान्तकनरान्तकौ ।।

READ MEANING arrow_forward
VERSE 538.37

अतिक्रम्य महावीर्यान् किं प्रशंसथ रावणिम् ।। 7.1.36 ।।

READ MEANING arrow_forward
VERSE 538.38

अतिकायं त्रिशिरसं धूम्राक्षं च निशाचरम् । अतिक्रम्य महावीर्यान्किं प्रशंसथ रावणिम् ।। 7.1.37 ।।

READ MEANING arrow_forward
VERSE 538.39

कीदृशो वै प्रभावो ऽस्य किं बलं कः पराक्रमः । केन वा कारणेनैष रावणादतिरिच्यते ।। 7.1.38 ।।

READ MEANING arrow_forward
VERSE 538.40

शक्यं यदि मया श्रोतुं न खल्वाज्ञापयामि वः । यदि गुह्यं न चेद्वक्तुं श्रोतुमिच्छामि कथ्यताम् ।। 7.1.3...

READ MEANING arrow_forward
VERSE 538.41

शक्रो ऽपि विजितस्तेन कथं लब्धवरश्च सः । कथं च बलवानन्पुत्रो न पिता तस्य रावणः ।। 7.1.40 ।।

READ MEANING arrow_forward
VERSE 538.42

कथं पितुश्चाभ्यधिको महाहवे शक्रस्य जेता हि कथं स राक्षसः । वराश्च लब्धाः कथयस्व मे ऽद्य तत्पृच्छतश्च...

READ MEANING arrow_forward
arrow_back Previous Chapter Next Chapter 539 arrow_forward