Chapter 547
Sarga 10
अथाब्रवीन्मुनिं रामः कथं ते भ्रातरो वने । कीदृशं तु तदा ब्रह्मंस्तपस्तेपुर्महाबलाः ।। 7.10.1 ।।
अगस्त्यस्त्वब्रवीत्तत्र रामं सुप्रीतमानसम् । तांस्तान्धर्मविधींस्तत्र भ्रातरस्ते समाविशन् ।। 7.10.2 ...
कुम्भकर्णस्ततो यत्तो नित्यं धर्मपथे स्थितः । तताप ग्रीष्मकाले तु पञ्चाग्नीन्परितः स्थितः ।। 7.10.3 ।...
मेघाम्बुसिक्तो वर्षासु वीरासनमसेवत । नित्यं च शिशिरे काले जलमध्यप्रतिश्रयः ।। 7.10.4 ।।
एवं वर्षसहस्राणि दश तस्यातिचक्रमुः । धर्मे प्रयतमानस्य सत्पथे निष्ठितस्य च ।। 7.10.5 ।।
विभीषणस्तु धर्मात्मा नित्यं धर्मपरः शुचिः । पञ्चवर्षसहस्राणि पादेनैकेन तस्थिवान् ।। 7.10.6 ।।
समाप्ते नियमे तस्य ननृतुश्चाप्सरोगणाः । पपात पुष्पवर्षं च क्षुभिताश्चापि देवताः ।। 7.10.7 ।।
पञ्चवर्षसहस्राणि सूर्यं चैवान्ववर्तत । तस्थौ चोर्ध्वशिरोबाहुः स्वाध्यायधृतमानसः ।। 7.10.8 ।।
एवं विभीषणस्यापि स्वर्गस्थस्येव नन्दने । दशवर्षसहस्राणि गतानि नियतात्मनः ।। 7.10.9 ।।
दशवर्षसहस्रं तु निराहारो दशाननः । पूर्णे वर्षसहस्रे तु शिरश्चाग्नौ जुहाव सः ।। 7.10.10 ।।
एवं वर्षसहस्राणि नव तस्यातिचक्रमुः । शिरांसि नव चाप्यस्य प्रविष्टानि हुताशनम् ।। 7.10.11 ।।
अथ वर्षसहस्रे तु दशमे दशमं शिरः । छेत्तुकामे दशग्रीवे प्राप्तस्तत्र पितामहः ।। 7.10.12 ।।
पितामहस्तु सुप्रीतः सार्धं देवैरुपस्थितः । तव तावद्दशग्रीव प्रीतो ऽस्मीत्यभ्यभाषत ।। 7.10.13 ।।
शीघ्रं वरय धर्मज्ञ वरो यस्ते ऽभिकाङ्क्षितः । कं ते कामं करोम्यद्य न वृथा ते परिश्रमः ।। 7.10.14 ।।
अथाब्रवीदृशग्रीवः प्रहृष्टेनान्तरात्मना । प्रणम्य शिरसा देवं हर्षगद्गदया गिरा ।। 7.10.15 ।।
भगवन्प्राणिनां नित्यं नान्यत्र मरणाद्भयम् । नास्ति मृत्युसमः शत्रुरमरत्वमहं वृणे ।। 7.10.16 ।।
एवमुक्तस्तदा ब्रह्मा दशग्रीवमुवाच ह । नास्ति सर्वामरत्वं ते वरमन्यं वृणीष्व मे ।। 7.10.17 ।।
एवमुक्ते तदा राम ब्रह्मणा लोककर्तृणा । दशग्रीव उवाचेदं कृताञ्जलिरथाग्रतः ।। 7.10.18 ।।
सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् । अवध्यो ऽहं प्रजाध्यक्ष देवतानां च शाश्वत ।। 7.10.19 ।।
नहि चिन्ता ममान्येषु प्राणिष्वमरपूजित । तृणभूता हि ते मन्ये प्राणिनो मानुषादयः ।। 7.10.20 ।।
एवमुक्तस्तु धर्मात्मा दशग्रीवेण रक्षसा । उवाच वचनं देवः सह देवैः पितामहः ।। 7.10.21 ।।
भविष्यत्येवमेतत्ते वचो राक्षसपुङ्गव । एवमुक्त्वा तु तं राम दशग्रीवं पितामहः ।। 7.10.22 ।।
शृणु चापि वरो भूयः प्रीतस्येह शुभो मम । हुतानि यानि शीर्षाणि पूर्वमग्नौ त्वयानघ ।। 7.10.23 ।।
पुनस्तानि भविष्यन्ति तथैव तव राक्षस । वितरामीह ते सौम्य वरं चान्यं दुरासदम् ।। 7.10.24 ।।
छन्दतस्तव रूपं च मनसा यद्यथेप्सितम् । भविष्यति न सन्देहो मद्वरात्तवराक्षस ।। 7.10.25 ।।
एवं पितामहोक्तस्य दशग्रीवस्य रक्षसः । अग्नौ हुतानि शीर्षाणि पुनस्तान्युत्थितानि वै ।। 7.10.26 ।।
एवमुक्त्वा तु तं राम दशग्रीवं पितामहः । विभीषणमथोवाच वाक्यं लोकपितामहः ।। 7.10.27 ।।
विभीषण त्वया वत्स धर्मसंहितबुद्धिना । परितुष्टो ऽस्मि धर्मात्मन्वरं वरय सुव्रत ।। 7.10.28 ।।
विभीषणस्तु धर्मात्मा वचनं प्राह साञ्जलिः । वृतः सर्वगुणैर्नित्यं चन्द्रमा रश्मिभिर्यथा ।। 7.10.29 ।।
भगवन्कृतकृत्यो ऽहं यन्मे लोकगुरुः स्वयम् । प्रीतेन यदि दातव्यो वरो मे शृणु सुव्रत ।। 7.10.30 ।।
परमापद्गतस्यापि धर्मे मम मतिर्भवेत् । अशिक्षितं च ब्रह्मास्त्रं भगवन्प्रतिभातु मे ।। 7.10.31 ।।
या या मे जायते बुद्धिर्येषु येष्वाश्रमेषु च । सा सा भवतु धर्मिष्ठा तं तु धर्मं च पालये ।। 7.10.32 ।।
एष मे परमोदार वरः परमको मतः । नहि धर्माभिरक्तानां लोके किञ्चन दुर्लभम् ।। 7.10.33 ।।
पुनः प्रजापतिः प्रीतो विभीषणमुवाच ह । धर्मिष्ठस्त्वं यथा वत्स तथा चैतद्भविष्यति ।। 7.10.34 ।।
यस्माद्राक्षसयोनौ ते जातस्यामित्रनाशन । नाधर्मे जायते बुद्धिरमरत्वं ददामि ते ।। 7.10.35 ।।
इत्युक्त्वा कुम्भकर्णाय वरं दातुमुपस्थितम् । प्रजापतिं सुराः सर्वे वाक्यं प्राञ्जलयो ऽब्रुवन् ।। 7.1...
न तावत्कुम्भकर्णाय प्रदातव्यो वरस्त्वया । जानीषे हि यथा लोकांस्त्रासयत्येष दुर्मतिः ।। 7.10.37 ।।
नन्दने ऽप्सरसः सप्त महेन्द्रानुचरा दश । अनेन भक्षिता ब्रह्मन्नृषयो मानुषास्तथा ।। 7.10.38 ।।
अलब्धवरपूर्वेण यत्कृतं राक्षसेन तु । तदेष वरलब्धः स्याद्भक्षयेद्भुवनत्रयम् ।। 7.10.39 ।।
वरव्याजेन मोहो ऽस्मै दीयताममितप्रभ । लोकानां स्वस्ति चैवं स्याद्भवेदस्य च सन्नतिः ।। 7.10.40 ।।
एवमुक्तः सुरैर्ब्रह्मा ऽचिन्तयत् पद्मसम्भवः । चिन्तिता चोपतस्थे ऽस्य पार्श्वं देवी सरस्वती ।। 7.10.4...
प्राञ्जलिः सा तु पार्श्वस्था प्राह वाक्यं सरस्वती । इयमस्म्यागता देव किं कार्यं करवाण्यहम् ।। 7.10.4...
प्रजापतिस्तुं तां प्राप्तां प्राह वाक्यं सरस्वतीम् । वाणि त्वं राक्षसेन्द्रस्य भव या देवतेप्सिता ।। ...
तथेत्युक्त्वा प्रविष्टा सा प्रजापतिरथाब्रवीत् । कुम्भकर्ण महाबाहो वरं वरय यो मतः ।। 7.10.44 ।।
कुम्भकर्णस्तु तद्वाक्यं श्रुत्वा वचनमब्रवीत् । स्वप्तुं वर्षाण्यनेकानि देवदेव ममेप्सितम् ।। 7.10.45 ...
एवमस्त्विति तं चोक्त्वा प्रायाद्ब्रह्मा सुरैः समम् । देवी सरस्वती चैव राक्षसं तं जहौ पुनः ।। 7.10.46...
ब्रह्मणा सह देवेषु गतेषु च नभःस्थलम् । विमुक्तो ऽसौ सरस्वत्या स्वां सञ्ज्ञां च ततो गतः ।। 7.10.47 ।।
कुम्भकर्णस्तु दुष्टात्मा चिन्तयामास दुःखितः । ईदृशं किमिदं वाक्यं ममाद्य वदनाच्च्युतम् ।। 7.10.48 ।।
अहं व्यामोहितो देवैरिति मन्ये तदा ऽ ऽगतैः । एवं लब्धवराः सर्वे भ्रातरो दीप्ततेजसः । श्लेष्मातकवनं गत...
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे दशमः सर्गः ।। 10 ।।