Chapter 548
Sarga 11
सुमाली वरलब्धांस्तु ज्ञात्वा चैतान्निशाचरान् । उदतिष्ठद्भयं त्यक्त्वा सानुगः स रसातलात् ।। 7.11.1 ।।
मारीचश्च प्रहस्तश्च विरूपाक्षो महोदरः । उदतिष्ठन्सुसंरब्धाः सचिवास्तस्य रक्षसः ।। 7.11.2 ।।
सुमाली सचिवैः सार्धं वृतो राक्षसपुङ्गवैः । अभिगम्य दशग्रीवं परिष्वज्येदमब्रवीत् ।। 7.11.3 ।।
दिष्ट्या ते वत्स सम्प्राप्तश्चिन्तितो ऽयं मनोरथः । यस्त्वं त्रिभुवनश्रेष्ठाल्लब्धवान्वरमुत्तमम् ।। 7...
यत्कृते च वयं लङ्कां त्यकत्वा याता रसातलम् । तद्गतं नो महाबाहो महद्विष्णुकृतं भयम् ।। 7.11.5 ।।
असकृत्तद्भयाद्भीताः परित्यज्य स्वमालयम् । विद्रुताः सहिताः सर्वे प्रविष्टाः स्म रसातलम् ।। 7.11.6 ।।
अस्मदीया च लङ्केयं नगरी राक्षसोचिता । निवेशिता तव भ्रात्रा धनाध्यक्षेण धीमता ।। 7.11.7 ।।
यदि नामात्र शक्यं स्यात्साम्ना दानेन वानघ । तरसा वा महाबाहो प्रत्यानेतुं कृतं भवेत् ।। 7.11.8 ।।
त्वं तु लङ्केश्वरस्तात भविष्यसि न संशयः । त्वया राक्षसवंशो ऽयं निमग्नो ऽपि समुद्धृतः । सर्वेषां नः प...
अथाब्रवीद्दशग्रीवो मातामहमुपस्थितम् । वित्तेशो गुरुरस्माकं नार्हसे वक्तुमीदृशम् ।। 7.11.10 ।।
साम्नापि राक्षसेन्द्रेण प्रत्याख्यातो गरीयसा । किञ्चिन्नाह तदा रक्षो ज्ञात्वा तस्य चकीर्षितम् ।। 7.1...
कस्यचित्त्वथ कालस्य वसन्तं रावणं ततः । उक्तवन्तं तथा वाक्यं दशग्रीवं निशाचरः ।। 7.11.12 ।।
प्रहस्तः प्रश्रितं वाक्यमिदमाह स कारणम् ।। 7.11.13 ।।
दशग्रीव महाबाहो नार्हस्त्वं वक्तुमीदृशम् । सौभ्रात्रं नास्ति शूराणां शृणु चेदं वचो मम ।। 7.11.14 ।।
अदितिश्च दितिश्चैव भगिन्यौ सहिते हि ते । भार्ये परमरूपिण्यौ कश्यपस्य प्रजापतेः ।। 7.11.15 ।।
अदितिर्जनयामास देवांस्त्रिभुवनेश्वरान् । दितिस्त्वजनयत्पुत्रान्कश्यपस्यात्मसम्भवान् ।। 7.11.16 ।।
दैत्यानां किल धर्मज्ञ पुरीयं सवनार्णवा । सपर्वता मही वीर ते ऽभवन्प्रभविष्णवः ।। 7.11.17 ।।
निहत्य तांस्तु समरे विष्णुना प्रभविष्णुना । देवानां वशमानीतं त्रैलोक्यमिदमव्ययम् ।। 7.11.18 ।।
नैतदेको भवानेव करिष्यति विपर्ययम् । सुरासुरैराचरितं तत्कुरुष्व वचो मम ।। 7.11.19 ।।
एवमुक्तो दशग्रीवः प्रहृष्टेनान्तरात्मना । चिन्तयित्वा मुहूर्तं वै बाढमित्येव सो ऽब्रवीत् ।। 7.11.20 ...
स तु तेनैव हर्षेण तस्मिन्नहनि वीर्यवान् । वनं गतो दशग्रीवः सह तैः क्षणदाचरैः ।। 7.11.21 ।।
त्रिकूटस्थः स तु तदा दशग्रीवो निशाचरः । प्रेषयामास दौत्येन प्रहस्तं वाक्यकोविदम् ।। 7.11.22 ।।
प्रहस्त शीघ्रं गच्छ त्वं ब्रूहि नैर्ऋतपुङ्गवम् । वचसा मम वित्तेशं सामपूर्वमिदं वचः ।। 7.11.23 ।।
इयं लङ्का पुरी राजन्राक्षसानां महात्मनाम् । त्वया निवेशिता सौम्य नैतद्युक्तं तवानघ ।। 7.11.24 ।।
तद्भवान्यदि नो ह्यद्य दद्यादतुलविक्रम । कृता भवेन्मम प्रीतिर्धुर्मश्चैवानुपालितः ।। 7.11.25 ।।
स तु गत्वा पुरीं लङ्कां धनदेन सुरक्षिताम् । अब्रवीत्परमोदारं वित्तपालमिदं वचः ।। 7.11.26 ।।
प्रेषितो ऽहं तव भ्रात्रा दशग्रीवेण सुव्रत । त्वत्समीपं महाबाहो सर्वशस्त्रभृतां वर ।। 7.11.27 ।।
तच्छ्रूयतां महाप्राज्ञ सर्वशास्त्रविशारद । वचनं मम वित्तेश यद्ब्रवीति दशाननः ।। 7.11.28 ।।
इयं किल पुरी रम्या सुमालिप्रमुखैः पुरा । भुक्तपूर्वा विशालाक्ष राक्षसैर्भीमविक्रमैः ।। 7.11.29 ।।
तेन विज्ञाप्यते सो ऽयं साम्प्रतं विश्रवात्मज । तदेषा दीयतां तात याचतस्तस्य सामतः ।। 7.11.30 ।।
प्रहस्तादभिसंश्रुत्य देवो वैश्रवणो वचः । प्रत्युवाच प्रहस्तं तं वाक्यं वाक्यविशारदः ।। 7.11.31 ।।
दत्ता ममेयं पित्रा तु लङ्का शून्या निशाचरैः । निवासिते च मे यक्षैर्दानमानादिभिर्गुणैः ।। 7.11.32 ।।
ब्रूहि गच्छ दशग्रीवं पुरं राज्यं च यन्मम । तवाप्येतन्महाबाहो भुङ्क्ष्व राज्यमकण्टकम् ।। 7.11.33 ।।
एवमुक्त्वा धनाध्यक्षो जगाम पितुरन्तिकम् ।। 7.11.34 ।।
अभिवाद्य गुरुं प्राह रावणस्य यदीप्सितम् । एष तात दशग्रीवो दूतं प्रेषितवान्मम ।। 7.11.35 ।।
दीयतां नगरी लङ्का पूर्वं रक्षोगणोषिता । मयात्र यदनुष्ठेयं तन्ममाचक्ष्व सुव्रत ।। 7.11.36 ।।
ब्रह्मर्षिस्त्वेवमुक्तो ऽसौ विश्रवा मुनिपुङ्गवः । प्राञ्जलिं धनदं प्राह शृणु पुत्र वचो मम ।। 7.11.37...
दशग्रीवो महाबाहुरुक्तवान्मम सन्निधौ । मया निर्भर्त्सितश्चासीद्बहुशोक्तः सुदुर्मतिः ।। 7.11.38 ।।
स क्रोधेन मया चोक्तो ध्वंसते च पुनः पुनः । श्रेयो ऽभियुक्तं धर्म्यं च शृणु पुत्र वचो मम ।। 7.11.39 ।...
वरप्रदानसम्मूढो मान्या ऽमान्यान् स दुर्मतिः । न वेत्ति मम शापाच्च प्रकृतिं दारुणां गतः ।। 7.11.40 ।।
तस्माद्गच्छ महाबाहो कैलासं धरणीधरम् । निवेशय निवासार्थं त्यक्त्वा लङ्कां सहानुगः ।। 7.11.41 ।।
तत्र मन्दाकिनी रम्या नदीनामुत्तमा नदी । काञ्चनैः सूर्यसङ्काशैः पङ्कजैः संवृतोदका ।। 7.11.42 ।।
कुमुदैरुत्पलैश्चैव तथा ऽन्यैश्च सुगन्धिभिः ।। 7.11.43 ।।
तत्र देवाः सगन्धर्वाः साप्सरोरगकिंनराः । विहारशीलाः सततं रमन्ते सर्वदा ऽ ऽश्रिताः ।। 7.11.44 ।।
न हि क्षमं तवानेन वैरं धनद रक्षसा । जानीषे हि यथा ऽनेन लब्धः परमको वरः ।। 7.11.45 ।।
एवमुक्तो गृहीत्वा ऽ ऽशु तद्वचः पितृगौरवात् । सदारपुत्रः सामान्यः सवाहनधनो गतः ।। 7.11.46 ।।
प्रहस्तो ऽथ दशग्रीवं गत्वा वचनमब्रवीत् । प्रहृष्टात्मा महात्मानं सहामात्यं सहानुजम् ।। 7.11.47 ।।
शून्या सा नगरी लङ्का त्यक्त्त्वैनां धनदो गतः । प्रविश्य तां सहास्माभिः स्वधर्मं प्रतिपालय ।। 7.11.48...
एवमुक्तो दशग्रीवः प्रहस्तेन महाबलः । विवेश नगरीं लङ्कां भ्रातृभिः सबलानुगैः ।। 7.11.49 ।।
धनदेन परित्यक्तां सुविभक्तमहापथाम् । आरुरोह स देवारिः स्वर्गं देवाधिपो यथा ।। 7.11.50 ।।
स चाभिषिक्तः क्षणदाचरैस्तदा निवेशयामास पुरीं दशाननः । निकामपूर्णा च बभूव सा पुरी निशाचरैर्नीलबलाहकोप...
धनेश्वरस्त्वथ पितृवाक्यगौरवान्न्यवेशयच्छशिविमले गिरौ पुरीम् । स्वलङ्कृतैर्भवनवरैर्विभूषितां पुरन्दरस...
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकादशः सर्गः ।। 11 ।।