Chapter 647
Sarga 110
अध्यर्धयोजनं गत्वा नदीं पश्चान्मुखाश्रिताम् । सरयूं पुण्यसलिलां ददर्श रघुनन्दनः ।। 7.110.1 ।।
तां नदीमाकुलावर्तां सर्वत्रानुसरन्नृपः । आगतः सप्रजो रामस्तं देशं रघुनन्दनः ।। 7.110.2 ।।
अथ तस्मिन्मुहूर्ते तु ब्रह्मा लोकपितामहः । सर्वैः परिवृतो देवैर्ऋषिभिश्च महात्मभिः ।। 7.110.3 ।।
आययौ यत्र काकुत्स्थः स्वर्गाय समुपस्थितः । विमानशतकोटीभिर्दिव्याभिरभिसंवृतः ।। 7.110.4 ।।
दिव्यतेजोवृतं व्योम ज्योतिर्भूतमनुत्तमम् । स्वयम्प्रभैः स्वतेजोभिः स्वर्गिभिः पुण्यकर्मभिः ।। 7.110....
पुण्या वाता ववुश्चैव गन्धवन्तः सुखप्रदाः । पपात पुष्पवृष्टिश्च देवैर्मुक्ता महौघवत् ।। 7.110.6 ।।
तस्मिंस्तूर्यशतैः कीर्णे गन्धर्वाप्सरसङ्कुले । सरयूसलिलं रामः पद्भ्यां समुपचक्रमे ।। 7.110.7 ।।
ततः पितामहो वाणीमन्तरिक्षादभाषत । आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तो ऽसि राघव ।। 7.110.8 ।।
भ्रातृभिः सह देवाभैः प्रविशस्व स्विकां तनुम् । यामिच्छसि महाबाहो तां तनुं प्रविश स्विकाम् । वैष्णवीं...
त्वं हि लोकगतिर्देव न त्वां केचित्प्रजानते । ऋते मायां विशालाक्षीं तव पूर्वपरिग्रहाम् । त्वामचिन्त्य...
यामिच्छसि महातेजस्तां तनुं प्रविश स्वयम् ।। 7.110.11 ।। ां
विशालाक्षीं तव पूर्वपरिग्रहाम् । पितामहवचः श्रुत्वा विनिश्चित्य महामतिः । विवेश वैष्णवं तेजः सशरीरः ...
ततो विष्णुमयं देवं पूजयन्ति स्म देवताः । साध्या मरुद्गणाश्चैव सेन्द्राः साग्निपुरोगमाः ।। 7.110.13 ।...
ये च दिव्या ऋषिगणा गन्धर्वाप्सरसश्च याः । सुपर्णनागयक्षाश्च दैत्यदानवराक्षसाः ।। 7.110.14 ।।
सर्वं पुष्टं प्रमुदितं सुसम्पूर्णमनोरथम् । साधु साध्विति तैर्देवैस्त्रिदिवं गतकल्मषम् ।। 7.110.15 ।।
अथ विष्णुर्महातेजाः पितामहमुवाच ह । एषां लोकं जनौघानां दातुमर्हसि सुव्रत ।। 7.110.16 ।।
इमे हि सर्वे स्नेहान्मामनुयाता यशस्विनः । भक्ता हि भजितव्याश्च त्यक्तात्मानश्च मत्कृते ।। 7.110.17 ।...
तच्छ्रुत्वा विष्णुवचनं ब्रह्मा लोकगुरुः प्रभुः । लोकान्सान्तानिकान्नाम यास्यन्तीमे समागताः ।। 7.110....
यच्च तिर्यग्गतं किञ्चित्त्वामेवमनुचिन्तयत् । प्राणांस्त्यक्ष्यति भक्त्या वै तत्सन्ताने निवत्स्यति ।।...
सर्वैर्ब्रह्मगुणैर्युक्ते ब्रह्मलोकादनन्तरे ।। 7.110.20 ।।
वानराश्च स्विकां योनिमृक्षाश्चैव तथा ययुः । येभ्यो विनिस्सृताः सर्वे सुरेभ्यः सुरसम्भवाः ।। 7.110.21...
तेषु प्रविविशे चैव सुग्रीवः सूर्यमण्डलम् । पश्यतां सर्वदेवानां स्वान्पितऽन्प्रतिपेदिरे ।। 7.110.22 ।...
तथोक्तवति देवेशे गोप्रतारमुपागताः । भेजिरे सरयूं सर्वे हर्षपूर्णाश्रुविक्लवाः ।। 7.110.23 ।।
अवगाह्य जलं यो यः प्राणी ह्यासीत् प्रहृष्टवत् । मानुषं देहमुत्सृज्य विमानं सो ऽध्यरोहत ।। 7.110.24 ।...
तिर्यग्योनिगतानां च शतानि सरयूजलम् । सम्प्राप्य त्रिदिवं जग्मुः प्रभासुरवपूंषि च । दिव्या दिव्येन वप...
गत्वा तु सरयूतोयं स्थावराणि चराणि च । प्राप्य तत्तोयविक्लेदं देवलोकमुपागमन् ।। 7.110.26 ।।
तस्मिन्नपि समापन्ना ऋक्षवानरराक्षसाः । ते ऽपि स्वर्गं प्रविविशुर्देहान्निक्षिप्य चाम्भसि ।। 7.110.27...
ततः समागतान्सर्वान्स्थाप्य लोकगुरुर्दिवि । जगाम त्रिदशैः सार्धं सदा हृष्टैर्दिवं महत् ।। 7.110.28 ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे दशाधिकशततमः सर्गः ।। 110 ।।