Chapter 648
Sarga 111
एतावदेतदाख्यानं सोत्तरं ब्रह्मपूजितम् । रामायणमिति ख्यातं मुख्यं वाल्मीकीना कृतम् ।। 7.111.1 ।।
ततः प्रतिष्ठितो विष्णुः स्वर्गलोके यथा पुरम् । येन व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम् ।। 7.111.2 ...
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । नित्यं शृण्वन्ति सन्तुष्टाः दिव्यं रामायणं दिवि ।। 7.111.3...
इदमाख्यानमायुष्यं सौभाग्यं पापनाशनम् । रामायणं वेदसमं श्राद्धेषु श्रावयेद्बुधः ।। 7.111.4 ।।
अपुत्रो लभते पुत्रमधनो लभते धनम् । सर्वपापैः प्रमुच्येत पदमप्यस्य यः पठेत् ।। 7.111.5 ।।
पापान्यपि च यः कुर्यादहन्यहनि मानवः । पठत्येकमपि श्लोकं पापात्स परिमुच्यते ।। 7.111.6 ।।
वाचकाय च दातव्यं वस्त्रं धेनुं हिरण्यकम् । वाचके परितुष्टे तु तुष्टाः स्युः सर्वदेवताः ।। 7.111.7 ।।
एतदाख्यानमायुष्यं पठन्रामायणं नरः । सपुत्रपौत्रो लोके ऽस्मिन्प्रेत्य चेह महीयते ।। 7.111.8 ।।
अयोध्या ऽपि पुरी रम्या शून्या वर्षगणान्बहून् । ऋषभं प्राप्य राजानं निवासमुपयास्यति ।। 7.111.9 ।।
एतदाख्यानमायुष्यं सभविष्यं सहोत्तरम् । कृतवान्प्रचेतसः पुत्रस्तद्ब्रह्माप्यन्वमन्यत ।। 7.111.10 ।।
अश्वमेधसहस्रस्य वाजपेयायुतस्य च । लभते श्रावणादेव सर्गस्यैकस्य मानवः ।। 7.111.11 ।।
प्रयागादीनि तीर्थानि गङ्गाद्याः सरितस्तथा । नैमिशादीन्यरण्यानि कुरुक्षेत्रादिकान्यपि । गतानि तेन लोक...
हेमभारं कुरुक्षेत्रे ग्रस्ते भानौ प्रयच्छति । यश्च रामायणं लोके शृणोति सदृशावुभौ ।। 7.111.13 ।।
सम्यक्छ्रद्धासमायुक्तः शृणुते राघवीं कथाम् । सर्वपापात्प्रमुच्येत विष्णुलोकं स गच्छति ।। 7.111.14 ।।
आदिकाव्यमिदं त्वार्षं पुरा वाल्मीकिना कृतम् । यः शृणोति सदा भक्त्या स गच्छेद्वैष्णवीं तनुम् ।। 7.111...
पुत्रदाराश्च वर्धन्ते सम्पदः सन्ततिस्तथा । सत्यमेतद्विदित्वा तु श्रोतव्यं नियतात्मभिः ।। 7.111.16 ।।
गायत्र्याश्च स्वरूपं तद्रामायणमनुत्तमम् ।। 7.111.17 ।।
अपुत्रो लभते पुत्रमधनो लभते धनम् । सर्वपापैः प्रमुच्येत पदमप्यस्य यः पठेत् ।। 7.111.18 ।।
यः पठेच्छृणुयान्नित्यं चरितं राघवस्य ह । भक्त्या निष्कल्मषो भूत्वा दीर्घमायुरवाप्नुयात् ।। 7.111.19 ...
चिन्तयेद्राघवं नित्यं श्रेयः प्राप्तुं य इच्छति । श्रावयेदिदमाख्यानं ब्राह्मणेभ्यो दिने दिने ।। 7.11...
यस्त्विदं रघुनाथस्य चरितं सकलं पठेत् । सो ऽसुक्षये विष्णुलोकं गच्छत्येव न संशयः ।। 7.111.21 ।।
पिता पितामहस्तस्य तथैव प्रपितामहः । तत्पिता तत्पिता चैव विष्णुं यान्ति न संशयः ।। 7.111.22 ।।
चतुर्वर्गप्रदं नित्यं चरितं राघवस्य तु । तस्माद्यत्नवता नित्यं श्रोतव्यं परमं सदा ।। 7.111.23 ।।
शृण्वन्रामायणं भक्त्या यः पादं पदमेव वा । स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा ।। 7.111.24 ।।
एवमेतत्पुरावृत्तमाख्यानं भद्रमस्तु वः । प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् ।। 7.111.25 ।।
इत्यार्षे श्रीमद्रामायणे श्रीमद्वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां श्रीमदुत्तरकाण...
।। इत्युत्तरकाण्डः समाप्तः ।।
।। इत्यार्षे श्रीमद्वाल्मीकीये आदिकाव्ये श्रीमद्रामायणं सम्पूर्णम् ।।
।। श्रीसीतारामचन्द्रार्पणमस्तु ।।