Chapter 566
Sarga 29
ततस्तमसि सञ्जाते सर्वे ते देवराक्षसाः । अयुद्ध्यन्त बलोन्मत्ताः सूदयन्तः परस्परम् ।। 7.29.1 ।।
ततस्तु देवसैन्येन राक्षसानां बृहद्बलम् । दशांशं स्थापितं युद्धे शेषं नीतं यमक्षयम् ।। 7.29.2 ।।
तस्मिंस्तु तामसे युद्धे सर्वे ते देवराक्षसाः । अन्योन्यं नाभ्यजानन्त युध्यमानाः परस्परम् ।। 7.29.3 ।...
इन्द्रश्च रावणश्चैव रावणिश्च महाबलः । तस्मिंस्तमोजालवृते मोहमीयुर्न ते त्रयः ।। 7.29.4 ।।
स तु दृष्ट्वा बलं सर्वं रावणो निहतं क्षणात् । क्रोधमभ्यगमत्तीव्रं महानादं च मुक्तवान् ।। 7.29.5 ।।
क्रोधात्सूतं च दुर्धर्षः स्यन्दनस्थमुवाच ह । परसैन्यस्य मध्येन यावदन्तो नयस्व माम् ।। 7.29.6 ।।
अद्यैतान् त्रिदशान्सर्वान्विक्रमैः समरे स्वयम् । नानाशस्त्रैर्महाघोरैर्नयामि यमसादनम् ।। 7.29.7 ।।
अहमिन्द्रं वधिष्यामि धनदं वरुणं यमम् । त्रिदशान्विनिहत्याथ स्वयं स्थास्याम्यथोपरि । विषादो न च कर्तव...
द्विः खलु त्वां ब्रवीम्यद्य यावदन्तो नयस्व माम् ।। 7.29.9 ।।
अयं स नन्दनोद्देशो यत्र वर्तामहे वयम् । नय मामद्य तत्र त्वमुदयो यत्र पर्वतः ।। 7.29.10 ।।
तस्य तद्वचनं श्रुत्वा तुरगान्स मनोजवान् । आदिदेशाथ शत्रणां मध्येनैव च सारथिः ।। 7.29.11 ।।
तस्य तं निश्चयं ज्ञात्वा शक्रो देवेश्वरस्तदा । रथस्थः समरस्थस्तान्देवान्वाक्यमथाब्रवीत् ।। 7.29.12 ।...
सुराः शृणुत मद्वाक्यं यत्तावन्मम रोचते । जीवन्नेव दशग्रीवः साधु रक्षो निगृह्यताम् ।। 7.29.13 ।।
एष ह्यतिबलः सैन्यै रथेन पवनौजसा । गमिष्यति प्रवृद्धोर्मिः समुद्र इव पर्वणि ।। 7.29.14 ।।
नह्येष हन्तुं शक्यो ऽद्य वरदानात्सुनिर्भयः । तद्ग्रहीष्यामहे रक्षो यत्ता भवत संयुगे ।। 7.29.15 ।।
यथा बलौ निरुद्धे च त्रैलोक्यं भुज्यते मया । एवमेतस्य पापस्य निरोधो मम रोचते ।। 7.29.16 ।।
ततो ऽन्यं देशमास्थाय शक्रः सन्त्यज्य रावणम् । अयुध्यत महाराज राक्षसांस्त्रासयन्रणे ।। 7.29.17 ।।
उत्तरेण दशग्रीवः प्रविवेशानिवर्तकः । दक्षिणेन तु पार्श्वेन प्रविवेश शतक्रतुः ।। 7.29.18 ।।
ततः स योजनशतं प्रविष्टो राक्षसाधिपः । देवतानां बलं सर्वं शरवर्षैरवाकिरत् ।। 7.29.19 ।।
ततः शक्रो निरीक्ष्याथ प्रनष्टं तु स्वकं बलम् । न्यवर्तयदसम्भ्रान्तः समावृत्य दशाननम् ।। 7.29.20 ।।
एतस्मिन्नन्तरे नादो मुक्तो दानवराक्षसैः । हा हताः स्म इति ग्रस्तं दृष्ट्वा शक्रेण रावणम् ।। 7.29.21 ...
ततो रथं समास्थाय रावणिः क्रोधमूर्च्छितः । तत्सैन्यमतिसङ्क्रुद्धः प्रविवेश सुदारुणम् ।। 7.29.22 ।।
तां प्रविश्य महामायां प्राप्तां गोपतिना पुरा । प्रविवेश सुसंरब्धस्तत्सैन्यं समभिद्रवत् ।। 7.29.23 ।।
स सर्वा देवतास्त्यक्त्वा शक्रमेवाभ्यधावत । महेन्द्रश्च महातेजा नापश्यच्च सुतं रिपोः ।। 7.29.24 ।।
विमुक्तकवचस्तत्र वध्यमानो ऽपि रावणिः । त्रिदशैः सुमहावीर्यैर्न चकार च किञ्चन ।। 7.29.25 ।।
स मातलिं समायान्तं ताडयित्वा शरोत्तमैः । महेन्द्रं बाणवर्षेण भूय एवाभ्यवाकिरत् ।। 7.29.26 ।।
ततस्त्यक्त्वा रथं शक्रो विससर्ज च सारथिम् । ऐरावतं समारुह्य मृगयामास रावणिम् ।। 7.29.27 ।।
स तत्र मायाबलवानदृश्यो ऽथान्तरिक्षगः । इन्द्रं मायापरिक्षिप्तं कृत्वा स प्राद्रवच्छरैः ।। 7.29.28 ।।
स तं यदा परिश्रान्तमिन्द्रं जज्ञे ऽथ रावणिः । तदैनं मायया बद्ध्वा स्वसैन्यमभितो ऽनयत् ।। 7.29.29 ।।
तं तु दृष्ट्वा बलात्तेन नीयमानं महारणात् । महेन्द्रममराः सर्वे किं नु स्यादित्यचिन्तयन् ।। 7.29.30 ।...
दृश्यते न स मायावी शक्रजित्समितिञ्जयः । विद्यावानपि येनेन्द्रो मायया नीयते बलात् ।। 7.29.31 ।।
एतस्मिन्नन्तरे क्रुद्धाः सर्वे सुरगणास्तदा । रावणं विमुखीकृत्य शरवर्षैरवाकिरन् ।। 7.29.32 ।।
रावणस्तु समासाद्य आदित्यांश्च वसूंस्तदा । न शशाक स सङ्ग्रामे योद्धुं शत्रुभिरर्दितः ।। 7.29.33 ।।
स तं दृष्ट्वा परिम्लानं प्रहारैर्जर्जरीकृतम् । रावणिः पितरं युद्धे दर्शनस्थो ऽब्रवीदिदम् ।। 7.29.34 ...
आगच्छ तात गच्छामो रणकर्म निवर्तताम् । जितं नो विदितं ते ऽस्तु स्वस्थो भव गतज्वरः ।। 7.29.35 ।।
अयं हि सुरसैन्यस्य त्रैलोक्यस्य च यः प्रभुः । स गृहीतो दैवबलाद्भग्नदर्पाः सुराः कृताः ।। 7.29.36 ।।
यथेष्टं भुङ्क्ष्व लोकांस्त्रीन्निगृह्यारातिमोजसा । वृथा किं ते श्रमेणेह युद्धमद्य तु निष्फलम् ।। 7.2...
ततस्ते दैवतगणा निवृत्ता रणकर्मणः । तच्छ्रुत्वा रावणेर्वाक्यं स्वस्थचेताः बभूव ह ।। 7.29.38 ।।
अथ स रणविगतज्वरः प्रभुर्विजयमवाप्य निशाचराधिपः । स्वभवनमभितो जगाम हृष्टः स्वसुतमवाप्य च वाक्यमब्रवीत...
अतिबलसदृशैः पराक्रमैस्तैर्मम कुलमानविवर्धनं कृतम् । यदयमतुल्यबलस्त्वयाद्य वै त्रिदशपतिस्त्रिदशाश्च न...
नय रथमधिरोप्य वासवं नगरमितो व्रज सेनया वृतस्त्वम् । अहमपि तव गच्छतो द्रुतं सह सचिवैरनुयामि पृष्ठतः ।...
अथ स बलवृतः सवाहनस्त्रिदशपतिं परिगृह्य रावणिः । स्वभवनमभिगम्य वीर्यवान्कृतसमरान्विससर्ज राक्षसान् ।।...