arrow_back All Chapters

Chapter 567

Sarga 30

VERSE 567.1

जिते महेन्द्रे ऽतिबले रावणस्य सुतेन वै । प्रजापतिं पुरस्कृत्य ययुर्लङ्कां सुरास्तदा ।। 7.30.1 ।।

READ MEANING arrow_forward
VERSE 567.2

तत्र रावणमासाद्य पुत्रभ्रातृभिरावृतम् । अब्रवीद्गगने तिष्ठन्सामपूर्वं प्रजापतिः ।। 7.30.2 ।।

READ MEANING arrow_forward
VERSE 567.3

वत्स रावण तुष्टो ऽस्मि पुत्रस्य तव संयुगे । अहो ऽस्य विक्रमौदार्यं तव तुल्यो ऽधिको ऽपि वा ।। 7.30.3 ...

READ MEANING arrow_forward
VERSE 567.4

जितं हि भवता सर्वं त्रैलोक्यं स्वेन तेजसा । कृता प्रतिज्ञा सफला प्रीतो ऽस्मि स्वसुतेन वै ।। 7.30.4 ।...

READ MEANING arrow_forward
VERSE 567.5

अयं च पुत्रो ऽतिबलस्तव रावण वीर्यवान् । जगतीन्द्रजिदित्येव परिख्यातो भविष्यति ।। 7.30.5 ।।

READ MEANING arrow_forward
VERSE 567.6

बलवान्दुर्जयश्चैव भविष्यत्येव राक्षसः । यं समाश्रित्य ते राजन्स्थापितास्त्रिदशा वशे ।। 7.30.6 ।।

READ MEANING arrow_forward
VERSE 567.7

तन्मुच्यतां महाबाहो महेन्द्रः पाकशासनः । किञ्चास्य मोक्षणार्थाय प्रयच्छन्तु दिवौकसः ।। 7.30.7 ।।

READ MEANING arrow_forward
VERSE 567.8

अथाब्रवीन्महातेजा इन्द्रजित्समितिञ्जयः । अमरत्वमहं देव वृणे यद्येष मुच्यते ।। 7.30.8 ।।

READ MEANING arrow_forward
VERSE 567.9

चतुष्पदां खेचराणामन्येषां वा महौजसाम् । वृक्षगुल्मक्षुपलतातृणोपलमहीभृताम् ।। 7.30.9 ।।

READ MEANING arrow_forward
VERSE 567.10

सर्वे ऽपि जन्तवो ऽन्योन्यं भेतव्ये सति बिभ्यति । अतो ऽत्र लोके सर्वेषां सर्वस्माच्च भवेद्भयम् ।। 7.3...

READ MEANING arrow_forward
VERSE 567.11

ततो ऽब्रवीन्महातेजा मेघनादं प्रजापतिः । नास्ति सर्वामरत्वं हि कस्यचित्प्राणिनो भुवि । चतुष्पदः पक्षि...

READ MEANING arrow_forward
VERSE 567.12

श्रुत्वा पितामहेनोक्तमिन्द्रजित्प्रभुणाव्ययम् ।। 7.30.12 ।।

READ MEANING arrow_forward
VERSE 567.13

्वं हि कस्यचित्प्राणिनो भुवि । अथाब्रवीत्स तत्रस्थं मेघनादो महाबलः । श्रूयतां वा भवेत्सिद्धिः शतक्रत...

READ MEANING arrow_forward
VERSE 567.14

ममेष्टं नित्यशो हर्व्यैर्मन्त्रैः सम्पूज्य पावकम् । सङ्ग्राममवतर्त्तुं च शत्रुनिर्जयकाङ्क्षिणः ।। 7....

READ MEANING arrow_forward
VERSE 567.15

अश्वयुक्तो रथो मह्यमुत्तिष्ठेत्तु विभावसोः । तत्स्थस्यामरता स्यान्मे एष मे निश्चयो वरः ।। 7.30.15 ।।

READ MEANING arrow_forward
VERSE 567.16

तस्मिन्यद्यसमाप्ते च जप्यहोमे विभावसौ । युध्येयं देव सङ्ग्रामे तदा मे स्याद्विनाशनम् ।। 7.30.16 ।।

READ MEANING arrow_forward
VERSE 567.17

सर्वो हि तपसा देव वृणोत्यमरतां पुमान् । विक्रमेण मया त्वेतदमरत्वं प्रवर्तितम् ।। 7.30.17 ।।

READ MEANING arrow_forward
VERSE 567.18

एवमस्त्विति तं चाह वाक्यं देवः पितामहः । मुक्तश्चेन्द्रजिता शक्रो गताश्च त्रिदिवं सुराः ।। 7.30.18 ।...

READ MEANING arrow_forward
VERSE 567.19

एतस्मिन्नन्तरे राम दीनो भ्रष्टाम्बरद्युतिः । इन्द्रश्चिन्तापरीतात्मा ध्यानतत्परतां गतः ।। 7.30.19 ।।

READ MEANING arrow_forward
VERSE 567.20

तं तु दृष्ट्वा तथाभूतं प्राह देवः प्रजापतिः । शतक्रतो किमु पुरा करोति स्म सुदुष्कृतम् ।। 7.30.20 ।।

READ MEANING arrow_forward
VERSE 567.21

अमरेन्द्र मया बह्व्यः प्रजाः सृष्टास्तथा प्रभो । एकवर्णाः समाभाषा एकरूपाश्च सर्वशः ।। 7.30.21 ।।

READ MEANING arrow_forward
VERSE 567.22

तासां नास्ति विशेषो हि दर्शने लक्षणे ऽपि वा । ततो ऽहमेकाग्रमनास्ताः प्रजाः परिचिन्तयम् ।। 7.30.22 ।।

READ MEANING arrow_forward
VERSE 567.23

सो ऽहं तासां विशेषार्थं स्त्रियमेकां विनिर्ममे । यद्यत्प्रजानां प्रत्यङ्गं विशिष्टं तत्तदुद्धृतम् ।।...

READ MEANING arrow_forward
VERSE 567.24

ततो मया रूपगुणैरहल्या स्त्री विनिर्मिता । हलं नामेह वैरूपं हल्यं तत्प्रभवं भवेत् ।। 7.30.24 ।।

READ MEANING arrow_forward
VERSE 567.25

यस्मान्न विद्यते हल्यं तेनाहल्येति विश्रुता । अहल्येति मया शक्र तस्या नाम प्रवर्तितम् ।। 7.30.25 ।।

READ MEANING arrow_forward
VERSE 567.26

निर्मितायां च देवेन्द्र तस्यां नार्यां सुरर्षभ । भविष्यतीति कस्यैषा मम चिन्ता ततो ऽभवत् ।। 7.30.26 ।...

READ MEANING arrow_forward
VERSE 567.27

त्वं तु शक्र तदा नारीं जानीषे मनसा प्रभो । स्थानाधिकतया पत्नी ममैषेति पुरन्दर ।। 7.30.27 ।।

READ MEANING arrow_forward
VERSE 567.28

सा मया न्यासभूता तु गौतमस्य महात्मनः । न्यस्ता बहूनि वर्षाणि तेन निर्यातिता च ह ।। 7.30.28 ।।

READ MEANING arrow_forward
VERSE 567.29

ततस्तस्य परिज्ञाय महास्थैर्यं महामुनेः । ज्ञात्वा तपसि सिद्धिं च पत्न्यर्थं स्पर्शिता तदा ।। 7.30.29...

READ MEANING arrow_forward
VERSE 567.30

सङ्क्रुद्धस्त्वं हि धर्मात्मन् गत्वा तस्याश्रमं मुनेः । दृष्टवांश्च तदा तां स्त्रीं दीप्तामग्निशिखाम...

READ MEANING arrow_forward
VERSE 567.31

सा त्वया धर्षिता शक्र कामार्तेन समन्युना । दृष्टस्त्वं च तदा तेन ह्याश्रमे परमर्षिणा ।। 7.30.31 ।।

READ MEANING arrow_forward
VERSE 567.32

ततः क्रुद्धेन तेना ऽसि शप्तः परमतेजसा । गतो ऽसि येन देवेन्द्र दशाभागविपर्ययम् ।। 7.30.32 ।।

READ MEANING arrow_forward
VERSE 567.33

यस्मान्मे धर्षिता पत्नी त्वया वासव निर्भयम् । तस्मात्त्वं समरे राजञ्छत्रुहस्तं गमिष्यसि ।। 7.30.33 ।...

READ MEANING arrow_forward
VERSE 567.34

अयं तु भावो दुर्बुद्धे यस्त्वयेह प्रवर्तितः । मानुषेष्वपि लोकेषु भविष्यति न संशयः ।। 7.30.34 ।।

READ MEANING arrow_forward
VERSE 567.35

तत्रार्धं तस्य यः कर्ता त्वय्यर्धं निपतिष्यति । न च ते स्थावरं स्थानं भविष्यति न संशयः ।। 7.30.35 ।।

READ MEANING arrow_forward
VERSE 567.36

यश्च यश्च सुरेन्द्रः स्याद्ध्रुवः स न भविष्यति । एष शापो मया मुक्त इत्यसौ त्वां तदा ऽब्रवीत् ।। 7.30...

READ MEANING arrow_forward
VERSE 567.37

तां तु भार्यां स निर्भर्त्स्य सो ऽब्रवीत्सुमहातपाः । दुर्विनीते विनिध्वंस ममाश्रमसमीपतः ।। 7.30.37 ।...

READ MEANING arrow_forward
VERSE 567.38

रूपयौवनसम्पन्ना यस्मात्त्वमनवस्थिता । तस्माद्रूपवती लोके न त्वमेका भविष्यति ।। 7.30.38 ।।

READ MEANING arrow_forward
VERSE 567.39

रूपं च ते प्रजाः सर्वा गमिष्यन्ति न संशयः । यत्तदेकं समाश्रित्य विभ्रमो ऽयमुपस्थितः ।। 7.30.39 ।।

READ MEANING arrow_forward
VERSE 567.40

तदाप्रभृति भूयिष्ठं प्रजा रूपसमन्विताः । सा तं प्रसादयामास महर्षिं गौतमं तदा ।। 7.30.40 ।।

READ MEANING arrow_forward
VERSE 567.41

अज्ञानाद्धर्षिता विप्र त्वद्रूपेण दिवौकसा । न कामकाराद्विप्रर्षे प्रसादं कर्तुमर्हसि ।। 7.30.41 ।।

READ MEANING arrow_forward
VERSE 567.42

अहल्यया त्वेवमुक्तः प्रत्युवाच स गौतमः । उत्पत्स्यति महातेजा इक्ष्वाकूणां महारथः ।। 7.30.42 ।।

READ MEANING arrow_forward
VERSE 567.43

रामो नाम श्रुतो लोके वनं चाप्युपयास्यति । ब्राह्मणार्थे महाबाहुर्विष्णुर्मानुषविग्रहः । तं द्रक्ष्यस...

READ MEANING arrow_forward
VERSE 567.44

स हि पावयितुं शक्तस्त्वया यद्दुष्कृतं कृतम् । तस्यातिथ्यं च कृत्वा वै मत्समीपं गमिष्यसि ।। 7.30.44 ।...

READ MEANING arrow_forward
VERSE 567.45

वत्स्यसि त्वं मया सार्धं तदा हि वरवर्णिनि । एवमुक्त्वा स विप्रर्षिराजगाम स्वमाश्रमम् ।। 7.30.45 ।।

READ MEANING arrow_forward
VERSE 567.46

तपश्चाचार सुमहत्सा पत्नी ब्रह्मवादिनः । शापोत्सर्गाद्धि तस्येदं मुनेः सर्वमुपस्थितम् ।। 7.30.46 ।।

READ MEANING arrow_forward
VERSE 567.47

तत्स्मर त्वं महाबाहो दुष्कृतं यत्त्वया कृतम् । तेन त्वं ग्रहणं शत्रोर्यातो नान्येन वासव ।। 7.30.47 ।...

READ MEANING arrow_forward
VERSE 567.48

शीघ्रं वै यज यज्ञं त्वं वैष्णवं सुसमाहितः । पावितस्तेन यज्ञेन यास्यसे त्रिदिवं ततः ।। 7.30.48 ।।

READ MEANING arrow_forward
VERSE 567.49

पुत्रश्च तव देवेन्द्र न विनष्टो महारणे । नीतः सन्निहितश्चैव आर्यकेण महोदधौ ।। 7.30.49 ।।

READ MEANING arrow_forward
VERSE 567.50

एतच्छ्रुत्वा महेन्द्रस्तु यज्ञमिष्ट्वा च वैष्णवम् । पुनस्त्रिदिवमाक्रामदन्वशासच्च देवराट् ।। 7.30.50...

READ MEANING arrow_forward
VERSE 567.51

एतदिन्द्रजितो नाम बलं यत्कीर्तितं मया । निर्जितस्तेन देवेन्द्रः प्राणिनो ऽन्ये तु किं पुनः ।। 7.30.5...

READ MEANING arrow_forward
VERSE 567.52

आश्चर्यमिति रामश्च लक्ष्मणश्चाब्रवीत्तदा । अगस्त्यवचनं श्रुत्वा वानरा राक्षसास्तदा ।। 7.30.52 ।।

READ MEANING arrow_forward
VERSE 567.53

विभीषणस्तु रामस्य पार्श्वस्थो वाक्यमब्रवीत् । आश्चर्यं स्मारितो ऽस्म्यद्य यत्तद्दृष्टं पुरातनम् ।। 7...

READ MEANING arrow_forward
VERSE 567.54

अगस्त्यं त्वब्रवीद्रामः सत्यमेतच्छ्रुतं च मे ।। 7.30.54 ।।

READ MEANING arrow_forward
VERSE 567.55

एवं राम समुद्भूतो रावणो लोककण्टकः । सपुत्रो येन सङ्ग्रामे जितः शक्रः सुरेश्वरः ।। 7.30.55 ।।

READ MEANING arrow_forward
VERSE 567.56

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रिंशः सर्गः ।। 30 ।।

READ MEANING arrow_forward
arrow_back Previous Chapter Next Chapter 568 arrow_forward