Chapter 568
Sarga 31
ततो रामो महातेजा विस्मयात्पुनरेव हि । उवाच प्रणतो वाक्यमगस्त्यमृषिसत्तमम् ।। 7.31.1 ।।
भगवन्राक्षसः क्रूरो यदाप्रभृति मेदिनीम् । पर्यटत्किं तदा लोकाः शून्या आसन्द्विजोत्तम ।। 7.31.2 ।।
राजा वा राजमात्रो वा किं तदा नात्र कश्चन । धर्षणं यत्र न प्राप्तो रावणो राक्षसेश्वरः ।। 7.31.3 ।।
उताहो हतवीर्यास्ते बभूवुः पृथिवीक्षितः । बहिष्कृता वरास्त्रैश्च बहवो निर्जिता नृपाः ।। 7.31.4 ।।
राघवस्य वचः श्रुत्वा ह्यगस्त्यो भगवानृषिः । उवाच रामं प्रहसन्पितामह इवेश्वरम् ।। 7.31.5 ।।
इत्येवं बाधमानस्तु पार्थिवान्पार्थिवर्षभ । चचार रावणो राम पृथिवीं पृथिवीपते ।। 7.31.6 ।।
ततो माहिष्मतीं नाम पुरीं स्वर्गपुरीप्रभाम् । सम्प्राप्तो यत्र सान्निध्यं सदासीद्वसुरेतसः ।। 7.31.7 ।...
तुल्य आसीन्नृपस्तस्य प्रभावाद्वसुरेतसः । अर्जुनो नाम यत्राग्निः शरकुण्डेशयः सदा ।। 7.31.8 ।।
तमेव दिवसं सो ऽथ हैहयाधिपतिर्बली । अर्जुनो नर्मदां रन्तुं गतः स्त्रीभिः सहेश्वरः ।। 7.31.9 ।।
तमेव दिवसं सो ऽथ रावणस्तत्र आगतः । रावणो राक्षसेन्द्रस्तु तस्यामात्यानपृच्छत ।। 7.31.10 ।।
क्वार्जुनो नृपतिः शीघ्रं सम्यगाख्यातुमर्हथ । रावणो ऽहमनुप्राप्तो युद्धेप्सुर्नृवरेण ह । ममागमनमप्यग्...
इत्येवं रावणेनोक्तास्ते ऽमात्याः सुविपश्चितः । अब्रुवन्राक्षसपतिमसान्निध्यं महीपतेः ।। 7.31.12 ।।
श्रुत्वा विश्रवसः पुत्रः पौराणामर्जुनं गतम् । अपसृत्यागतो विन्ध्यं हिमवत्सन्निभं गिरिम् ।। 7.31.13 ।...
स तमभ्रमिवाविष्टमुद्भ्रन्तमिव मेदिनीम् । अपश्यद्रावणो विन्ध्यमालिखन्तमिवाम्बरम् ।। 7.31.14 ।।
सहस्रशिखरोपेतं सिंहाध्युषितकन्दरम् । प्रपातपतितैस्तोयैः साट्टहासमिवाम्बुधिम् ।। 7.31.15 ।।
देवदानवगन्धर्वैः साप्सरोगणकिन्नरैः । स्वस्त्रीभिः क्रीडमानैश्च स्वर्गभूतं महोच्छ्रयम् ।। 7.31.16 ।।
नदीभिः स्यन्दमानाभिः स्फटिकप्रतिमं जलम् । फणाभिश्चलजिह्वाभिरनन्तमिव विष्ठितम् ।। 7.31.17 ।।
उत्क्रामन्तं दरीवन्तं हिमवत्सन्निभं गिरिम् । पश्यमानस्ततो विन्ध्यं रावणो नर्मदां ययौ ।। 7.31.18 ।।
चलोपलजलां पुण्यां पश्चिमोदधिगामिनीम् ।। 7.31.19 ।।
महिषैः सृमरैः सिंहैः शार्दूलर्क्षगजोत्तमैः । उष्णाभितप्तैस्तृषितैः सङ्क्षोभितजलाशयाम् ।। 7.31.20 ।।
चक्रवाकैः सकारण्डैः सहंसजलकुक्कुटैः । सारसैश्च सदा मत्तैः सुकूजद्भिः समावृताम् ।। 7.31.21 ।।
फुल्लद्रुमकृतोत्तंसां चक्रवाकयुगस्तनीम् । विस्तीर्णपुलिनश्रोणीं हंसावलिसुमेखलाम् ।। 7.31.22 ।।
पुष्परेण्वनुलिप्ताङ्गीं जलफेनामलांशुकाम् । जलावगाहसंस्पर्शां फुल्लोत्पलशुभेक्षणाम् । पुष्पकादवरुह्या...
इष्टामिव वरां नारीमवगाह्य दशाननः । स तस्याः पुलिने रम्ये नानामुनिनिषेविते ।। 7.31.24 ।।
उपोपविष्टैः सचिवैः सार्धं राक्षसपुङ्गवः । प्रख्याय नर्मदां सो ऽथ गङ्गेयमिति रावणः ।। 7.31.25 ।।
नर्मदादर्शजं हर्षमाप्तवान् राक्षसाधिपः । उवाच सचिवांस्तत्र सलीलं शुकसारणौ ।। 7.31.26 ।।
एष रश्मिसहस्रेण जगत्कृत्वैव काञ्चनम् । तीक्ष्णतापकरः सूर्यो नभसो ऽर्धं समाश्रितः ।। 7.31.27 ।।
मामासीनं विदित्वैव चन्द्रायति दिवाकरः ।। 7.31.28 ।।
नर्मदाजलशीतश्च सुगन्धिः श्रमनाशनः । मद्भयादनिलो ऽप्यत्र वात्येष सुसमाहितः ।। 7.31.29 ।।
इयं वापि सरिच्छ्रेष्ठा नर्मदा नर्मवर्धिनी । नक्रमीनविहङ्गोर्मिः सभयेवाङ्गना स्थिता ।। 7.31.30 ।।
तद्भवन्तः क्षताः शस्त्रैर्नृपैरिन्द्रसमैर्युधि । चन्दनस्य रसेनेव रुधिरेण समुक्षिताः ।। 7.31.31 ।।
ते यूयमवगाहध्वं नर्मदां शर्मदां शुभाम् । महापद्ममुखा मत्ता गङ्गामिव गहागजाः । अस्यां स्नात्वा महानद्...
अहमप्यद्य पुलिने शरदिन्दुसमप्रभे । पुष्पोपहारं शनकैः करिष्यामि कपर्दिनः ।। 7.31.33 ।।
रावणेनैवमुक्तास्तु प्रहस्तशुकसारणाः । समहोदरधूम्राक्षा नर्मदां विजगाहिरे ।। 7.31.34 ।।
राक्षसेन्द्रगजैस्तैस्तु क्षोभिता नर्मदा नदी । वामनाञ्जनपद्माद्यैर्गङ्गा इव महागजैः ।। 7.31.35 ।।
ततस्ते राक्षसाः स्नात्वा नर्मदायां महाबलाः । उत्तीर्य पुष्पाण्याजह्रुर्बल्यर्थं रावणस्य तु ।। 7.31.3...
नर्मदापुलिने हृद्ये शुभ्राभ्रसदृशप्रभे । राक्षसैस्तु मुहूर्तेन कृतः पुष्पमयो गिरिः ।। 7.31.37 ।।
पुष्पेषूपहृतेष्वेवं रावणो राक्षसेश्वरः । अवतीर्णो नदीं स्नातुं गङ्गामिव महागजः ।। 7.31.38 ।।
तत्र स्नात्वा च विधिवज्जप्त्वा जप्यमनुत्तमम् । नर्मदासलिलात्तस्मादुत्ततार स रावणः ।। 7.31.39 ।।
ततः क्लिन्नाम्बरं त्यक्त्वा शुक्लवस्त्रसमावृतम् । रावणं प्राञ्जलिं यान्तमन्वयुः सर्वराक्षसाः ।। 7.31...
तद्गतीवशमापन्ना मूर्तिमन्त इवाचलाः । यत्र यत्र च याति स्म रावणो राक्षसेश्वरः । जाम्बूनदमयं लिङ्गं तत...
वालुकावेदिमध्ये तु तल्लिङ्गं स्थाप्य रावणः । अर्चयामास गन्धैश्च पुष्पैश्चामृतगन्धिभिः ।। 7.31.42 ।।
ततः सतामार्तिहरं परं वरं वरप्रदं चन्द्रमयूखभूषणम् । समर्चयित्वा स निशाचरो जगौ प्रसार्य हस्तान्प्रणनर...
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकत्रिंशः सर्गः ।। 31 ।।