arrow_back All Chapters

Chapter 573

Sarga 36

VERSE 573.1

ततः पितामहं दृष्ट्वा वायुः पुत्रवधार्दितः । शिशुकं तं समादाय उत्तस्थौ धातुरग्रतः ।। 7.36.1 ।।

READ MEANING arrow_forward
VERSE 573.2

चलकुण्डलमौलिस्रक्तपनीयविभूषणः । पादयोर्न्यपतद्वायुस्तिस्रोपस्थाय वेधसे ।। 7.36.2 ।।

READ MEANING arrow_forward
VERSE 573.3

तं तु वेदविदा तेन लम्बाभरणशोभिना । वायुमुत्थाप्य हस्तेन शिशुं तं परिमृष्टवान् ।। 7.36.3 ।।

READ MEANING arrow_forward
VERSE 573.4

स्पृष्टमात्रस्ततः सो ऽथ सलीलं पद्मयोनिना । जलसिक्तं यथा सस्यं पुनर्जीवितमाप्तवान् ।। 7.36.4 ।।

READ MEANING arrow_forward
VERSE 573.5

प्राणवन्तमिमं दृष्ट्वा प्राणो गन्धवहो मुदा । चचार सर्वभूतेषु सन्निरुद्धं यथा पुरा ।। 7.36.5 ।।

READ MEANING arrow_forward
VERSE 573.6

मरुद्रोधाद्विनिर्मुक्तास्ताः प्रजा मुदिता ऽभवन् । शीतदाहविनिर्मुक्ताः पद्मिन्य इव साम्बुजाः ।। 7.36....

READ MEANING arrow_forward
VERSE 573.7

ततस्त्रियुग्मस्त्रिककुत्ऺित्रधामा त्रिदशार्चितः । उवाच देवता ब्रह्मा मारुतप्रियकाम्यया ।। 7.36.7 ।।

READ MEANING arrow_forward
VERSE 573.8

भो महेन्द्रेशवरुणप्रजेश्वरधनेश्वराः । जानतामपि वः सर्वं वक्ष्यामि श्रूयतां हितम् ।। 7.36.8 ।।

READ MEANING arrow_forward
VERSE 573.9

अनेन शिशुना कार्यं कर्तव्यं वो भविष्यति । तद्वदध्वं वरान्सर्वे मारुतस्यास्य तुष्टये ।। 7.36.9 ।।

READ MEANING arrow_forward
VERSE 573.10

ततः सहस्रनयनः प्रीतियुक्तः शुभाननः । कुशेशयमयीं मालामुत्क्षिप्येदं वचो ऽब्रवीत् ।। 7.36.10 ।।

READ MEANING arrow_forward
VERSE 573.11

मत्करोत्सृष्टवज्रेण हनुरस्य यथा हतः । नाम्ना वै कपिशार्दूलो भविता हनुमानिति ।। 7.36.11 ।।

READ MEANING arrow_forward
VERSE 573.12

अहमस्य प्रदास्यामि परमं वरमद्भुतम् । इतः प्रभृति वज्रस्य ममावध्यो भविष्यति ।। 7.36.12 ।।

READ MEANING arrow_forward
VERSE 573.13

मार्तण्डस्त्वब्रवीत्तत्र भगवांस्तिमिरापहः । तेजसो ऽस्य मदीयस्य ददामि शतिकां कलाम् ।। 7.36.13 ।।

READ MEANING arrow_forward
VERSE 573.14

यदा तु शास्त्राण्यध्येतुं शक्तिरस्य भविष्यति । तदास्य शास्त्रं दास्यामि येन वाग्ग्मी भविष्यति ।। 7.3...

READ MEANING arrow_forward
VERSE 573.15

नचास्य भविता कश्चित्सदृशः शास्त्रदर्शने । वरुणश्च वरं प्रादान्नास्य मृत्युर्भविष्यति । वर्षायुतशतेना...

READ MEANING arrow_forward
VERSE 573.16

यमो दण्डादवध्यत्वमरोगत्वं च नित्यशः । वरं ददामि सन्तुष्ट अविषादं च संयुगे ।। 7.36.16 ।।

READ MEANING arrow_forward
VERSE 573.17

गदेयं मामिका नैनं संयुगेषु वधिष्यति । इत्येवं वरदः प्राह तदा ह्येकाक्षिपिङ्गलः ।। 7.36.17 ।।

READ MEANING arrow_forward
VERSE 573.18

मत्तो मदायुधानां च न वध्यो ऽयं भविष्यति । इत्येवं शङ्करेणापि दत्तो ऽस्य परमो वरः ।। 7.36.18 ।।

READ MEANING arrow_forward
VERSE 573.19

सर्वेषां ब्रह्मदण्डानामवध्यो ऽयं भविष्यति । दीर्घायुश्च महात्मा च इति ब्रह्माब्रवीद्वचः ।। 7.36.19 ।...

READ MEANING arrow_forward
VERSE 573.20

विश्वकर्मा च दृष्ट्वैनं बालसूर्योपमं शिशुम् । शिल्पिनां प्रवरः प्रादाद्वरमस्य महामतिः ।। 7.36.20 ।।

READ MEANING arrow_forward
VERSE 573.21

मत्कृतानि च शस्त्राणि यानि दिव्यानि संयुगे । तैरवध्यत्वमापन्नश्चिरजीवी भविष्यति ।। 7.36.21 ।।

READ MEANING arrow_forward
VERSE 573.22

ततः सुराणां तु वरैर्दृष्ट्वा ह्येनमलङ्कृतम् । चतुर्मुखस्तुष्टमना वायुमाह जगद्गुरुः ।। 7.36.22 ।।

READ MEANING arrow_forward
VERSE 573.23

अमित्राणां भयकरो मित्राणामभयङ्करः । अजेयो भविता पुत्रस्तव मारुत मारुतिः ।। 7.36.23 ।।

READ MEANING arrow_forward
VERSE 573.24

कामरूपः कामचारी कामगः प्लवतां वरः । भवत्यव्याहतगतिः कीर्तिमांश्च भविष्यति ।। 7.36.24 ।।

READ MEANING arrow_forward
VERSE 573.25

रावणोत्सादनार्थानि रामप्रियकरणि च । रोमहर्षकराण्येष कर्ता कर्माणि संयुगे ।। 7.36.25 ।।

READ MEANING arrow_forward
VERSE 573.26

एवमुक्त्वा तमामन्त्र्य मारुतं त्वमरैः सह । यथागतं ययुः सर्वे पितामहपुरोगमाः ।। 7.36.26 ।।

READ MEANING arrow_forward
VERSE 573.27

सो ऽपि गन्धवहः पुत्रं प्रगृह्य गृहमानयत् । अञ्जनायास्तमाचख्यौ वरदत्तं विनिर्गतः ।। 7.36.27 ।।

READ MEANING arrow_forward
VERSE 573.28

प्राप्य राम वरानेष वरदानसमन्वितः । बलेनात्मनि संस्थेन सो ऽपूर्यत यथा ऽर्णवः ।। 7.36.28 ।।

READ MEANING arrow_forward
VERSE 573.29

तरसा पूर्यमाणो ऽपि तदा वानरपुङ्गवः । आश्रमेषु महर्षीणामपराध्यति निर्भयः ।। 7.36.29 ।।

READ MEANING arrow_forward
VERSE 573.30

स्रुग्भाण्डान्यग्निहोत्रं च वल्कलाजिनसञ्चयान् । भग्नविच्छिन्नविध्वस्तान्संशान्तानां करोत्ययम् ।। 7.3...

READ MEANING arrow_forward
VERSE 573.31

एवंविधानि कर्माणि प्रावर्तत महाबलः । सर्वेषां ब्रह्मदण्डानामवध्यः शम्भुना कृतः ।। 7.36.31 ।।

READ MEANING arrow_forward
VERSE 573.32

जानन्त ऋषयस्तं वै सहन्ते तस्य शक्तितः ।। 7.36.32 ।।

READ MEANING arrow_forward
VERSE 573.33

यथा केसरिणा त्वेष वायुना सो ऽञ्जनासुतः । प्रतिषिद्धो ऽपि मर्यादां लङ्घयत्येव वानरः ।। 7.36.33 ।।

READ MEANING arrow_forward
VERSE 573.34

ततो महर्षयः क्रुद्धा भृग्वङ्गिरसवंशजाः । शेपुरेनं रघुश्रेष्ठ नातिक्रुद्धातिमन्यवः ।। 7.36.34 ।।

READ MEANING arrow_forward
VERSE 573.35

बाधसे यत्समाश्रित्य बलमस्मान्प्लवङ्गम । तद्दीर्घकालं वेत्तासि नास्माकं शापमोहितः । यदा ते स्मार्यते ...

READ MEANING arrow_forward
VERSE 573.36

ततस्स हृततेजौजा महर्षिवचनौजसा । एषोश्रमाणि तान्येव मृदुभावं गतो ऽचरत् ।। 7.36.36 ।।

READ MEANING arrow_forward
VERSE 573.37

अथर्क्षरजसो नाम वालिसुग्रीवयोः पिता । सर्ववानरराजा ऽ ऽसीत्तेजसा भास्करप्रभः ।। 7.36.37 ।।

READ MEANING arrow_forward
VERSE 573.38

स तु राज्यं चिरं कृत्वा वानराणां हरीश्वरः । स च ऋक्षरजा नाम कालधर्मेण सङ्गतः ।। 7.36.38 ।।

READ MEANING arrow_forward
VERSE 573.39

तस्मिन्नस्तमिते चाथ मन्त्रिभिर्मन्त्रकोविदैः । पित्र्ये पदे कृतो वाली सुग्रीवो वालिनः पदे ।। 7.36.39...

READ MEANING arrow_forward
VERSE 573.40

सुग्रीवेण समं त्वस्य अद्वैधं छिद्रवर्जितम् । आबाल्यं सख्यमभवदनिलस्याग्निना यथा ।। 7.36.40 ।।

READ MEANING arrow_forward
VERSE 573.41

एष शापवशादेव न वेद बलमात्मनः । वालिसुग्रीवयोर्वैरं यदा राम समुत्थितम् ।। 7.36.41 ।।

READ MEANING arrow_forward
VERSE 573.42

न ह्येष राम सुग्रीवो भ्राम्यमाणो ऽपि वालिना ।। 7.36.42 ।।

READ MEANING arrow_forward
VERSE 573.43

देव जानाति न ह्येष बलमात्मनि मारुतिः । ऋषिशापाहृतबलस्तदैष कपिसत्तमः ।। 7.36.43 ।।

READ MEANING arrow_forward
VERSE 573.44

सिंहः कुञ्जररुद्धो वा आस्थितः सहितो रणे ।। 7.36.44 ।।

READ MEANING arrow_forward
VERSE 573.45

पराक्रमोत्साहमतिप्रतापसौशील्यमाधुर्यनयानयैश्च । गाम्भीर्यचातुर्यसुवीर्यधैर्यैर्हनूमतः को ऽभ्यधिको ऽस...

READ MEANING arrow_forward
VERSE 573.46

असौ पुनर्व्याकरणं ग्रहीष्यन्सूर्योन्मुखः प्रष्टुमना कपीन्द्रः । उद्यद्गिरेरस्तगिरिं जगाम ग्रन्थं महद...

READ MEANING arrow_forward
VERSE 573.47

ससूत्रवृत्त्यर्थपदं महार्थं ससङ्ग्रहं साद्ध्यति वै कपीन्द्रः । नह्यस्य कश्चित्सदृशो ऽस्ति शास्त्रे व...

READ MEANING arrow_forward
VERSE 573.48

सर्वासु विद्यासु तपोविधाने प्रस्पर्धते ऽयो हि गुरुं सुराणाम् । सो ऽयं नवव्याकरणार्थवेत्ता ब्रह्मा भव...

READ MEANING arrow_forward
VERSE 573.49

प्रवीविवक्षोरिव सागरस्य लोकान्दिधक्षोरिव पावकस्ययुगक्षये ह्येव यथान्तकस्य हनूमतः स्थास्यति कः पुरस्त...

READ MEANING arrow_forward
VERSE 573.50

एषेव चान्ये च महाकपीन्द्राः सुग्रीवमैन्दद्विविदाः सनीलाः । सतारतारेयनलाः सरम्भास्त्वत्कारणाद्राम सुर...

READ MEANING arrow_forward
VERSE 573.51

तदेत्कथितं सर्वं यन्मां त्वं परिपृच्छसि । हनूमतो बालभावे कर्मैतत्कथितं मया ।। 7.36.51 ।।

READ MEANING arrow_forward
VERSE 573.52

श्रुत्वा ऽगस्त्यस्य कथितं रामः सौमित्रिरेव च । विस्मयं परमं जग्मुर्वानरा राक्षसैः सह ।। 7.36.52 ।।

READ MEANING arrow_forward
VERSE 573.53

अगस्त्यस्त्वब्रवीद्रामं सर्वमेतछ्रुतं त्वया । दृष्टः सम्भाषितश्चासि राम गच्छामहे वयम् ।। 7.36.53 ।।

READ MEANING arrow_forward
VERSE 573.54

श्रुत्वैतद्राघवो वाक्यमगस्त्यस्योग्रतेजसः । प्राञ्जलिः प्रणतश्चापि महर्षिमिदमब्रवीत् ।। 7.36.54 ।।

READ MEANING arrow_forward
VERSE 573.55

अद्य मे देवता हृष्टाः पितरः प्रपितामहाः । युष्माकं दर्शनादेव नित्यं तुष्टाः सबान्धवाः ।। 7.36.55 ।।

READ MEANING arrow_forward
VERSE 573.56

विज्ञाप्यं तु ममैतद्धि यद्वदाम्यागतस्पृहः । तद्भवद्भिर्मम कृते कर्तव्यमनुकम्पया ।। 7.36.56 ।।

READ MEANING arrow_forward
VERSE 573.57

पौरजानपदान्स्थाप्य स्वकार्येष्वहमागतः । क्रतूनेव करिष्यामि प्रभावाद्भवतां सताम् ।। 7.36.57 ।।

READ MEANING arrow_forward
VERSE 573.58

सदस्या मम यज्ञेषु भवन्तो नित्यमेव तत् । भविष्यथ महावीर्या ममानुग्रहकाङ्क्षिणः ।। 7.36.58 ।।

READ MEANING arrow_forward
VERSE 573.59

अहं युष्मान्समाश्रित्य तपोनिर्धूतकल्मषान् । अनुग्रहीतः पितृभिर्भविष्यामि सुनिर्वृतः ।। 7.36.59 ।।

READ MEANING arrow_forward
VERSE 573.60

तदागन्तव्यमनिशं भवद्भिरिह सङ्गतैः । अगस्त्याद्यास्तु तच्छ्रुत्वा ऋषयः संशितव्रताः ।। 7.36.60 ।।

READ MEANING arrow_forward
VERSE 573.61

एवमस्त्विति तं चोक्त्वा प्रयातुमुपचक्रमुः ।। 7.36.61 ।।

READ MEANING arrow_forward
VERSE 573.62

एवमुक्त्वा गताः सर्वे ऋषयस्ते यथागतम् । राघवश्च तमेवार्थं चिन्तयामास विस्मितः ।। 7.36.62 ।।

READ MEANING arrow_forward
VERSE 573.63

ततो ऽस्तं भास्करे याते विसृज्य नृपवानरान् । सन्ध्यामुपास्य विधिवत्तदा नरवरोत्तमः । प्रवृत्तायां रजन्...

READ MEANING arrow_forward
VERSE 573.64

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षट्त्रिंशः सर्गः ।। 36 ।।

READ MEANING arrow_forward
arrow_back Previous Chapter Next Chapter 574 arrow_forward