Chapter 574
Sarga 37
अभिषिक्ते तु काकुत्स्थे धर्मेण विदितात्मनि । व्यतीता या निशा पूर्वा पौराणां हर्षवर्धिनी ।। 7.37.1 ।।
तस्यां रजन्यां व्युष्टायां प्रातर्नृपतिबोधकाः । वन्दिनः समुपातिष्ठन्सौम्या नृपतिवेश्मनि ।। 7.37.2 ।।
ते रक्तकण्ठिनः सर्वे किन्नरा इव शिक्षिताः । तुष्टुवुर्नपतिं वीरं यथावत् सम्प्रहर्षिणः ।। 7.37.3 ।।
वीर सौम्य प्रबुध्यस्व कौसल्याप्रीतिवर्धन । जगद्धि सर्वं स्वपिति त्वयि सुप्ते नराधिप ।। 7.37.4 ।।
विक्रमस्ते यथा विष्णो रूपं चैवाश्विनोरिव । बुद्ध्या बृहस्पतेस्तुल्यः प्रजापतिसमो ह्यसि ।। 7.37.5 ।।
क्षमा ते पृथिवीतुल्या तेजसा भास्करोपमः । वेगस्ते वायुना तुल्यो गाम्भीर्यमुदधेरिव ।। 7.37.6 ।।
अप्रकम्प्यो यता स्थाणुश्चन्द्रे सौम्यत्वमीदृशम् । नेदृशाः पार्थिवाः पूर्वं भवितारो नराधिप ।। 7.37.7 ...
यथा त्वमतिदुर्धर्षो धर्मनित्यः प्रजाहितः । न त्वां जहाति कीर्तिश्च लक्ष्मीश्च पुरुषर्षभ ।। 7.37.8 ।।
श्रीश्च धर्मश्च काकुत्स्थ त्वयि नित्यं प्रतिष्ठितौ । एताश्चान्याश्च मधुरा वन्दिभिः परिकीर्तिताः ।। 7...
सूताश्च संस्तवैर्दिव्यैर्बोधयन्ति स्म राघवम् । स्तुतिभिः स्तूयमानाभिः प्रत्यबुध्यत राघवः ।। 7.37.10 ...
स तद्विहाय शयनं पाण्डराच्छादनास्तृतम् । उत्तस्थौ नागशयनाद्धरिर्नारायणो यथा ।। 7.37.11 ।।
तमुत्थितं महात्मानं प्रह्वाः प्राञ्जलयो नराः । सलिलं भाजनैः शुभ्रैरुपतस्थुः सहस्रशः ।। 7.37.12 ।।
कृतोदकशुचिर्भूत्वा काले हुतहुताशनः । देवागारं जगामाशु पुण्यमिक्ष्वाकुसेवितम् ।। 7.37.13 ।।
तत्र देवान्पितऽन्विप्रानर्चयित्वा यथाविधि । बाह्यकक्षान्तरं रामो निर्जगाम जनैर्वृतः ।। 7.37.14 ।।
उपतस्थुर्महात्मानो मन्त्रिणः सपुरोहिताः । वसिष्ठप्रमुखाः सर्वे दीप्यमाना इवाग्नयः ।। 7.37.15 ।।
क्षत्रियाश्च महात्मानो नानाजनपदेश्वराः । रामस्योपाविशन्पार्श्वे शक्रस्येव यथा ऽमराः ।। 7.37.16 ।।
भरतो लक्ष्मणश्चात्र शत्रुघ्नश्च महायशाः । उपासाञ्चक्रिरे हृष्टा वेदास्त्रय इवाध्वरम् ।। 7.37.17 ।।
याताः प्राञ्जलयो भूत्वा किङ्करा मुदिताननाः । मुदिता नाम पार्श्वस्था बहवः समुपाविशन् ।। 7.37.18 ।।
वानराश्च महावीर्या विंशतिः कामरूपिणः । सुग्रीवप्रमुखा राममुपासन्ते महौजसः ।। 7.37.19 ।।
विभीषणश्च रक्षोभिश्चतुर्भिः परिवारितः । उपासते महात्मानं धनेशमिव गुह्यकाः ।। 7.37.20 ।।
तथा निगमवृद्धाश्च कुलीना ये च मानवाः । शिरसा ऽ ऽवन्द्य राजानमुपासन्ते विचक्षणाः ।। 7.37.21 ।।
तथा परिवृतो राजा श्रीमद्भिर्ऋषिभिर्वृतः । राजभिश्च महावीर्यैर्वानरैश्च सराक्षसैः ।। 7.37.22 ।।
यथा देवेश्वरो नित्यमृषिभिः समुपास्यते । अधिकस्तेन रूपेण सहस्राक्षाद्विरोचते ।। 7.37.23 ।।
तेषां समुपविष्टानां तास्ताः सुमधुराः कथाः । कथ्यन्ते धर्मसंयुक्ताः पुराणज्ञैर्महात्मभिः ।। 7.37.24 ।...
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तत्रिंशः सर्गः ।। 37 ।।