Chapter 578
Sarga 41
विसृज्य च महाबाहुर्ऋक्षवानरराक्षसान् । भ्रातृभिः सहितो रामः प्रमुमोद सुखं सुखी ।। 7.41.1 ।।
अथापराह्णसमये भ्रातृभिः सह राघवः । शुश्राव मधुरां वाणीमन्तरिक्षात् प्रभाषिताम् ।। 7.41.2 ।।
सौम्य राम निरीक्षस्व सौम्येन वदनेन माम् । कुबेरभवनात्प्राप्तं विद्धि मां पुष्पकं प्रभो ।। 7.41.3 ।।
तव शासनमाज्ञाय गतो ऽस्मि भवनं प्रति । उपस्थातुं नरश्रेष्ठ स च मां प्रत्यभाषत ।। 7.41.4 ।।
निर्जितस्त्वं नरेन्द्रेण राघवेण महात्मना । निहत्य युधि दुर्धर्षं रावणं राक्षसेश्वरम् ।। 7.41.5 ।।
ममापि परमा प्रीतर्हते तस्मिन्दुरात्मनि । रावणे सगणे चैव सपुत्रे सहबान्धवे ।। 7.41.6 ।।
स त्वं रामेण लङ्कायां निर्जितः परमात्मना । वह सौम्य तमेव त्वमहमाज्ञापयामि ते ।। 7.41.7 ।।
परमो ह्येष मे कामो यत्त्वं राघवनन्दनम् । वहेर्लोकस्य संयानं गच्छस्व विगतज्वरः ।। 7.41.8 ।।
सो ऽहं शासनमाज्ञाय धनदस्य महात्मनः । त्वत्सकाशमनुप्राप्तो निर्विशङ्कः प्रतीक्ष माम् ।। 7.41.9 ।।
अदृष्यः सर्वभूतानां सर्वेषां धनदाज्ञया । चराम्यहं प्रभावेण तवाज्ञां परिपालयन् ।। 7.41.10 ।।
एवमुक्तस्तदा रामः पुष्पकेण महाबलः । उवाच पुष्पकं दृष्ट्वा विमानं पुनरागतम् ।। 7.41.11 ।।
यद्येवं स्वागतं ते ऽस्तु विमानवर पुष्पक । आनुकूल्याद्धनेशस्य वृत्तदोषो न नो भवेत् ।। 7.41.12 ।।
लाजैश्चैव तथा पुष्पैर्धूपैश्चैव सुगन्धिभिः । पूजयित्वा महाबाहू राघवः पुष्पकं तदा ।। 7.41.13 ।।
गम्यतामिति चोवाच आगच्छ त्वं स्मरे यदा । सिद्धानां च गतौ सौम्य मा विषादेन योजय । प्रतिघातश्च ते मा भू...
एवमस्त्विति रामेण पूजयित्वा विसर्जितम् । अभिप्रेतां दिशं तस्मात्प्रायात्तत्पुष्पकं तदा ।। 7.41.15 ।।
एवमन्तर्हिते तस्मिन्पुष्पके सुकृतात्मनि । भरतः प्राञ्जलिर्वाक्यमुवाच रघुनन्दनम् ।। 7.41.16 ।।
विविधात्मनि दृश्यन्ते त्वयि वीर प्रशासति । अमानुषाणां सत्त्वानां व्याहृतानि मुहुर्मुहुः ।। 7.41.17 ।...
अनामयश्च सत्वानां साग्रो मासो गतो ह्ययम् । जीर्णानामपि सत्त्वानां मृत्युर्नायाति राघव ।। 7.41.18 ।।
अरोगप्रसवा नार्यो वपुष्मन्तो हि मानवाः । हर्षश्चाभ्यधिको राजञ्जनस्य पुरवासिनः ।। 7.41.19 ।।
काले वर्षति पर्जन्यः पातयन्नमृतं पयः । वाताश्चापि प्रवान्त्येते स्पर्शयुक्ताः सुखाः शिवाः ।। 7.41.20...
ईदृशो ऽनश्वरो राजा भवेदिति नरेश्वरः । कथयन्ति पुरे राजन्पौरजानपदास्तथा ।। 7.41.21 ।।
एता वाचः सुमधुरा भरतेन समीरिताः । श्रुत्वा रामो मुदा युक्तो बभूव नृपसत्तमः ।। 7.41.22 ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकचत्वारिंशः सर्गः ।। 41 ।।