Chapter 579
Sarga 42
स विसृज्य ततो रामः पुष्पकं हेमभूषितम् । प्रविवेश महाबाहुरशोकवनिकां तदा ।। 7.42.1 ।।
चन्दनागुरुचूतैश्च तुङ्गकालेयकैरपि । देवदारुवनैश्चापि समन्तादुपशोभिताम् ।। 7.42.2 ।।
चम्पकाशोकपुन्नागमधूकपनसासनैः । शोभितां पारिजातैश्च विधूमज्वलनप्रभैः ।। 7.42.3 ।।
लोध्रनीपार्जुनैर्नागैः सप्तपर्णातिमुक्तकैः । मन्दारकदलीगुल्मलताजालसमावृताम् ।। 7.42.4 ।।
प्रियङ्गुभिः कदम्बैश्च तथा च वकुलैरपि । जम्बूभिर्दाडिमैश्चैव कोविदारैश्च शोभिताम् ।। 7.42.5 ।।
सर्वदा कुसुमै रम्यैः फलवद्भिर्मनोरमैः । दिव्यगन्धरसोपेतैस्तरुणाङ्कुरपल्लवैः ।। 7.42.6 ।।
तथैव तरुभिर्दिव्यैः शिल्पिभिः परिकल्पितैः । चारुपल्लवपुष्पाढ्यैर्मत्तभ्रमरसङ्कुलैः ।। 7.42.7 ।।
कोकिलैर्भृङ्गराजैश्च नानावर्णैश्च पक्षिभिः । शोभितां शतशश्चित्रां चूतवृक्षावतंसकैः ।। 7.42.8 ।।
शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः । नीलाञ्जननिभाश्चान्ये भान्ति तत्रत्यपादपाः ।। 7.42.9 ।।
सुरभीणि च पुष्पाणि माल्यानि विविधानि च । दीर्घिका विविधाकाराः पूर्णाः परमवारिणा ।। 7.42.10 ।।
माणिक्यकृतसोपानाः स्फाटिकान्तरकुट्टिमाः । फुल्लपद्मोत्पलवनाश्चक्रवाकोपशोभिताः ।। 7.42.11 ।।
दात्यूहशुकसङ्घुष्टा हंससारसनादिताः । तरुभिः पुष्पवद्भिश्च तीरजैरुपशोभिताः ।। 7.42.12 ।।
प्राकारैर्विविधाकारैः शोभिताश्च शिलातलैः । तत्रैव च वनोद्देशे वैडूर्यमणिसन्निभैः ।। 7.42.13 ।।
शाद्वलैः परमोपेतां पुष्पितद्रुमकाननाम् । तत्र सङ्घर्षजातानां वृक्षाणां पुष्पशालिनाम् ।। 7.42.14 ।।
प्रस्तराः पुष्पशबला नभस्तारागणैरिव । नन्दनं हि यथेन्द्रस्य ब्राह्मं चैत्ररथं यथा ।। 7.42.15 ।।
तथाभूतं हि रामस्य काननं सन्निवेशनम् । बह्वासनगृहोपेतां लतागृहसमावृताम् ।। 7.42.16 ।।
अशोकवनिकां स्फीतां प्रविश्य रघुनन्दनः । आसने च शुभाकारे पुष्पप्रकरभूषिते ।। 7.42.17 ।।
कुशास्तरणसंस्तीर्णे रामः सन्निषसाद ह । सीतामादायं हस्तेन मधुमैरेयकं शुचि ।। 7.42.18 ।।
पाययामास काकुत्स्थः शचीमिव पुरन्दरः । मांसानि च समृष्टानि फलानि विविधानि च ।। 7.42.19 ।।
रामस्याभ्यवहारार्थं किङ्करास्तूर्णमाहरन्उ । उपानृत्यंश्च राजानं नृत्यगीतविशारदाः ।। 7.42.20 ।।
बालाश्च रूपवत्यश्च स्त्रियः पानवशानुगाः । मनोभिरामा रामास्ता रामो रमयतां वरः ।। 7.42.21 ।।
उपानृत्यन्त काकुत्स्थं नृत्यगीतविशारदाः । मनोभिरामा रामास्ता रामो रमयतां वरः ।। 7.42.22 ।।
रमयामास धर्मात्मा नित्यं परमभूषितः । स तया सीतया सार्धमासीनो विरराज ह ।। 7.42.23 ।।
अरुन्धत्या सहासीनो वसिष्ठ इव तेजसा । एवं रामो मुदा युक्तः सीतां सुरसुतोपमाम् ।। 7.42.24 ।।
रमयामास वैदेहीमहन्यहनि देववत्त । था तयोर्विहरतोः सीताराघवयोश्चिरम् ।। 7.42.25 ।।
अत्यक्रामच्छुभः कालः शैशिरो भोगदः सदा । प्राप्तयोर्विविधान्भोगानतीतः शिशिरागमः ।। 7.42.26 ।।
पूर्वाह्णे धर्मकार्याणि कृत्वा धर्मेण धर्मवित् । शेषं दिवसभागार्धमन्तःपुरगतो ऽभवत् ।। 7.42.27 ।।
सीतापि देवकार्याणि कृत्वा पौर्वाह्णिकानि वै । श्वश्रूणामकरोत्पूजां सर्वासामविशेषतः ।। 7.42.28 ।।
अभ्यगच्छत्ततो रामं विचित्राभरणाम्बरा । त्रिविष्टपे सहस्राक्षमुपविष्टं यथा शची ।। 7.42.29 ।।
दृष्ट्वा तु राघवः पत्नीं कल्याणेन समन्विताम् । प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ।। 7.42.30 ...
अब्रवीच्च वरारोहां सीतां सुरसुतोपमाम् । अपत्यलाभो वैदेहि त्वयि मे समुपस्थितः ।। 7.42.31 ।।
किमिच्छसि वरारोहे कामः किं क्रियतां तव । स्मितं कृत्वा तु वैदेही रामं वाक्यमथाब्रवीत् ।। 7.42.32 ।।
तपोवनानि पुण्यानि द्रष्टुमिच्छामि राघव । गङ्गातीरोपविष्टानामृषीणामुग्रतेजसाम् ।। 7.42.33 ।।
फलमूलाशिनां देव पादमूलेषु वर्तितुम् । एष मे परमः कामो यन्मूलफलभोजिनाम् ।। 7.42.34 ।।
अप्येकरात्रं काकुत्स्थ निवसेयं तपोवने । तथेति च प्रतिज्ञातं रामेणाक्लिष्टकर्मणा । विस्रब्धा भव वैदेह...
एवमुक्त्वा तु काकुत्स्थो मैथिलीं जनकात्मजाम् । मध्यकक्षान्तरं रामो निर्जगाम सुहृद्वृतः ।। 7.42.36 ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्विचत्वारिंशः सर्गः ।। 42 ।।