arrow_back All Chapters

Chapter 580

Sarga 43

VERSE 580.1

तत्रोपविष्टं राजानमुपासन्ते विचक्षणाः । कथानां बहुरूपाणां हास्यकाराः समन्ततः ।। 7.43.1 ।।

READ MEANING arrow_forward
VERSE 580.2

विजयो मधुमत्तश्च काश्यपो मङ्गलः कुटः । सुराजः कालियो भद्रो दन्तवक्रः सुमागधः ।। 7.43.2 ।।

READ MEANING arrow_forward
VERSE 580.3

एते कथा बहुविधाः परिहाससमन्विताः । कथयन्ति स्म संहृष्टा राघवस्य महात्मनः ।। 7.43.3 ।।

READ MEANING arrow_forward
VERSE 580.4

ततः कथायां कस्याञ्चिद्राघवः समभाषत । काः कथा नगरे भद्र वर्तन्ते विषयेषु च ।। 7.43.4 ।।

READ MEANING arrow_forward
VERSE 580.5

मामाश्रितानि कान्याहुः पौरजानपदा जनाः । किं च सीतां समाश्रित्य भरतं किं च लक्ष्मणम् ।। 7.43.5 ।।

READ MEANING arrow_forward
VERSE 580.6

किं नु शत्रुघ्नमुद्दिश्य कैकयीं किं नु मातरम् । वक्तव्यतां च राजानो वरे राज्ये व्रजन्ति च ।। 7.43.6 ...

READ MEANING arrow_forward
VERSE 580.7

एवमुक्ते तु रामेण भद्रः प्राञ्जलिरब्रवीत् । स्थिताः कथा शुभाः राजन्वर्तन्ते पुरवासिनाम् ।। 7.43.7 ।।

READ MEANING arrow_forward
VERSE 580.8

अमुं तु विजयं सौम्य दशग्रीववधार्जितम् । भूयिष्ठं स्वपुरे पौरैः कथ्यन्ते पुरुषर्षभ ।। 7.43.8 ।।

READ MEANING arrow_forward
VERSE 580.9

एवमुक्तस्तु भद्रेण राघवो वाक्यमब्रवीत् । कथयस्व यथातत्त्वं सर्वं निरवशेषतः ।। 7.43.9 ।।

READ MEANING arrow_forward
VERSE 580.10

शुभाशुभानि वाक्यानि यान्याहुः पुरवासिनः । श्रुत्वेदानीं शुभं कुर्यां नकुर्यामशुभानि च ।। 7.43.10 ।।

READ MEANING arrow_forward
VERSE 580.11

कथयस्व च विस्रब्धो निर्भयं विगतज्वरः । कथयन्ति यथा पौराः पापा जनपदेषु च ।। 7.43.11 ।।

READ MEANING arrow_forward
VERSE 580.12

राघवेणैवमुक्तस्तु भद्रः सुरुचिरं वचः । प्रत्युवाच महाबाहुं प्राञ्जलिः सुसमाहितः ।। 7.43.12 ।।

READ MEANING arrow_forward
VERSE 580.13

शृणु राजन्यथा पौराः कथयन्ति शुभाशुभम् । चत्वरापणरथ्यासु वनेषूपवनेषु च ।। 7.43.13 ।।

READ MEANING arrow_forward
VERSE 580.14

दुष्करं कृतवान्रामः समुद्रे सेतुबन्धनम् । अश्रुतं पूर्वकैः कैश्चिद्देवैरपि सदानवैः ।। 7.43.14 ।।

READ MEANING arrow_forward
VERSE 580.15

रावणश्च दुराधर्षो हतः सबलवाहनः । वानराश्च वशं नीता ऋक्षाश्च सह राक्षसैः ।। 7.43.15 ।।

READ MEANING arrow_forward
VERSE 580.16

हत्वा च रावणं सङ्ख्ये सीतामाहृत्य राघवः । अमर्षं पृष्ठतः कृत्वा स्ववेश्म पुनरानयत् ।। 7.43.16 ।।

READ MEANING arrow_forward
VERSE 580.17

कीदृशं हृदये तस्य सीतासम्भोगजं सुखम् । अङ्कमारोप्य तु पुरा रावणेन बलाद्धृताम् ।। 7.43.17 ।।

READ MEANING arrow_forward
VERSE 580.18

लङ्कामपि पुरा नीतामशोकवनिकां गताम् । रक्षसां वशमापन्नां कथं रामो न कुत्सते ।। 7.43.18 ।।

READ MEANING arrow_forward
VERSE 580.19

अस्माकमपि दारेषु सहनीयं भविष्यति । यथा हि कुरुते राजा प्रजा तमनुवर्तते ।। 7.43.19 ।।

READ MEANING arrow_forward
VERSE 580.20

एवं बहुविधा वाचो वदन्ति पुरवासिनः । नगरेषु च सर्वेषु राजञ्जनपदेषु च ।। 7.43.20 ।।

READ MEANING arrow_forward
VERSE 580.21

तस्यैवं भाषितं श्रुत्वा राघवः परमार्तवत् । उवाच सुहृदः सर्वान्कथमेतद्ब्रवीथ माम् ।। 7.43.21 ।।

READ MEANING arrow_forward
VERSE 580.22

सर्वे तु शिरसा भूमावभिवाद्य प्रणम्य च । प्रत्यूचू राघवं दीनमेवमेतन्न संशयः ।। 7.43.22 ।।

READ MEANING arrow_forward
VERSE 580.23

श्रुत्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरितम् । विसर्जयामास तदा वयस्याञ्छत्रुसूदनः ।। 7.43.23 ।।

READ MEANING arrow_forward
VERSE 580.24

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रिचत्वारिंशः सर्गः ।। 43 ।।

READ MEANING arrow_forward
arrow_back Previous Chapter Next Chapter 581 arrow_forward