arrow_back All Chapters

Chapter 581

Sarga 44

VERSE 581.1

विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवः । समीपे द्वाःस्थमासीनमिदं वचनमब्रवीत् ।। 7.44.1 ।।

READ MEANING arrow_forward
VERSE 581.2

शीघ्रमानय सौमित्रिं लक्ष्मणं शुभलक्षणम् । भरतं च महाभागं शत्रुघ्नमपराजितम् ।। 7.44.2 ।।

READ MEANING arrow_forward
VERSE 581.3

रामस्य वचनं श्रुत्वा द्वाःस्थो मूर्ध्नि कृताञ्जलिः । लक्ष्मणस्य गृहं गत्वा प्रविवेशानिवारितः ।। 7.44...

READ MEANING arrow_forward
VERSE 581.4

उवाच सुमहात्मानं वर्धयित्वा कृताञ्जलिः । द्रष्टुमिच्छति राजा त्वां गम्यतां तत्र मा चिरम् ।। 7.44.4 ।...

READ MEANING arrow_forward
VERSE 581.5

बाढमित्येव सौमित्रिः श्रुत्वा राघवशासनम् । प्राद्रवद्रथमारुह्य राघवस्य निवेशनम् ।। 7.44.5 ।।

READ MEANING arrow_forward
VERSE 581.6

प्रयान्तं लक्ष्मणं दृष्ट्वा द्वाःस्थो भरतमन्तिकात् । उवाच भरतं तत्र वर्धयित्वा कृताञ्जलिः ।। 7.44.6 ...

READ MEANING arrow_forward
VERSE 581.7

विनयावनतो भूत्वा राजा त्वां द्रष्टुमिच्छति । भरतस्तु वचःश्रुत्वा द्वाःस्थाद्रामसमीरितम् ।। 7.44.7 ।।

READ MEANING arrow_forward
VERSE 581.8

उत्पपातासनात्तूर्णं पद्भ्यामेव ययौ बली । दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलिः ।। 7.44.8 ।।

READ MEANING arrow_forward
VERSE 581.9

शत्रुघ्नभवनं गत्वा ततो वाक्यमुवाच ह । एह्यागच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुमिच्छति ।। 7.44.9 ।।

READ MEANING arrow_forward
VERSE 581.10

गतो हि लक्ष्मणः पूर्वं भरतश्च महायशाः । श्रुत्वा तु वचनं तस्य शत्रुघ्नः परमासनात् ।। 7.44.10 ।।

READ MEANING arrow_forward
VERSE 581.11

शिरसा धरणीं प्राप्य प्रययौ यत्र राघवः । द्वाःस्थस्त्वागम्य रामाय सर्वानेव कृताञ्जलिः । निवेदयामास तद...

READ MEANING arrow_forward
VERSE 581.12

कुमारानागताञ्छ्रुत्वा चिन्ताव्याकुलितेन्द्रियः । अवाङ्मुखो दीनमना द्वाःस्थं वचनमब्रवीत् ।। 7.44.12 ।...

READ MEANING arrow_forward
VERSE 581.13

प्रवेशय कुमारांस्त्वं मत्समीपं त्वरान्वितः । एतेषु जीवितं मह्यमेते प्राणाः प्रिया मम ।। 7.44.13 ।।

READ MEANING arrow_forward
VERSE 581.14

आज्ञप्तास्तु नरेन्द्रेण कुमाराः शक्रतेजसः । प्रह्वाः प्राञ्जलयो भूत्वा विविशुस्ते समाहिताः ।। 7.44.1...

READ MEANING arrow_forward
VERSE 581.15

ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा । सन्ध्यागतमिवादित्यं प्रभया परिवर्जितम् ।। 7.44.15 ।।

READ MEANING arrow_forward
VERSE 581.16

बाष्पपूर्णे च नयने दृष्ट्वा रामस्य धीमतः । हतशोभं यथा पद्मं मुखं वीक्ष्य च तस्य ते ।। 7.44.16 ।।

READ MEANING arrow_forward
VERSE 581.17

ततो ऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः । तस्थुः समाहिताः सर्वे रामस्त्वश्रूण्यवर्तयत् ।। 7.44.17...

READ MEANING arrow_forward
VERSE 581.18

तान्परिष्वज्य बाहुभ्यामुत्थाप्य च महाबलः । आसनेष्वासतेत्युक्त्वा ततो वाक्यं जगाद ह ।। 7.44.18 ।।

READ MEANING arrow_forward
VERSE 581.19

भवन्तो मम सर्वस्वं भवन्तो जीवितं मम । भवद्भिश्च कृतं राज्यं पालयामि नरेश्वराः ।। 7.44.19 ।।

READ MEANING arrow_forward
VERSE 581.20

भवन्तः कृतशास्त्रार्था बुद्ध्या च परिनिष्ठिताः । सम्भूय च मदर्थो ऽयमन्वेष्टव्यो नरेश्वराः ।। 7.44.20...

READ MEANING arrow_forward
VERSE 581.21

तथा वदति काकुत्स्थे अवधानपरायणाः । उद्विग्नमनसः सर्वे किं नु राजाभिधास्यति ।। 7.44.21 ।।

READ MEANING arrow_forward
VERSE 581.22

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुश्चत्वारिंशः सर्गः ।। 44 ।।

READ MEANING arrow_forward
arrow_back Previous Chapter Next Chapter 582 arrow_forward