Chapter 585
Sarga 48
लक्ष्मणस्य वचः श्रुत्वा दारुणं जनकात्मजा । परं विषादमागम्य वैदेही निपपात ह ।। 7.48.1 ।।
सा मुहूर्तमिवासञ्ज्ञा बाष्पपर्याकुलेक्षणा । लक्ष्मणं दीनया वाचा उवाच जनकात्मजा ।। 7.48.2 ।।
मामिकेयं तनुर्नूनं सृष्टा दुःखाय लक्ष्मण । धात्रा यस्यास्तथा मे ऽद्य दुःखमूर्तिः प्रदृश्यते ।। 7.48....
किं नु पापं कृतं पूर्वं को वा दारैर्वियोजितः । या ऽहं शुद्धसमाचारा त्यक्ता नृपतिना सती ।। 7.48.4 ।।
पुरा ऽहमाश्रमे वासं रामपादानुवर्तिनी । अनुरुध्यापि सौमित्रे दुःखे च परिवर्तिनी ।। 7.48.5 ।।
सा कथं ह्याश्रमे सौम्य वत्स्यामि विजनीकृता । आख्यास्यामि च कस्याहं दुःखं दुःखपरायणा ।। 7.48.6 ।।
किं नु वक्ष्यामि मुनिषु कर्म वा सत्कृतं च किम् । कस्मिंश्चित् कारणे त्यक्ता राघवेण महात्मना ।। 7.48....
न खल्वद्यैव सौमित्रे जीवितं जाह्नवीजले । त्यजेयं राजवंशस्तु भर्तुर्मे परिहास्यते ।। 7.48.8 ।।
यथाज्ञं कुरु सोमित्रे त्यज मां दुःखभागिनीम् । निदेशे स्थीयतां राज्ञः शृणु चेदं वचो मम ।। 7.48.9 ।।
श्वश्रूणामविशेषेण प्राञ्जलिप्रग्रहेण च । शिरसा ऽ ऽवन्द्य चरणौ कुशलं ब्रूहि पार्थिवम् ।। 7.48.10 ।।
शिरसा ऽभिनतो ब्रूयाः सर्वासामेव लक्ष्मण । वक्तव्यश्चापि नृपतिर्धर्मेषु सुसमाहितः ।। 7.48.11 ।।
जानासि च यथा शुद्धा सीता तत्त्वेन राघव । भक्त्या च परया युक्ता हिता च तव नित्यशः ।। 7.48.12 ।।
अहं त्यक्ता त्वया वीर अयशोभीरुणा जने । यच्च ते वचनीयं स्यादपवादसमुत्थितम् । मया च परिहर्तव्यं त्वं ह...
वक्तव्यश्चेति नृपतिर्धमेण सुसमाहितः । यथा भ्रातृषु वर्तेथास्तथा पौरेषु नित्यदा ।। 7.48.14 ।।
परमो ह्येष धर्मस्ते तस्मात्कीर्तिरनुत्तमा ।। 7.48.15 ।।
यत्तु पौरजनो राजन्धर्मेण समवाप्नुयात् । अहं तु नानुशोचामि स्वशरीरं नरर्षभ ।। 7.48.16 ।।
यथापवादं पौराणां तथैव रघुनन्दन । पतिर्हि देवता नार्याः पतिर्बन्धुः पतिर्गुरुः ।। 7.48.17 ।।
प्राणैरपि प्रियं तस्माद्भर्तुः कार्यं विशेषतः । इति मद्वचनाद्रामो वक्तव्यो मम सङ्ग्रहः । निरीक्ष्य म...
एवं ब्रुवन्त्यां सीतायां लक्ष्मणो दीनचेतनः । शिरसा ऽ ऽवन्द्य धरणीं व्याहर्तुं न शशाक ह ।। 7.48.19 ।।
प्रदक्षिणं च तां कृत्वा रुदन्नेव महास्वनः । ध्यात्वा मुहूर्तं तामाह किं मां वक्ष्यसि शोभने ।। 7.48.2...
दृष्टपूर्वं न ते रूपं पादौ दृष्टौ तवानघे । कथमत्र हि पश्यामि रामेण रहितां वने ।। 7.48.21 ।।
इत्युक्त्वा तां नमस्कृत्य पुनर्नावमुपारुहत् । आरुह्य च पुनर्नावं नाविकं चाभ्यचोदयत् ।। 7.48.22 ।।
स गत्वा चोत्तरं तीरं शोकभारसमन्वितः । सम्मूढ इव दुःखेन रथमध्यारुहद्द्रुतम् ।। 7.48.23 ।।
मुहुर्मुहुः परावृत्य दृष्ट्वा सीतामनाथवत् । चेष्टन्तीं परतीरस्थां लक्ष्मणः प्रययावथ ।। 7.48.24 ।।
दूरस्थं रथमालोक्य लक्ष्मणं च मुहूर्मुहुः । निरीक्षमाणां तूद्विग्नां सीतां शोकः समाविशत् ।। 7.48.25 ।...
सा दुःखभारावनता यशस्विनी यशोधना नाथमपश्यती सती । रुरोद सा बर्हिणनादिते वने महास्वनं दुःखपरायणा सती ।...
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टचत्वारिंशः सर्गः ।। 48 ।।