Chapter 586
Sarga 49
सीतां तु रुदतीं दृष्ट्वा ते तत्र मुनिदारकाः । प्राद्रवन्यत्र भगवानास्ते वाल्मीकिरुग्रधीः ।। 7.49.1 ।...
अभिवाद्य मुनेः पादौ मुनिपुत्रा महर्षये । सर्वं निवेदयामासुस्तस्यास्तु रुदितस्वनम् ।। 7.49.2 ।।
अदृष्टपूर्वा भगवन्कस्याप्येषा महात्मनः । पत्नी श्रीरिव सम्मोहाद्विरौति विकृतानना ।। 7.49.3 ।।
भगवन्साधु पश्य त्वं देवतामिव खाच्च्युताम् । नद्यास्तु तीरे भगवन्वरस्त्री कापि दुःखिता ।। 7.49.4 ।।
दृष्टास्माभिः प्ररुदिता दृढं शोकपरायणा । अनर्हा दुःखशोकाभ्यामेकां दीनां ह्यनाथवत् ।। 7.49.5 ।।
न ह्येनां मानुषीं विद्मः सत्क्रिया ऽस्याः प्रयुज्यताम् । आश्रमस्याविदूरे च त्वामियं शरणं गता ।। 7.49...
त्रातारमिच्छते साध्वी भगवंस्त्रातुमर्हसि । तेषां तु वचनं श्रुत्वा बुद्ध्या निश्चित्य धर्मवित् । तपसा...
तं प्रयान्तमभिप्रेत्य शिष्या ह्येनं महामतिम् । तं तु देशमभि प्रेत्य किञ्चित्पद्भ्यां महामतिः ।। 7.49...
अर्घ्यमादाय रुचिरं जाह्नवीतीरमागमत् । ददर्श राघवस्येष्टां सीतां पत्नीमनाथवत् ।। 7.49.9 ।।
तां सीतां शोकभारार्तां वाल्मीकिर्मुनिपुङ्गवः । उवाच मधुरां वाणीं ह्लादयन्निव तेजसा ।। 7.49.10 ।।
स्नुषा दशरथस्य त्वं रामस्य महिषी प्रिया । जनकस्य सुता राज्ञः स्वागतं ते पतिव्रते ।। 7.49.11 ।।
आयान्ती चासि विज्ञाता मया धर्मसमाधिना । कारणं चैव सर्वं मे हृदयेनोपलक्षितम् ।। 7.49.12 ।।
तव चैव महाभागे विदितं मम तत्त्वतः । सर्वं च विदितं मह्यं त्रैलोक्ये यद्धि वर्तते ।। 7.49.13 ।।
अपापां वेद्मि सीते त्वां तपोलब्धेन चक्षुषा । विस्रब्धा भव वैदेहि साम्प्रतं मयि वर्तसे ।। 7.49.14 ।।
आश्रमस्याविदूरे मे तापस्यस्तपसि स्थिताः । तास्त्वां वत्से यथा वत्सं पालयिष्यन्ति नित्यशः ।। 7.49.15 ...
इदमर्ध्यं प्रतीच्छ त्वं विस्रब्धा विगतज्वरा । यथा स्वगृहमभ्येत्य विषादं चैव मा कृथाः ।। 7.49.16 ।।
श्रुत्वा तु भाषितं सीता मुनेः परममद्भुतम् । शिरसा ऽ ऽवन्द्य चरणौ तथेत्याह कृताञ्जलिः ।। 7.49.17 ।।
तं प्रयान्तं मुनिं सीता प्राञ्जलिः पृष्ठतो ऽन्वगात् ।। 7.49.18 ।।
तं दृष्ट्वा मुनिमायान्तं वैदेह्या मुनिपत्नयः । उपाजग्मुर्मुदा युक्ता वचनं चेदमब्रुवन् ।। 7.49.19 ।।
स्वागतं ते मुनिश्रेष्ठ चिरस्यागमनं च ते । अभिवादयामस्त्वां सर्वा उच्यतां कि च कुर्महे ।। 7.49.20 ।।
तासां तद्वचनं श्रुत्वा वाल्मीकिरिदमब्रवीत् । सीतेयं समनुप्राप्ता पत्नी रामस्य धीमतः ।। 7.49.21 ।।
स्नुषा दशरथस्यैषा जनकस्य सुता सती । अपापा पतिना त्यक्ता परिपाल्या मया सदा ।। 7.49.22 ।।
इमां भवन्त्यः(?) पश्यन्तु स्नेहेन परमेण हि । गौरवान्मम वाक्याच्च पूज्या वो ऽस्तु विशेषतः ।। 7.49.23 ...
मुहुर्मुहुश्च वैदेहीं प्रणिधाय महायशाः । स्वमाश्रमं शिष्यवृतः पुनरायान्महातपाः ।। 7.49.24 ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनपञ्चाशः सर्गः ।। 49 ।।