Chapter 594
Sarga 57
तां श्रुत्वा दिव्यसङ्काशां कथामद्भुतदर्शनाम् । लक्ष्मणः परमप्रीतो राघवं वाक्यमब्रवीत् ।। 7.57.1 ।।
निक्षिप्तदेहौ काकुत्स्थ कथं तौ द्विजपार्थिवौ । पुनर्देहेन संयोगं जग्मुर्देवसम्मतौ ।। 7.57.2 ।।
तस्य तद्भाषितं श्रुत्वा रामः सत्यपराक्रमः । तां कथां कथयामास वसिष्ठस्य महात्मनः ।। 7.57.3 ।।
यस्तु कुम्भो रघुश्रेष्ठ तेजःपूर्णो महात्मनोः । तस्मिंस्तेजोमयौ विप्रौ सम्भूतावृषिसत्तमौ ।। 7.57.4 ।।
पूर्वं समभवत्तत्र ह्यगस्त्यो भगवानृषिः । नाहं सुतस्तवेत्युक्त्वा मित्रं तस्मादपाक्रमत् ।। 7.57.5 ।।
तद्धि तेजस्तु मित्रस्य उर्वस्याः पूर्वमाहितम् । तस्मिन्समभवत्कुम्भे तत्तेजो यत्र वारुणम् ।। 7.57.6 ।...
कस्यचित्त्वथ कालस्य मित्रावरुणसम्भवः । वसिष्ठस्तेजसा युक्तो जज्ञे इक्ष्वाकुदैवतम् ।। 7.57.7 ।।
तमिक्ष्वाकुर्महातेजा जातमात्रमनिन्दितम् । वव्रे पुरोधसं सौम्य वंशस्यास्य भवाय नः ।। 7.57.8 ।।
एवं त्वपूर्वदेहस्य वसिष्ठस्य महात्मनः । कथितो निर्गमः सौम्य निमेः शृणु यथा ऽभवत् ।। 7.57.9 ।।
दृष्ट्वा विदेहं राजानमृषयः सर्व एव ते । तं च ते योजयामासुर्यागदीक्षां मनीषिणः ।। 7.57.10 ।।
तं च देहं नरेन्द्रस्य रक्षन्ति स्म द्विजोत्तमाः । गन्धैर्माल्यैश्च वस्त्रैश्च पौरभृत्यसमन्विताः ।। 7...
ततो यज्ञे समाप्ते तु भृगुस्तत्रेदमब्रवीत् । आनयिष्यामि ते चेतस्तुष्टो ऽस्मि तव पार्थिव ।। 7.57.12 ।।
सुप्रीताश्च सुराः सर्वे निमेश्चेतस्तथाब्रुवन् । वरं वरय राजर्षे क्व ते चेतो निरूप्यताम् ।। 7.57.13 ।...
एवमुक्तः सुरैः सर्वैर्निमेश्चेतस्तदाब्रवीत् । नेत्रेषु सर्वभूतानां वसेयं सुरसत्तमाः ।। 7.57.14 ।।
बाढमित्येव विबुधा निमेश्चेतस्तदा ऽब्रुवन् । नेत्रेषु सर्वभूतानां वायुभूतश्चरिष्यसि ।। 7.57.15 ।।
त्वत्कृते च निमिष्यन्ति चक्षूंषि पृथिवीपते । वायुभूतेन चरता विश्रमार्थं मुहुर्मुहुः ।। 7.57.16 ।।
एवमुक्त्वा तु विबुधाः सर्वे जग्मुर्यथागतम् । ऋषयो ऽपि महात्मानो निमेर्देहं समाहरन् ।। 7.57.17 ।।
अरणिं तत्र निक्षिप्य मथनं चक्रुरोजसा । मन्त्रहोमैर्महात्मानः पुत्रहेतोर्निमेस्तदा ।। 7.57.18 ।।
अरण्यां मथ्यामानायां प्रादुर्भूतो महातपाः । मथनान्मिथिरित्याहुर्जननाज्जनको ऽभवत् । यस्माद्विदेहात्सम...
एवं विदेहराजश्च जनकः पूर्वको ऽभवत् । मिथिर्नाम महातेजास्तेनायं मैथिलो ऽभवत् ।। 7.57.20 ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तपञ्चाशः सर्गः ।। 57 ।।