Chapter 595
Sarga 58
एवं ब्रुवति रामे तु लक्ष्मणः परवीरहा । प्रत्युवाच महात्मानं ज्वलन्तमिव तेजसा ।। 7.58.1 ।।
महदद्भुतमाश्चर्यं विदेहस्य पुरातनम् । निर्वृत्तं राजशार्दूल वसिष्ठस्य निमेस्सह ।। 7.58.2 ।।
निमिस्तु क्षत्रियः शूरो विशेषेण च दीक्षितः । न क्षमां कृतवान्राजा वसिष्ठस्य महात्मनः ।। 7.58.3 ।।
एवमुक्तस्तु तेनायं श्रीमान् क्षत्रियपुङ्गवः । उवाच लक्ष्मणं वाक्यं सर्वशास्त्रविशारदम् ।। 7.58.4 ।।
रामो रमयतां श्रेष्ठो भ्रातरं दीप्ततेजसम् । न सर्वत्र क्षमा वीर पुरुषेषु प्रदृश्यते ।। 7.58.5 ।।
सौमित्रे दुःसहो रोषो यथा क्षान्तो ययातिना । सत्त्वानुगं पुरस्कृत्य तन्निबोध समाहितः ।। 7.58.6 ।।
नहुषस्य सुतो राजा ययातिः पौरवर्धनः । तस्य भार्याद्वयं सौम्य रूपेणाप्रतिमं भुवि ।। 7.58.7 ।।
एका तु तस्य राजर्षेर्नाहुषस्य पुरस्कृता । शर्मिष्ठा नाम दैतेयी दुहिता वृषपर्वणः ।। 7.58.8 ।।
अन्या तूशनसः पत्नी ययातेः पुरुषर्षभ । न तु सा दयिता राज्ञो देवयानी सुमध्यमा ।। 7.58.9 ।।
तयोः पुत्रौ तु सम्भूतौ रूपवन्तौ समाहितौ । शर्मिष्ठा ऽजनयत्पूरुं देवयानी यदुं तदा ।। 7.58.10 ।।
पूरुस्तु दयितो राज्ञो गुणैर्मातृकृतेन च । ततो दुःखसमाविष्टो यदुर्मातरमब्रवीत् ।। 7.58.11 ।।
भार्गवस्य कुले जाता देवस्याक्लिष्टकर्मणः । सहसे हृद्गतं दुःखमवमानं च दुःसहम् ।। 7.58.12 ।।
आवां च सहितौ देवि प्रविशाव हुताशनम् । राजा तु रमतां सार्धं दैत्यपुत्र्या बहुक्षपाः ।। 7.58.13 ।।
यदि वा सहनीयं ते मामनुज्ञातुमर्हसि । क्षम त्वं न क्षमिष्ये ऽहं मरिष्यामि न संशयः ।। 7.58.14 ।।
पुत्रस्य भाषितं श्रुत्वा परमार्तस्य रोदतः । देवयानी तु सङ्क्रुद्धा सस्मार पितरं तदा ।। 7.58.15 ।।
इङ्गितं तदभिज्ञाय दुहितुर्भार्गवस्तदा । आगतस्त्वरितं तत्र देवयानी तु यत्र सा ।। 7.58.16 ।।
दृष्ट्वा चाप्रकृतिस्थां तामप्रहृष्टामचेतनाम् । पिता दुहितरं वाक्यं किमेतदिति चाब्रवीत् ।। 7.58.17 ।।
पृच्छन्तमसकृत्तं वै भार्गवं दीप्ततेजसम् । देवयानी तु सङ्क्रुद्धा पितरं वाक्यमब्रवीत् ।। 7.58.18 ।।
अहमग्निं विषं तीक्ष्णमपो वा मुनिसत्तम । भक्षयिष्ये प्रवेक्ष्यामि न तु शक्ष्यामि जीवितुम् ।। 7.58.19 ...
न मां त्वमवजानीषे दुःखितामवमानिताम् । वृक्षस्यावज्ञया ब्रह्मंश्छिद्यन्ते वृक्षजीविनः ।। 7.58.20 ।।
अवज्ञया च राजर्षिः परिभूय च भार्गव । मय्यवज्ञां प्रयुङ्क्ते हि न च मां बहु मन्यते ।। 7.58.21 ।।
तस्यास्तद्वचनं श्रुत्वा कोपेनाभिपरिप्लुतः । व्याहर्तुमुपचक्राम भार्गवो नहुषात्मजम् ।। 7.58.22 ।।
यस्मान्मामवजानीषे नाहुष त्वं दुरात्मवान् । जरया परया जीर्णः शैथिल्यमुपयास्यसि ।। 7.58.23 ।।
एवमुक्त्वा दुहितरं समाश्वास्य च भार्गवः । पुनर्जगाम ब्रह्मर्षिर्भवनं स्वं महायशाः ।। 7.58.24 ।।
स एवमुक्त्वा द्विजपुङ्गवाग्र्यः सुतां समाश्वास्य च देवयानीम् । पुनर्ययौ सूर्यसमानतेजा दत्त्वा च शापं...
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टपञ्चाशः सर्गः ।। 58 ।।