arrow_back All Chapters

Chapter 597

Sarga 60

VERSE 597.1

तयोः संवदतोरेवं रामलक्ष्मणयोस्तदा । वासन्तिकी निशा प्राप्ता न शीता न च घर्मदा ।। 7.60.1 ।।

READ MEANING arrow_forward
VERSE 597.2

ततः प्रभाते विमले कृतपौर्वाह्णिकक्रियः । अभिचक्राम काकुत्स्थो दर्शनं पौरकार्यवित् ।। 7.60.2 ।।

READ MEANING arrow_forward
VERSE 597.3

ततः सुमन्त्रस्त्वागम्य राघवं वाक्यमब्रवीत् । एते प्रतिहता राजन्द्वारि तिष्ठन्ति तापसाः ।। 7.60.3 ।।

READ MEANING arrow_forward
VERSE 597.4

भार्गवच्यवनं चैव पुरस्कृत्य महर्षयः । दर्शनं ते महाराज्ञश्चोदयन्ति कृतत्वराः । प्रीयमाणा नरव्याघ्र य...

READ MEANING arrow_forward
VERSE 597.5

तस्य तद्वचनं श्रुत्वा रामः प्रोवाच धर्मवित् । प्रवेश्यन्तां महाभागा भार्गवप्रमुखा द्विजाः ।। 7.60.5 ...

READ MEANING arrow_forward
VERSE 597.6

राज्ञस्त्वाज्ञां पुरस्कृत्य द्वाःस्थो मूर्ध्नि कृताञ्जलिः । प्रवेशयामास तदा तापसान्सुदुरासदान् ।। 7....

READ MEANING arrow_forward
VERSE 597.7

शतं समधिकं तत्र दीप्यमानं स्वतेजसा । प्रविष्टं राजभवनं तापसानां महात्मनाम् ।। 7.60.7 ।।

READ MEANING arrow_forward
VERSE 597.8

ते द्विजाः पूर्णकलशैः सर्वतीर्थाम्बुसत्कृतैः । गृहीत्वा फलमूलं च रामस्याभ्याहरन्बहु ।। 7.60.8 ।।

READ MEANING arrow_forward
VERSE 597.9

प्रतिगृह्य तु तत्सर्वं रामः प्रीतिपुरस्कृतः । तीर्थोदकानि सर्वाणि फलानि विविधानि च ।। 7.60.9 ।।

READ MEANING arrow_forward
VERSE 597.10

उवाच च महाबाहुः सर्वानेव महामुनीन् । इमान्यासनमुख्यानि यथार्हमुपविश्यताम् ।। 7.60.10 ।।

READ MEANING arrow_forward
VERSE 597.11

रामस्य भाषितं श्रुत्वा सर्व एव महर्षयः । बृसीषु रुचिराख्यासु निषेदुः काञ्चनीषु ते ।। 7.60.11 ।।

READ MEANING arrow_forward
VERSE 597.12

उपविष्टानृषींस्तत्र दृष्ट्वा परपुरञ्जयः । प्रयतः प्राञ्जलिर्भूत्वा राघवो वाक्यमब्रवीत् ।। 7.60.12 ।।

READ MEANING arrow_forward
VERSE 597.13

किमागमनकार्यं वः किं करोमि समाहितः । आज्ञाप्यो ऽहं महर्षीणां सर्वकामकरः सुखम् ।। 7.60.13 ।।

READ MEANING arrow_forward
VERSE 597.14

इदं राज्यं च सकलं जीवितं च हृदि स्थितम् । सर्वमेतद्द्विदार्थं मे सत्यमेतद्ब्रवीमि वः ।। 7.60.14 ।।

READ MEANING arrow_forward
VERSE 597.15

तस्य तद्वचनं श्रुत्वा साधुकारो महानभूत् । ऋषीणामुग्रतपसां यमुनातीरवासिनाम् ।। 7.60.15 ।।

READ MEANING arrow_forward
VERSE 597.16

ऊचुश्च ते महात्मानो हर्षेण महता वृताः । उपपन्नं नरश्रेष्ठ तवैव भुवि नान्यतः ।। 7.60.16 ।।

READ MEANING arrow_forward
VERSE 597.17

बहवः पार्थिवा राजन्नतिक्रान्ता महाबलाः । कार्यस्य गौरवं मत्वा प्रतिज्ञां नाभ्यरोचयन् ।। 7.60.17 ।।

READ MEANING arrow_forward
VERSE 597.18

त्वया पुनर्ब्राह्मणगौरवादियं कृता प्रतिज्ञा ह्यनवेक्ष्य कारणम् । ततश्च कर्ता ह्यसि नात्र संशयो महाभय...

READ MEANING arrow_forward
VERSE 597.19

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षष्टितमः सर्गः ।। 60 ।।

READ MEANING arrow_forward
arrow_back Previous Chapter Next Chapter 598 arrow_forward