Chapter 598
Sarga 61
एवं ब्रुवद्भिर्ऋषिभिः काकुत्स्थो वाक्यमब्रवीत् । किं कार्यं ब्रूत मुनयो भयं तावदपैतु वः ।। 7.61.1 ।।
तथा ब्रुवति काकुत्स्थे भार्गवो वाक्यमब्रवीत् । भयानां शृणु यन्मूलं देशस्य च नरेश्वर ।। 7.61.2 ।।
पूर्वं कृतयुगे राजन्दैतेयः सुमहाबलः । लोलापुत्रो ऽभवज्ज्येष्ठो मधुर्नाम महासुरः ।। 7.61.3 ।।
ब्रह्मण्यश्च शरण्यश्च बुद्ध्या च परिनिष्ठितः । सुरैश्च परमोदारैः प्रीतिस्तस्यातुला ऽभवत् ।। 7.61.4 ।...
स मधुर्वीर्यसम्पन्नो धर्मे च सुसमाहितः । बहुवर्षसहस्राणि रुद्रप्रीत्या ऽकरोत्तपः ।। 7.61.5 ।।
रुद्रः प्रीतो ऽभवत्तस्मै वरं दातुं ययौ च सः । बहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतो वरः ।। 7.61.6 ।।
शूलं शूलाद्विनिष्कृष्य महावीर्यं महाप्रभम् । ददौ महात्मा सुप्रीतो वाक्यं चैतदुवाच ह ।। 7.61.7 ।।
त्वयायमतुलो धर्मो मत्प्रसादकरः कृतः । प्रीत्या परमया युक्तो ददाम्यायुधमुत्तमम् ।। 7.61.8 ।।
यावत्सुरैश्च विप्रैश्च न विरुध्येर्महासुर । तावच्छूलं तवेदं स्यादन्यथा नाशमेप्यति ।। 7.61.9 ।।
यश्च त्वामभियुञ्जीत युद्धाय विगतज्वरः । तं शूलो भस्मसात्कृत्वा पुनरेष्यति ते करम् ।। 7.61.10 ।।
एवं रुद्राद्वरं लब्ध्वा भूय एव महासुरः । प्रणिपत्य महादेवं वाक्यमेतदुवाच ह ।। 7.61.11 ।।
भगवन्मम वंशस्य शूलमेतदनुत्तमम् । भवेत्तु सततं देव सुराणामीश्वरो ह्यसि ।। 7.61.12 ।।
तं ब्रुवाणं मधुं देवः सर्वभूतपतिः शिवः । प्रत्युवाच महातेजा नैतदेवं भविष्यति ।। 7.61.13 ।।
मा भूत्ते विफला वाणी मत्प्रसादकृता शुभा । भवतः पुत्रमेकं तु शूलमेतद्भजिष्यते ।। 7.61.14 ।।
यावत्करस्थः शूलो ऽयं भविष्यति सुतस्य ते । अवध्यः सर्वभूतानां शूलहस्तो भविष्यति ।। 7.61.15 ।।
एवं मधुर्वरं लब्ध्वा देवात्सुमहदद्भुतम् । भवनं सो ऽसुरश्रेष्ठः कारयामास सुप्रभम् ।। 7.61.16 ।।
तस्य पत्नी महाभागा प्रिया कुम्भीनसीति या । विश्वावसोरपत्यं सा ह्यनलायां महाप्रभा ।। 7.61.17 ।।
तस्याः पुत्रो महावीर्यो लवणो नाम दारुणः । बाल्यात्प्रभृति दुष्टात्मा पापान्येव समाचरत् ।। 7.61.18 ।।
तं पुत्रं दुर्विनीतं तु दृष्ट्वा क्रोधसमन्वितः । मधुः स शोकमापेदे न चैनं किञ्चिदब्रवीत् ।। 7.61.19 ।...
स विहाय त्विमं लोकं प्रविष्टो वरुणालयम् । शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत् ।। 7.61.20 ।।
स प्रभावेण शूलस्य दौरात्म्येनात्मनस्तथा । सन्तापयति लोकांस्त्रीन्विशेषेण च तापसान् ।। 7.61.21 ।।
एवंप्रभावो लवणः शूलं चैव तथाविधम् । श्रुत्वा प्रमाणं काकुत्स्थ त्वं हि नः परमा गतिः ।। 7.61.22 ।।
बहवः पार्थिवा राम भयार्तैर्ऋषिभिः पुरा । अभयं याचिता वीर त्रातारं न च विद्महे ।। 7.61.23 ।।
ते वयं रावणं श्रुत्वा हतं सबलवाहनम् । त्रातारं विद्महे तात नान्यं भुवि नराधिपम् । तत्परित्रातुमिच्छा...
इति राम निवेदितं तु ते भयजं कारणमुत्थितं च यत् । विनिवारयितुं भवान्क्षमः कुरु तं काममहीनविक्रम ।। 7....
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकषष्टितमः सर्गः ।। 61 ।।