Chapter 618
Sarga 81
स मुहूर्तादुपश्रुत्य देवर्षिरमितप्रभः । स्वमाश्रमं शिष्यवृतः क्षुधार्तः सन्न्यवर्तत ।। 7.81.1 ।।
सो ऽपश्यदरजां दीनां रजसा समभिप्लुताम् । ज्योत्स्नामिव ग्रहग्रस्तां प्रत्यूषे न विराजतीम् ।। 7.81.2 ।...
तस्य रोषः समभवत्क्षुधार्तस्य विशेषतः । निर्दहन्निव लोकांस्त्रीञ्छिष्यांश्चैतदुवाच ह ।। 7.81.3 ।।
पश्यध्वं विपरीतस्य दण्डस्याविजितात्मनः । विपत्तिं घोरसङ्काशां क्रुद्धामग्निशिखामिव ।। 7.81.4 ।।
क्षयो ऽस्य दुर्मतेः प्राप्तः सानुगस्य दुरात्मनः । यः प्रदीप्तां हुताशस्य शिखां वै स्प्रष्टुमिच्छति ।...
यस्मात्स कृतवान्पापमीदृशं घोरसंहितम् । तस्मात्प्राप्स्यति दुर्मेधाः फलं पापस्य कर्मणः ।। 7.81.6 ।।
सप्तरात्रेण राजासौ सभृत्यबलवाहनः । पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः ।। 7.81.7 ।।
समन्ताद्योजनशतं विषयं चास्य दुर्मतेः । धक्ष्यते पांसुवर्षेण महता पाकशासनः ।। 7.81.8 ।।
सर्वसत्वानि यानीह स्थावराणि चराणि च । महता पांसुवर्षेण विलयं सर्वतो ऽगमन् ।। 7.81.9 ।।
दण्डस्य विषयो यावत्तावत्सर्वसमुच्छ्रयम् । पांसुवर्षमिवालक्ष्यं सप्तरात्रं भविष्यति ।। 7.81.10 ।।
इत्युक्त्वा क्रोधताम्राक्षस्तदाश्रमनिवासिनम् । जनं जनपदान्तेषु स्थीयतामिति चाब्रवीत् ।। 7.81.11 ।।
श्रुत्वा तूशनसो वाक्यं सो ऽ ऽश्रमावसथो जनः । निष्क्रान्तो विषयात्तस्मात्स्थानं चक्रे ऽथ बाह्यतः ।। 7...
स तथोक्त्वा मुनिजनमरजामिदमब्रवीत् । इहैव वस दुर्मेधे आश्रमे सुसमाहिता ।। 7.81.13 ।।
इदं योजनपर्यन्तं सरः सुरुचिरप्रभम् । अरजे विज्वरा भुङ्क्ष्व कालश्चात्र प्रतीक्ष्यताम् ।। 7.81.14 ।।
त्वत्समीपे च ये सत्त्वा वासमेष्यन्ति तां निशाम् । अवध्याः पांसुवर्षेण ते भविष्यन्ति नित्यदा ।। 7.81....
श्रुत्वा नियोगं ब्रह्मर्षेः सा ऽरजा भार्गवी तदा । तथेति पितरं प्राह भार्गवं भृशदुःखिता । इत्युक्त्वा...
तच्च राज्यं नरेन्द्रस्य सभृत्यबलवाहनम् । सप्ताहाद्भस्मसाद्भूतं यथोक्तं ब्रह्मवादिना ।। 7.81.17 ।।
तस्यासौ दण्डविषयो विन्ध्यशैवलयोर्नृप । शप्तो ब्रह्मर्षिणा तेन वैधर्म्ये सहिते कृते ।। 7.81.18 ।।
ततः प्रभृति काकुत्स्थ दण्डकारण्यमुच्यते । तपस्विनः स्थिता ह्यत्र जनस्थानमतो ऽभवत् ।। 7.81.19 ।।
एतत्ते सर्वमाख्यातं यन्मां पृच्छसि राघव । सन्ध्यामुपासितुं वीर समयो ह्यतिवर्तते ।। 7.81.20 ।।
एते महर्षयः सर्वे पूर्णकुम्भाः समन्ततः । कृतोदका नरव्याघ्र आदित्यं पर्युपासते ।। 7.81.21 ।।
स तैर्ब्राह्मणमभ्यस्तं सहितैर्ब्रह्मवित्तमैः । रविरस्तं गतो राम गच्छोदकमुपस्पृश ।। 7.81.22 ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकाशीतितमः सर्गः ।। 81 ।।