Chapter 619
Sarga 82
ऋषेर्वचनमाज्ञाय रामः सन्ध्यामुपासितुम् । उपाक्रमत्सरः पुण्यमप्सरोगणसेवितम् ।। 7.82.1 ।।
तत्रोदकमुपस्पृश्य सन्ध्यामन्वास्य पश्चिमाम् । आश्रमं प्राविशद्रामः कुम्भयोनेर्महात्मनः ।। 7.82.2 ।।
तस्यागस्त्यो बहुगुणं कन्दमूलं तथौषधिम् । शाल्यादीनि पवित्राणि भोजनार्थमकल्पयत् ।। 7.82.3 ।।
स भुक्तवान्नरश्रेष्ठस्तदन्नममृतोपमम् । प्रीतश्च परितुष्टश्च तां रात्रिं समुपाविशत् ।। 7.82.4 ।।
प्रभाते काल्यमुत्थाय कृत्वा ऽ ऽह्निकमरिन्दमः । ऋषिं समुपचक्राम गमनाय रघूत्तमः ।। 7.82.5 ।।
अभिवाद्याब्रवीद्रामो महर्षिं कुम्भसम्भवम् । आपृच्छे स्वां पुरीं गन्तुं मामनुज्ञातुमर्हसि ।। 7.82.6 ।...
धन्यो ऽस्म्यनुगृहीतो ऽस्मि दर्शनेन महात्मनः । द्रष्टुं चैवागमिष्यामि पावनार्थमिहात्मनः ।। 7.82.7 ।।
तथा वदति काकुत्स्थे वाक्यमद्भुतदर्शनम् । उवाच परमप्रीतो धर्मनेत्रस्तपोधनः ।। 7.82.8 ।।
अत्यद्भुतमिदं वाक्यं तव राम शुभाक्षरम् । पावनः सर्वभूतानां त्वमेव रघुनन्दन ।। 7.82.9 ।।
मुहूर्तमपि राम त्वां ये च पश्यन्ति केचन । पाविताः स्वर्गभूताश्च पूज्यास्ते सर्वदैवतैः ।। 7.82.10 ।।
ये च त्वां घोरचक्षुर्भिः पश्यन्ति प्राणिनो भुवि । हतास्ते यमदण्डेन सद्यो निरयगामिनः ।। 7.82.11 ।।
ईदृशस्त्वं रघुश्रेष्ठ पावनः सर्वदेहिनाम् । भुवि त्वां कथयन्तो ऽपि सिद्धिमेष्यन्ति राघव ।। 7.82.12 ।।
गच्छ चारिष्टमव्याग्रः पन्थानमकुतोभयम् । प्रशाधि राज्यं धर्मेण गतिर्हि जगतो भवान् ।। 7.82.13 ।।
एवमुक्तस्तु मुनिना प्राञ्जलिः प्रग्रहो नृपः । अभ्यवादयत प्राज्ञस्तमृषिं पुण्यशालिनम् ।। 7.82.14 ।।
अभिवाद्य मुनिश्रेष्ठं तांश्च सर्वांस्तपोधनान् । अध्यारोहत्तदव्यग्रः पुष्पकं हेमभूषितम् ।। 7.82.15 ।।
तं प्रयान्तं मुनिगणा ह्याशीर्वादैः समन्ततः । अपूजयन्महेन्द्राभं सहस्राक्षमिवामराः ।। 7.82.16 ।।
स्वस्थः स ददृशे रामः पुष्पके हेमभूषिते । शशी मेघसमीपस्थो यथा जलधरागमे ।। 7.82.17 ।।
ततो ऽर्धदिवसे प्राप्ते पूज्यमानस्ततस्ततः । अयोध्यां प्राप्य काकुत्स्थो मध्यकक्ष्यामवारुहत् ।। 7.82.1...
ततो विसृज्य रुचिरं पुष्पकं कामगामि तत् । विसर्जयित्वा गच्छेति स्वस्ति ते ऽस्त्विति च प्रभुः ।। 7.82....
कक्षान्तरविनिक्षिप्तं द्वास्स्थं रामो ऽब्रवीद्वचः । लक्ष्मणं भरतं चैव गत्वा तौ लघुविक्रमौ ।। ममागमनम...
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे व्द्यशीतितमः सर्गः ।। 82 ।।